पुटमेतत् सुपुष्टितम्
२७
प्रथमोऽधिकारः
मुख्यत्वादिह शैवस्य मुख्यमाहात्म्यतोऽपि च । |
ननु पाशुपताधिकरणे 'पत्युरसामञ्जस्यात्' इति पशुपतिप्रणीतानां शैवादीनां सर्वेषां तन्त्राणामप्रामाण्यसमर्थनात् एतस्मिन्नपि वचने "जिना[१]लयं प्रविष्टस्तु सवासा जलमाविशेत्" इत्यादिभिर्दर्शनस्पर्शनाद्ययोग्य[२]विषयजैन-यामल-बौद्धादिबाह्यमततन्त्रैः[३] सह वैदिकस्य समभिव्याहारात् वैदिकानर्हेषु बाह्येषु च शैवस्याधिकारोक्तेः ।
"शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् । |
इति विज्ञानेश्वरसगृहीतधर्मशास्त्रवचनेन स्पर्शादिषु परिहरणीयत्वेन प्रसिद्धस्य शैवस्य वैदिकदेवताप्रतिष्ठादिषु मुख्याधिकारित्वजल्पनात्[४] लोके च शैवैः क्वचिदपि[५] भगवत्प्रतिष्ठाद्यनुमत्यभावात् तत्स्पर्शादिष्वपि-