पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
304
[ अरण्यकाण्ड
लक्ष्मणापसरणम्

रक्षमां वशमापनं सिंहानामिव गोवृषम् ।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ४ ॥

 ग्रतुः शासनमाज्ञायेति । “अप्रमत्तेन ते भाव्यं आश्रमस्थेन सीतया" इत्युक्तं शासनमनुचिन्त्येत्यर्थः || ४ ||

तमुवाच ततस्तत्र [१]कुपिता जनकात्मजा ।
सौमित्रे ! मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ।
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्य से ॥ ५ ॥

 शत्रुवत् । शत्रुरेवेत्यर्थः । तत्र हेतुः यदित्यादि ॥ ५ ॥

इच्छसि त्वं विनश्यन्तं रामं, लक्ष्मण ! मत्कृते ।
लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥ ६॥

 मत्कृत इति । मत्परिग्रहार्थमित्यर्थः । एवं विधमपि घोरवचनं तस्याः बलात् अन्यस्पर्शानर्थप्राप्तिमासन्नां सूचयत् अवशात् प्रवृत्तम्, भवितव्यतावशात् ॥ ६ ॥

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।
तेन तिष्ठसि [२]विस्रब्धः तमपश्यन्महाद्युतिम् ॥ ७॥
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ।
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८ ॥

 [३] किं हीत्यादि । तस्मिन् राम संशयमापन्न तद्रहिते इह- आश्रमे तिष्ठन्त्या मया इह-इदानी त्वं यत्प्रधानः आगत-मस्परिग्रह रूपयत्कार्य-प्रधानः त्वं आगतः, अत्र विषय मया किंकर्तव्यमिति योजनार्थः ॥


  1. क्षुभिता-ज.
  2. विस्रग्ध-ज.
  3. त्वद्रक्षणं विहाय कथं गमिष्यामी वाह-के हीति । यः रामः प्रधानं यस्य सः यत्प्रधान: त्वमिहागतः, तस्मिन् रामे संशयं - प्राणसंशयमापत्रे सति इह-आश्रमपदे तिष्ठन्त्या मया किं कर्तव्यं, न किमपीत्यर्थः - गो.