पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
302
[अरण्यकाण्ड:
मामा मृगवषः

रामो रुधिरसिक्ताङ्गं [१] वेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ।। २२ ।।
मारीचस्यैव मायैषा [२] पूर्वोक्तं लक्ष्मणेन तु ।
तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ।। २३ ।।

 लक्ष्मणस्य वचः स्मरन्नित्येतदेव प्रकाशयति - मारीचस्येत्यादि ।

हा सीते ! लक्ष्मणेत्येवं आक्रुश्य च महास्वनम् ।
ममार राक्षसः सोऽयं [३] श्रुत्वा सीता कथं भवेत ? ॥२४॥

 सीता कथं भवेत् – महलं ज्ञात्वा धीरा भवेत् ? उत अन्यथा ज्ञात्वा दुरवस्थां गच्छेद्वेत्यर्थः ॥ २४ ॥

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ?
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ २५ ॥
तत्र रामं भयं तीव्रं आविवेश विषादजम् ||

 हृष्टतनूरुद्द इति । सीतानिमित्तभयविकारादिति शेषः । तदेव दर्शयति- - तत्र रामं भयमित्यादि ॥ २५ ॥

राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम् ॥ २६ ॥


  1. चेष्टमानं-ज.
  2. मायैषेत्यत्र इतिकरणं बोध्यम्-गो. अथवा 'मारीचस्यैव मायैषा' इति स्वगतं वचनं वा ।
  3. सीता कथं भवेत् - किमधैर्यं नाटयित्वा लक्ष्मणं प्रेषयेव, उत धीरा
    भवेदित्यर्थ:-ति. वस्तुतस्तु सीतालक्ष्मणयोः स्वविरहासहिष्णुत्वस्य 'न च सीता
    त्वया हीना न चाहमपि राघव मुहूर्तमपि जीवाव: जलान्मत्स्याविवोद्धृतौ ' इत्यादावव-
    गतत्वेन, एवं मदीयार्त स्वरश्रवणमात्रेण तयोजींवितविपत्तिर्न भवेद्वेत्येवातिशङ्कात्र
    रामस्य स्यात् । अत एव ' हृष्टननूरुहः' इत्युच्यते । तयोजीवितविपत्तिस्मरणमात्रेण
    रामः अतीव व्यथां प्रान हृष्टत्वं नाम तनूरुहाणां पुलकितत्वम् । समनन्तर लोके 'तंत्र
    रामं भयं तीत्रमा विवेश' इत्युक्त अवधेयमत्र ।