पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५ सर्ग:]
305
तमासे राजवं त्रातुं सीता सौमित्रिमादिशव

इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ।
अब्रवील्लक्ष्मण: [१]त्रस्तां सीतां मृगवधूमिव ॥ ९ ॥
पन्नगासुरगन्धर्वदेवमानुपराक्षसैः ।
अशक्यस्तव, वैदेहि ! भर्ता जेतुं न संशयः ॥ १० ॥
 [२] देवि! देवमनुष्येषु गन्धर्येषु पतत्रिषु
राक्षसेषु पिशाचेषु किन्नरेषु मृगषु च ॥ ११ ॥
दानवेषु च घोरेषु न स विद्येत, शोभने !
यो रामं प्रतियुध्येत समरे वासवोपमम् ।। १२ ।।

 न स विद्यतेति । क इत्यतः- यो राममित्यादि ॥ १२ ॥

अवध्यः समरे रामः नैवं त्वं वक्तुमर्हसि ।
न त्वामस्मिन् वने हातुं उत्सहे राघवं विना ॥ १३ ॥
अनिवार्य बलं तस्य बलैर्बलवतामपि ।
त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः ।। १४ ।।

 बलवतां इन्द्रादीनामपि बलै: तस्य बलं अनिवार्य-अना- पृष्यमित्यर्थः ॥ १४ ॥

हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ।
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ।। १५ ।।
न स तस्य खरो [३] व्यक्तं [४]न कश्चिदपि दैवतः ।
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ १६ ॥


  1. त्रस्तां मृगवधूमिव स्थितां सीताम् ।
  2. तदेव भङ्गयन्तरेणाह- देवीति-रा.
  3. कश्चिद्देवतः रामं जिगीषुरपि न व्यक्त-स्पष्टमेतदस्मासु- रा.केनाचत् कृता मायैव इयम् । वस्तुतस्तु मारीचस्थैवेयं मायेस्याद - गन्भवेति- गो.
  4. मायया केनचित कृत:-ङ,