इति पाद्मादिप्रतिपादितप्रायश्चित्तविशेषानुष्ठानदर्शनाच्च शैवस्तुतिवचनस्यास्य-
"त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय । |
इत्यादिप्रकारेणाप्रामाण्यमनीश्वरप्रक्षिप्तत्वमतिवादरूपतया स्वीयतन्त्राधिकारि शैवस्तुतिमात्ररूपत्वं वा कल्पनीयमिति चेत्, हन्त तर्हि अनयोरपि श्रीवैष्णवमार्गभेदयोरन्यतरस्येतरत्र शिष्टैर[१]प्रवेशानात् परस्परसङ्करप्रसङ्गे च तत्तत्तन्त्रोक्तप्रायश्चित्तानुष्ठानदर्शनाच्च परस्परापकर्ष-परस्परमर्यादाप्रवेशनवचनानि प्रक्षिप्तत्वादप्रमाणानि अतिवादरूपतया स्वतन्त्रस्तुतिपराणीति वा[२] निर्वाह्यत्वात् परम्परागतमर्यादापरित्यागेन [३]परस्परप्रवेशो न क्षम इति मध्यस्थदृष्ट्या सपश्यध्वम् । तत्र पक्षे पतन्तस्तु पतन्त्येव परमधर्ममर्यादोपप्लवात् । अतो वैखानस-पञ्चरात्रयोः पञ्चरात्रावान्तरभेदचतुष्कस्य तत्तदवान्तरतन्त्रभेदानां च परस्परमसङ्करेणैव सर्वदा स्थितिरिति सिद्धम् ।
तत्रेदं तु किंचिद्विमर्शनीयम् । यत्तत्पा[४]रमेश्वर-कालोत्तरयोः प्रमाण-
अपकृष्टसिद्धान्तत्यागे
नापि उत्कृष्टसिद्धान्त
प्रवेशकवचनानां
प्रक्षिप्तत्वपक्षः ।
भूतानामेव भगवच्छास्त्र[५]सिद्धान्तानामाकारान्तरेणोत्कर्षापकर्षयोगात् प्राक्प्रवृत्तापकृष्टसिद्धान्तपरित्यागेनापि उत्कृष्टसिद्धान्तप्रवेशनं न दोषाय । प्रत्युत गुणायैव । उत्कृष्टतन्त्रपरित्यागेन निकृष्टतन्त्रप्रवेशने समानतन्त्रसङ्करे च दोष इत्युक्तम् । इदमपि दत्तोत्तरप्रायम् । तथा हि-