पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
श्रीपाञ्चरात्ररक्षा

कर्मण्यपि तदन्तरात्मभूतो हरिनुसन्धेय इत्येवकाराभिप्राय । नित्यमित्यनेन काम्यत्वनैमित्तिकत्वशङ्काव्युदास । स्वत प्राप्ते कर्मकाले स्मरण चकारेण संगृह्यते । एवं शास्त्रीयेषु सर्वेषु[१] कर्मसु भगवदनुसन्धानं नित्यमिति सिद्धम् । एतदेव रागप्राप्तेष्ववर्जनीयमिति जयाख्यसंहिताया नियमेषु पठ्यते------

"शयनासनयानादावासक्तश्चापि[२] भोजने ।
हृद्गतं न त्यजेद्धयानमानन्दफलद हेि यत् " ॥ इति ।

सर्वसग्रहेण तूच्यने----

"आलोड्य सर्वशास्राणि विचार्य च पुन पुन ।
इदमेकं सुनिष्पन्न ध्येयो नारायण सदा" ॥ इति ।

एतच्च नित्यत्वात् स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्चस्वतन्त्रप्रपत्तिशास्रार्थनिष्ठैरपि[३] दुस्त्यजम् । उक्त चैवं स्वयप्रयोजनत्व नारायणमुनिभि------

"वृत्ति स्वामिनि दासस्य स्वरूपानुगुणा शुभा ।
भक्तिश्रद्धासमायुक्ता तत्समाराधन विदु ॥
कि किं न साध्यं भगवदाराधनपरैर्नरै ।
वैष्णवाना विशेषेण स्वयमेतत्प्रयोजनम्" ॥ इति ।

भगवदनुसन्धानविच्छेदोऽपि हि पुरुषार्थहानित्वेन स्मर्यते------

"यन्मुहूर्ते क्षणं वापि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्ति सा च विक्रिया "॥ इति ।

  1. सर्वेषु-क, ख, ग, झ पुस्तकेषु नास्ति
  2. असक्तश्चापि-घ, छ. ज
  3. शास्त्रनिष्ठरपि-क, ख. ग, च. ज. झ