कर्मण्यपि तदन्तरात्मभूतो हरिनुसन्धेय इत्येवकाराभिप्राय । नित्यमित्यनेन काम्यत्वनैमित्तिकत्वशङ्काव्युदास । स्वत प्राप्ते कर्मकाले स्मरण चकारेण संगृह्यते । एवं शास्त्रीयेषु सर्वेषु[१] कर्मसु भगवदनुसन्धानं नित्यमिति सिद्धम् । एतदेव रागप्राप्तेष्ववर्जनीयमिति जयाख्यसंहिताया नियमेषु पठ्यते------
"शयनासनयानादावासक्तश्चापि[२] भोजने । |
सर्वसग्रहेण तूच्यने----
"आलोड्य सर्वशास्राणि विचार्य च पुन पुन । |
एतच्च नित्यत्वात् स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्चस्वतन्त्रप्रपत्तिशास्रार्थनिष्ठैरपि[३] दुस्त्यजम् । उक्त चैवं स्वयप्रयोजनत्व नारायणमुनिभि------
"वृत्ति स्वामिनि दासस्य स्वरूपानुगुणा शुभा । |
भगवदनुसन्धानविच्छेदोऽपि हि पुरुषार्थहानित्वेन स्मर्यते------
"यन्मुहूर्ते क्षणं वापि वासुदेवो न चिन्त्यते । |