पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वा आदित्यो दूरोहणं छन्दः' (६) इति श्रुतेः । तन्द्रम् । 'तन्द्रि सादे मोहे' तन्द्रति सीदति स्थानसंकोचेनेति तन्द्रः श्रेणी । 'पङ्क्तिर्वै तन्द्रं छन्दः' (६) इति श्रुतेः । अङ्काङ्कम् अङ्के स्थले अङ्कानि गर्तपाषाणादिचिह्नानि यत्रेत्यङ्काङ्कं जलम् । 'आपो वा अङ्काकं छन्दः' ( ६ ) इति श्रुतेः । अत्रेष्टकानां भूलोकादिरूपेण स्तुतिरिति भावः ॥ ५ ॥

षष्ठी।
र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ धर्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒ऽन्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाऽह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्याञ्जि॑न्व ।। ६ ।।
उ० एकोनत्रिंशत्स्तोमभागानुपदधाति । रश्मिना सत्याय सत्यं जिन्वेति । अत्र श्रुतिकृता व्याख्या । अमुनादोजिन्व । अदोस्यमुष्मै त्वा अधिपतिनोर्जोर्जं जिन्वेति । त्रिधा विहिता मन्त्राः । तत्र प्रथमस्य मन्त्रगणस्य द्विकण्डिकावधिपरिपठितस्य व्याख्यानम् । अमुना रश्मिना अदः सत्यं जिन्व । जिन्वतिस्तर्पणार्थः । रश्मिना अन्नेन सत्याय उपहितासती सत्यं तर्पय । प्रेतिना अन्नेन । धर्मणा धर्मायेति विभक्तिव्यत्ययः । नदिवादिवेऽर्थायोपहितासती दिवं जिन्व ॥ ६ ॥ ७ ॥
म० 'सर्वतोऽषाढावेलायाᳪ स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रं पञ्चदश दक्षिणेनानूकम्' (का० १७ । ११ । ९-१०) अषाढावेलायां सर्वदिक्षु स्तोमभागासंज्ञा इष्टका उपदधाति रश्मिनेत्याद्येकोनत्रिंशन्मन्त्रैः । तन्मध्ये पञ्चदश प्रागनूकं दक्षिणेन अर्थाच्चतुर्दश प्रागनूकमुत्तरेणोपधेया इति सूत्रार्थः । एकोनत्रिंशद्यजूंषीष्टकादेवत्यानि । इमे मन्त्राः श्रुत्या त्रिधा व्याख्याताः । कण्डिकाद्वयपर्यन्तममुनोपहिता सत्यदो जिन्वेति प्रथमः । अदोऽस्यमुष्मै त्वामुपदधामीति द्वितीयः । अधिपतिनोर्जोर्जं जिन्वेति तृतीयः प्रकारः। तथाच श्रुतिः 'अमुनादो जिन्वादोऽस्यमुष्मै त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधा विहितास्त्रेधा विहितᳪ ह्यन्नम्' ( ८ । ५। ३। ३ ) इति । अथ वाक्यार्थः । हे इष्टके, त्वं रश्मिनान्नेन सत्यायोपहिता सती सत्यं सत्यवचो जिन्व तर्पय तेजोवृद्धिप्रदत्वादन्नं रश्मिः 'रश्मिरन्नं' (८।५।३।३) इति श्रुतेः । प्रकर्षेण देहे इतिर्गतिर्यस्येति प्रेतिरन्नम् तेन । धर्मणा । विभक्तिव्यत्ययः । धर्मणे धर्मायोपहिता सती धर्मं जिन्व प्रीणय 'प्रेतिरन्नम्' ( ६ ) इति श्रुतेः । सर्वमन्त्रेषु द्वितीयं पदं चतुर्थ्यन्तं कार्यम् । अन्वेति देहमनुगच्छतीत्यन्वितिरन्नम् तया दिवा दिवेऽर्थायोपहिता सती दिवं द्युलोकं जिन्व । 'अन्वितिरन्नं' ( ३ ) इति श्रुतेः । सन्धिना सम्यग्बलादिकं धीयतेऽस्मिन्निति सन्धिरन्नं तेन अन्तरिक्षेण अन्तरिक्षार्थमुपहितान्तरिक्षं जिन्व । प्रतिधीयतेऽस्मिन्निति प्रतिधिरन्नं तेन पृथिव्यै उपहिता सती पृथिवीं जिन्व । विष्टम्भेन देहं विष्टम्भयतीति विष्टम्भोऽन्नं तेन वृष्ट्यै उपहिता वृष्टिं जिन्व । प्रवया प्रकर्षेण वाति देहं गच्छतीति प्रवान्नम् तेनाह्नाह्ने उपहिताहर्दिनं जिन्व । अनुया देहान्तर्गतद्वासप्ततिनाडीभिरनु याति आप्नोति देहमित्यनुयान्नं तया । तृतीयैकवचने 'आतो - धातोः' (पा० ६ । ४ । १४० ) इत्यालोपः । रात्र्यै उपहिता रत्रीं जिन्व । उशिजा 'वश कान्तौ' उश्यते सर्वैः काम्यत " इत्युशिगन्नम् तेन वसुभ्योऽर्थायोपहिता वसून् जिन्व । प्रकेतेन प्रकर्षेण कं सुखमीयतेऽनेनेति प्रकेतमन्नं तेनादित्येभ्योऽर्थायोपहितादित्यान् जिन्व ॥ ६ ॥

