पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५ सर्ग: ]
303
आर्तस्वरोऽयं सीतायां रामे च मयमाद्वात्

[१] निहत्य पृषतं चान्यं मौसमादाय राघवः ।
त्वरमाणो जनस्थानं ससारा [२]भिमुखं तदा ॥ २७ ॥

इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः

 पृषतं - मृगम् । जनस्थानं अभिमुखं- जनस्थ नवर्तिनिजाश्रम-मुद्दिश्येत्यर्थः । सार(२७)मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे चतुश्चत्वारिंशः सर्ग:

पञ्चचत्वारिंशः सर्गः

[लक्ष्मणापसरणम् ]

आस्वरं तु तं [३]भर्तुः विज्ञाय सदृशं [४] वने ।
उवाच लक्ष्मणं सीता, गच्छ जानीहि राघवम् ॥ १ ॥

 अथ सीतया आसन्ननि जानर्थनिंदा नातिघोरानुचितदुर्वचन-शितशरैः मर्माण लक्ष्मणं विद्धा आश्रमादुद्वासनम् । आर्तस्वरमित्यादि । भर्तुः खरेण सदृशं तं आर्तस्वरं भर्तुः स्वर मेवेति विज्ञायेत्यर्थः ॥ १ ॥

न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति ।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २ ॥
आक्रन्दमानं तु वने भ्रातरं [५]त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥


  1. लक्ष्मणस्य सीतारक्षार्थ मेव नियुक्तस्त्रेन स्वयमेवाहारमप्प्रादायागच्छदिति भावः ।
  2. भिमुखः हु.
  3. भर्तुः दृश मेन्युक्तया नेदं रामवच इति सीतया ज्ञानमिति सूचितम् - रा. परन्तु मतुः वृशमिति कविवचनम् । इदं समनन्तरं श्लोकेऽपि स्पष्टम् ।
  4. वचः- ङ.
  5. शातु-ङ.