पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
श्रीपाञ्चरात्ररक्षा

एवं योगयाज्ञवल्क्यादिष्वपि[१]--

"विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकर ।
तस्मात् पूज्यतमं नान्यमह मन्ये जनार्दनात् ॥ "

इत्यादिकमुच्यते । एवविधदेवतार्चनाकरणे च प्रत्यवाय स एवाह------

"यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते " ॥ इति ।

भगवदर्चावताररहितगृहस्य[२] पुरुषस्याभोज्यान्नत्वमप्यन्यत्रोच्यते -----

"केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्न नैव भोक्तव्यमभक्ष्येण समं हि तत् " ॥ इति ।

अनन्तरं च पञ्चमहायज्ञपूर्वक प्राणाग्निहोत्र प्रपञ्चयन्नेवमाह[३]

'स्वाहाप्रणवसंयुक्त प्राणायान्नाहुति तत ।
अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥
उदानाय तत कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषा जुहुयादात्मनि द्विज ॥
शेषमन्न यथाकाम भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तु मनसा देवमात्मानं वै प्रजापतिम् " ॥ इति ।

अत्रापि देव-प्रजापतिशब्दौ पूर्वोक्तनयेन विष्णुपरौ मन्तव्यौ[४] " हृदि

  1. योगयाज्ञवल्क्येनापि-क, ख, ग
  2. अर्चारहितगृहस्थस्य-घ
  3. एवाह- - क, ख, ग, च, ज, झ .
  4. मन्तव्यौ-क, ख, ग, झ पुस्तकेषु नास्ति ।