सप्तमी।
तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सᳪस॒र्पे॑ण श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौ॑षधीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व व॑यो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व ।। ७ ।।
म० तन्तुना तन्यते विस्तार्यत इति तन्तुरन्नं तेन । | रायस्पोषेण धनपुष्ट्यै उपहिता रायस्पोषं जिन्व । संसर्पेण सम्यक् सर्पति प्रसरति देहे इति संसर्पोऽन्नम् तेन श्रुताय शास्त्रायोपहिता श्रुतं जिन्व । इडान्नम् इडैवैडम् स्वार्थेऽण् तेनौषधीभिः ओषध्यर्थमुपहिता ओषधीर्जिन्व । उत्तमेन उद्गतं तमो यस्मात् यद्वोत्तमेनोत्कृष्टान्नेन तनूभिः शरीरार्थमुपहिता तनूः शरीराणि जिन्व । वयोधसा वयो दधाति पुष्णातीति वयोधा अन्नं तेनाधीतेनाध्ययनायोपहिताधीतं जिन्व । अभि सर्वतो जीयते येनेत्यभिजित्सर्वजयहेतुरन्नं तेन तेजसा तेजो ऽर्थमुपहिता तेजो जिन्व ॥ ७ ॥

अष्टमी।
प्रति॒पद॑सि प्रति॒पदे॑ त्वाऽनु॒पद॑स्यनु॒पदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा तेजो॑ऽसि॒ तेज॑से त्वा ।। ८ ।।
उ०. द्वितीयस्य मन्त्रवर्गस्य व्याख्यानम् । अदो धर्मायोपहितासती धर्मं जिन्व । एवं द्वितीयान्तं पदं चतुर्थ्यन्तं कर्तव्यं सर्वत्र मन्त्रेषु अन्वित्या अदोस्यमुष्मै त्वा । अदः असि ॥ ८॥
म० अदोऽस्यमुष्मै त्वेति व्याख्यातमन्त्रानाह । प्रतिपद्यते जीवनमनेनेति प्रतिपदन्नम् । हे इष्टके, त्वं प्रतिपदन्नरूपासि प्रतिपदेऽन्नाय त्वामुपदधामीति शेषः । एवं सर्वत्र । प्रतिदिनमनुपद्यतेऽनुपदन्नमसि अनुपदेऽन्नाय त्वामुपदधामि । हे इष्टके, त्वं संपदन्नमसि संपदेऽर्थाय त्वामुपदधामि । तेजसः कारणत्वात्तेजोन्नम् तेजसे त्वामुपदधामि ॥ ८॥