पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
श्रीपाञ्चरात्ररक्षा

इत्यादि । अत्र रात्रिभोजनवचनेन तदनन्तर योगोऽपि दिवाभोजनानन्त रोक्त स्वयमेवागच्छतीति तदनुक्ति । तथा हि, पूर्व दिवाभोजनानन्तरमेवमाह----

"हुतानुमन्त्रणं कुर्याच्छूद्धायामिति मन्त्रत ।
तथाक्षरेण स्वात्मान योजयेद्ब्रह्मणीति. हि ॥
सर्वेषामेव योगानामात्मयोग पर स्मृत ।
योऽनेन [१] विधिना कुर्यात् स याति पदमक्षयम्" ॥ इति ।

एवं च निगमयामास----

"इत्येतदखिलेनोक्तमहन्यहनि यन्मया ।
ब्राह्मणाना कृत्यजातमपवर्गफलप्रदम् ॥
नास्तिक्यादथवालस्याद्ब्राह्मणो न करोति य ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधि सुखम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिन " ॥ इति ।

अत्र परमेष्ठी सर्वकर्मसमाराध्यो विष्णुरेव । विष्णोरेव सर्वकर्मसमाराध्यत्वम्,

"भोक्तार यज्ञतपसा सर्वलोकमहेश्वरम् " ।
"अहं हि सर्वयज्ञाना भोक्ता च प्रभुरेव च" ।
"यज्ञैस्त्वमिज्यसे नित्यं सर्वभूतमयाच्युत " ।
"हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ” ।

  1. योगेन-क,ख,च,छ,झ