पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
द्वितीयोऽधिकारः

इत्यादिषु प्रसिद्धम् । अयं चात्र परमेष्ठी विहितकर्मतोष्यत्वेनोच्यते । परमे पदे तिष्ठतीति परमेष्ठी । स च तमस परस्तात्, तद्विष्णोः परमं पदं' इत्युक्ते शुद्धसत्त्वमये वैकुण्ठ [१] सज्ञके लोके वर्तमान पुरुषोत्तम एव । एवं वैयासे धर्मशास्रे भगवत पञ्चसु कालेषु भजनं भगवन्नित्यकर्मानुप्रवेशेनैव विहितमिति न कस्यचित् तत्परित्याग उपपद्यते ।

 यतु दक्षेणोक्त कालाष्टकविभागेन दिनकृत्यं तदपि प्रकृतानुगुणमेव ।

दत्त्वोक्तकालाष्टक-
विभागोऽपि पाञ्च-
कालिककर्मानुगुण ।

तथा हि --


"प्रातरुत्थाय कर्तव्यं यद्दिजेन दिने दिने ।
तत् सर्व संप्रवक्ष्यामि द्विजानामुपकारकम् ॥
उदयास्तमयं यावन्न विप्र क्षणिको भवेत् ।
नित्यनैमित्तिकैर्युक्तै काम्यैश्चान्यैरगर्हितै ॥
स्वक कर्म परित्यज्य यदन्यत् कुरुते द्विज ।
अज्ञानादथवा लोभात्त्यागेन पतितो भवेत्" ॥ इति ।

नित्य-नैमित्तिककर्मणा तदुपकारिकाम्यकर्मणा च यथाकालमनुष्ठानमविच्छेदेन कर्तव्यमिति प्रतिपाद्य,

"दिवसस्याद्यभागेन कृत्यं तस्योपदिश्यते ।
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥
षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ।
भागेष्वेतेषु यत् कृत्यं तत् प्रवक्ष्याम्यशेषतः " ॥

इति कालाष्टकविभागेन कृत्यविभागं सामान्यत प्रस्तुत्य,

  1. वैकुण्ठादि-घ,ड,ज