पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
द्वितीयोऽधिकारः

"द्वितीये तु तथा भागे वेदाभ्यासो विधीयते ।
वेदस्वीकरणं पूर्वे विचारोऽभ्यसनं जप ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ " इति

तदप्यनुगुणम् ।. उक्तानि हि जयाख्यसहिताया जप-ध्यानार्चन-स्तोत्राणि प्रथमप्रहरपर्यन्तेऽभिगमने ।

 उपादानं चानन्तरमेवाह--

दक्षोक्ततृतीयकाल
कृत्यस्य उपादाने
ऽन्तर्भाव ।

"समित्पुष्पकुशादीना स काल समुदाहृत ।
तृतीये तु तथा भागे पोष्यवर्गार्थसाधनम् ॥" इति ।

इदं चोक्तं जयाख्यसंहितायाम् "तत पुष्पफलादीनाम् " इत्यादिना । अत्र पोष्यवर्गार्थसाधनामत्येतत् प्रागुक्तन्यायेन भगवत्प्रीणनतयैवेति ग्राह्यम् । आह चात्र प्रातःस्रानं[१] प्रक्रम्य पूर्वमेव सर्वेषु कर्मसु भगवदनुसन्धानम्

"ध्यायेन्नारायणं[२] देव स्नानादिषु च कर्मसु ।
ब्रह्मलोकमवाप्नोति न चेहा जायते पुन ॥ ” इति[३]

असूत्रयच्च भगवान् शौनक –“हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च । " इति । अत्र कर्मशब्देनानवच्छेदात् दृष्टादृष्टसर्वकर्मसग्रहः । अन्यदेवत्य[४]-

  1. स्नानादि- क, ख, ग , स्नानादीन्-च, झ
  2. ध्यायन्- क, ख, ग, च, झ
  3. इति च- घ
  4. अन्यदैवत्य-च