इत्यादिवचनानि वेदेभ्योऽपि महाभारतस्याधिक्यं ब्रुवाणानि वेदार्थोपबृंहणरूपातिशयशालिमहाभारतप्रशंसार्थानि । न पुनर्वेदानामपकर्षगन्धमभिदधते । किं च बह्वृचाम्नाय "ऋग्गाथा कुम्ब्या तन्मित यजुर्निगदो वृथा वाक्तदमित सामाधो यः कश्च गेष्ण" इति यजुरादिनिन्दा ऋग्वेदस्तुत्यर्थैव । एवमिहापि श्रीवैखानस-पञ्चरात्रयोः परस्परापकर्षवचनानामाप्तत्वेऽपि स्वाभिमतस्तुत्यर्थतयैव निर्वोढव्यम् । अन्यथा सर्वोपप्लवप्रसङ्गात् । अविस्रम्भणीयवचनानां यथाश्रुतस्वीकारेऽतिप्रसङ्गाच्च ।
एवमिव [३] हि शैवागमे कारणतन्त्रे जल्प्यत [४] ------
शेवागमकारणतन्त्र
वचनानमपि स्व-
शास्त्रप्रशंसापरत्वम् ।।
"शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च । |