पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
द्वितीयोऽधिकार

ध्यायन् हरेि तस्मै निवेद्यान्न समाहित " । इत्यादिभगवद्यामुनेयोपात्तकर्म काण्डस्थप्राणाग्निहोत्रविषयव्यासवचनानुसाराच्च, अस्मिन्नपि[१] व्यासवचने देवध्यानं तदेव हृदयस्थहरिध्यानमिति गम्यते । ईदृशं च भोजनमेवानुयागसमाख्ययान्यत्र व्यपदिश्यते ।

 अथान्यदपि[२] भोजने अपेक्षितं सर्वमुपदिश्य

व्यासस्मृतौ स्वा-
ध्यायसवादनम् ।

"भुक्त्वैवं सुखमांस्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्या वेदं समुपबृंहयेत्" ॥

इति चतुर्थकालसाध्यं स्वाध्यायमाह । एवमन्येऽपि स्मरन्ति–“भुक्त्वो पस्थाय चादित्य पुराणानि सदा पठेत्" इत्यादि । अत्र परिपूर्णज्ञानस्योपबृहणनिरपेक्षस्याधिकारिविशेषस्य द्विषडष्टषडक्षरद्वयादिजप एव स्वाध्याय इति तत्र तत्र तद्विधि । अत एव रहस्याम्नाये वेदान्तरनिषेधेन द्विषट्कमात्रस्वाध्यायविधान निर्व्यूढम् ।

 यत्पुनरनन्तरं पञ्चमकालैकृत्यमुक्तम्[३] "तत सन्ध्यामुपासीत"

व्यासस्मृतौ योगो-
ऽपि आक्षेपलभ्य ।

इत्युपक्रम् ।


"हुत्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा चान्नमभीष्टकम् ।
सभृत्यबान्धवजन स्वपेच्छुष्कपदो निशि " ॥

  1. अस्मिन्नेव- क, ख, ग. झ
  2. अथ-क, ख, झ पुस्तकेषु नास्ति ।
  3. पञ्च्काल ख, घ