पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
श्रीपाञ्चरात्ररक्षा

दक्षस्मृतौ प्रथमद्वि
तीय कालकर्तव्यस्या
भिगमनेऽन्तर्भाव ।

"उष काले तु सप्राप्ते शौच कृत्वा यथार्थवत् ।
तत स्नानं प्रकुर्वीत दन्तधावनपूर्वकम्" ।

इत्यादिना,

"सन्ध्याहीनोऽशुचिर्नित्यमनर्ह सर्वकर्मसु ।
यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत्" ॥

इत्यन्तेन स्नानाचमन-सन्ध्यावन्दनादीनि यथावत् प्रतिपाद्य,

"सन्ध्याकर्मावसाने तु स्वय होमो विधीयते ।
स्वय होमे फलं यत्तु न तदन्येन जायते ॥
ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पति ।
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव हि" ॥

इति प्राभातिकं होम चोक्त्वानन्तरमाह----

"देवकार्य तत कृत्वा गुरुमङ्गलवीक्षण[१]
देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विशिष्यते ॥
देवकार्याणि पूर्वाह्ने मनुष्याणा तु मध्यमे ।
पितृणामपराह्ने तु कार्याण्येतानि यत्नत " ॥ इति ।

 अत्र प्रातहोंमानन्तर देवकार्यविधानात् तत्कालचोदितं भगवदभिगमनमपि सामान्यत उपदिष्टं भवति । यत्त्वनन्तरमुक्तम्------

  1. वीक्षणम्-छ, ज