पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राप्तवान्तकालोऽयं इति रक्षो निनिन्द सा न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११ ॥ न त्वं तयोः शरस्पर्श सोढुं शक्तः कथंचन । वने प्रज्वलितस्येव स्पर्शमग्र विहङ्गमः ॥ १२ ॥ ★

  • साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च, रावण !

मत्प्रधर्षण 'रुष्टो हि भ्रात्रा सह पतिर्मम | विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १३ ॥ विनाशाय विधास्यतीति । यत्रमिति शेषः ॥ १३ ॥ 367 येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यवसायः स ते, नीच ! भविष्यति निरर्थकः ॥ १४ ॥ येन व्यवसायेन – स्त्रीभोगव्यवसायेन || १४ || - न ह्यहं तमपश्यन्ती भर्तारं 'विबुधोपमम् । उत्सहे शत्रुवशगा प्राणान् धारयितुं + चिरम् ।। १५ ।। तन्नैरर्थक्यमेव दर्शयति -न हनित्यादि ।। १५ ।। न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मर्त्यः विपरीतानि सेवते || १६ । वा इति पदम् । यथा सेवते तथा त्वमपीति शेषः ।। १६ ।। ★ आत्मनः पथ्यं साधु - सम्यक् कृत्वा -- आलोच्य विनाशाय-त्वद्विनाशाय । रामो मां मोचयेदचिरादिति प्रत्याशया जीवामि । यदा च तादृशप्रत्याशा इता भवति तदैव प्राणान् हास्यामि इति भावः । § 'वासं ' इति पदच्छेदान्तिवारणायेद मुकम् । • संकुद:- ज. " वासवोपमम्. तथा मां मुख | + परिहार:- चिरमिति - गो. भवतः साधु यथा भवेत् इदानीं कथं भारयसीत्यत्र