सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left
367
प्राप्तवान्तकालोऽयं इति रक्षो निनिन्द सा

न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११ ॥
न त्वं तयोः शरस्पर्श सोढुं शक्तः कथंचन ।
वने प्रज्वलितस्येव स्पर्शमग्र विहङ्गमः ॥ १२ ॥
[१] साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च, रावण !
मत्प्रधर्षण [२] रुष्टो हि भ्रात्रा सह पतिर्मम |
विधास्यति [३] विनाशाय त्वं मां यदि न मुञ्चसि ॥ १३ ॥

 विनाशाय विधास्यतीति । यत्रमिति शेषः ॥ १३ ॥

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ।
व्यवसायः स ते, नीच ! भविष्यति निरर्थकः ॥ १४ ॥

 येन व्यवसायेन – स्त्रीभोगव्यवसायेन || १४ ||

न ह्यहं तमपश्यन्ती भर्तारं [४] विबुधोपमम् ।
उत्सहे शत्रुवशगा प्राणान् धारयितुं [५] चिरम् ।। १५ ।।

 तन्नैरर्थक्यमेव दर्शयति -न हनित्यादि ।। १५ ।।

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ।
मृत्युकाले यथा मर्त्यः विपरीतानि सेवते || १६ ।

 [६] वा इति पदम् । यथा सेवते तथा त्वमपीति शेषः ।। १६ ।।


  1. आत्मनः पथ्यं साधु - सम्यक् कृत्वा -- आलोच्य भवतः साधु यथा भवेत् तथा मां मुख |
  2. संकुद:- ज.
  3. विनाशाय-त्वद्विनाशाय ।
  4. वासवोपमम्.
  5. इदानीं कथं भारयसीत्यत्र परिहार:- चिरमिति - गो. रामो मां मोचयेदचिरादिति प्रत्याशया जीवामि । यदा च तादृशप्रत्याशा इता भवति तदैव प्राणान् हास्यामि इति भावः ।
  6. 'वासं ' इति पदच्छेदान्तिवारणायेदमुकम् ।