पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

566 रावणगहणम् परमं खळु ते वीर्य दृश्यते, राक्षसाधम ! विश्राव्य नामधेयं हि 'युद्धेनास्मि जिता त्वया ॥ ६ ॥ परमं स्खस्वित्यादिस्तु व्यङ्गयोक्तिः ॥ ६ ॥ ईदृशं गर्हितं कर्म कथं कृत्वा न लजसे । स्त्रियाथ हरणं, नीच ! *रहिते तु परस्य च ॥ ७ ॥ परस्य स्त्रियाः इत्यन्वयः ॥ ७ ॥ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ८ ॥ शौण्डीय मानिनः - शूरमानिनः ॥ ८ ॥ [अरण्यकाण्ड: धिक् ! ते ' शौर्य च सवं च यत् ' त्वं कथितवांस्तदा । कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ९ ॥ तदेति । अपहरणात् पूर्वकाले इत्यर्थः । कुलाक्रोशकरं- कुलनिन्दाकरम् ॥ ९ ॥ + किं कर्तुं शक्यमेवं हि यज्जवनैव धावसि । मुहूर्त'मपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ।। १० ।। मुहूर्तमपि तिष्ठ त्वं, यदि शूरः इति शेषः || १० || युद्धेनापहृता-सु. 'वीर्थ च शौर्य च-ड.. मतदनन्तरं ---"स्वयैय नूनं दुष्टात्मन् यद्वीये कथितं मुपतिङ्क-ड.. www

  • स्त्रिया हरणमेव लज्जावहं, तत्रापि परस्य, तत्रापि असहायावस्थायामिति भावः ॥

+जवेन पलायनमन्तरा किमन्यत् भवता वतुं शक्यम् | यदि शक्यं तिष्ठ मुहूर्त.. इत्यर्थः । 3 स्वया कथितं तदा-ज. 37 मम ---इत्यधिक-ज..