पुटमेतत् सुपुष्टितम्
७१
द्वितीयोऽधिकारः
"द्वितीये तु तथा भागे वेदाभ्यासो विधीयते । |
तदप्यनुगुणम् ।. उक्तानि हि जयाख्यसहिताया जप-ध्यानार्चन-स्तोत्राणि प्रथमप्रहरपर्यन्तेऽभिगमने ।
उपादानं चानन्तरमेवाह--
दक्षोक्ततृतीयकाल
कृत्यस्य उपादाने
ऽन्तर्भाव ।
"समित्पुष्पकुशादीना स काल समुदाहृत । |
इदं चोक्तं जयाख्यसंहितायाम् "तत पुष्पफलादीनाम् " इत्यादिना । अत्र पोष्यवर्गार्थसाधनामत्येतत् प्रागुक्तन्यायेन भगवत्प्रीणनतयैवेति ग्राह्यम् । आह चात्र प्रातःस्रानं[१] प्रक्रम्य पूर्वमेव सर्वेषु कर्मसु भगवदनुसन्धानम्
असूत्रयच्च भगवान् शौनक –“हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च । " इति । अत्र कर्मशब्देनानवच्छेदात् दृष्टादृष्टसर्वकर्मसग्रहः । अन्यदेवत्य[४]-