पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
प्रथमोऽधिकारः

मुख्यत्वादिह शैवस्य मुख्यमाहात्म्यतोऽपि च ।
अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने ॥" इति ।

 ननु पाशुपताधिकरणे 'पत्युरसामञ्जस्यात्' इति पशुपतिप्रणीतानां शैवादीनां सर्वेषां तन्त्राणामप्रामाण्यसमर्थनात् एतस्मिन्नपि वचने "जिना[१]लयं प्रविष्टस्तु सवासा जलमाविशेत्" इत्यादिभिर्दर्शनस्पर्शनाद्ययोग्य[२]विषयजैन-यामल-बौद्धादिबाह्यमततन्त्रैः[३] सह वैदिकस्य समभिव्याहारात् वैदिकानर्हेषु बाह्येषु च शैवस्याधिकारोक्तेः ।

"शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलमाविशेत् ॥"

इति विज्ञानेश्वरसगृहीतधर्मशास्त्रवचनेन स्पर्शादिषु परिहरणीयत्वेन प्रसिद्धस्य शैवस्य वैदिकदेवताप्रतिष्ठादिषु मुख्याधिकारित्वजल्पनात्[४] लोके च शैवैः क्वचिदपि[५] भगवत्प्रतिष्ठाद्यनुमत्यभावात् तत्स्पर्शादिष्वपि-

"स्थापिते पञ्चरात्रेण देवे[६] षड्भिः शिवाध्वभिः[७]
प्रतिष्ठादौ कृते मोहाद्दोषः सर्वेक्षयात्मकः ॥
शान्तिश्च तस्य भूयोऽपि पञ्चरात्रोक्तवर्त्मना ।
प्रतिष्ठाप्य सहस्रेण कलशैः स्नपन हरे ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकम् ॥"

  1. जेना- क, ख, ग, च
  2. विषय-क, ख, ग कोशेषु नास्ति
  3. बौद्धबाह्यादितन्त्रै —क, ख, ग, च, झ
  4. कल्पनात्-क, ख, ग, च
  5. शैवे कदाचिदपि- क, ख, ग, झ
  6. देवै– क, ख, ग, च, ज, झ
  7. शिवादिभि– क, च, शिवार्थिभि– ख, ग, झ