एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५ सर्ग: ]
303
आर्तस्वरोऽयं सीतायां रामे च मयमाद्वात्
इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः
पृषतं - मृगम् । जनस्थानं अभिमुखं- जनस्थ नवर्तिनिजाश्रम-मुद्दिश्येत्यर्थः । सार(२७)मानः सर्गः ॥ २७ ॥
इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे चतुश्चत्वारिंशः सर्ग:
पञ्चचत्वारिंशः सर्गः
[लक्ष्मणापसरणम् ]
अथ सीतया आसन्ननि जानर्थनिंदा नातिघोरानुचितदुर्वचन-शितशरैः मर्माण लक्ष्मणं विद्धा आश्रमादुद्वासनम् । आर्तस्वरमित्यादि । भर्तुः खरेण सदृशं तं आर्तस्वरं भर्तुः स्वर मेवेति विज्ञायेत्यर्थः ॥ १ ॥
न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति ।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २ ॥
आक्रन्दमानं तु वने भ्रातरं [५]त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