पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमी।
त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा
ऽऽक्र॒मो॒ऽस्याक्र॒माय॑ त्वा संक्र॒मो॒ऽसि संक्र॒माय॑ त्वोत्क्र॒मो॒ऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वा
ऽधि॑पतिनो॒र्जोर्जं॑ जिन्व ।। ९ ।।
उ० त्रिवृदसि । अमुष्मै त्वा त्रिवृते त्वा वाक्यधर्मः । यतः त्रिवृदसि त्रिगुणासि । अन्नं हि त्रिगुणम् अन्नं च त्वम् अतः त्रिवृतेर्थाय त्वामुपदधामि प्रवृणोति भूतानीति प्रवृत् अन्नम् यतस्त्वं प्रवृदसि अतः प्रवृतेऽर्थाय त्वामुपदधामीति । तृतीयो व्याख्यायते । अधिपतिना ईश्वरेण । ऊर्जा अन्नरसेन ऊर्जमन्नरसं जिन्व तर्पय । अभिधेयगतां क्रियां पर्यालोच्याभिधानव्युत्पत्तिः कर्तव्या ॥ ९॥
म० कृषिवृष्टिबीजरूपेण त्रिगुणत्वात्त्रिधा वर्तत इति त्रिवृदन्नं तद्रूपां त्वां त्रिवृते उपदधामि । प्रवृणोति भूतानीति प्रवृदन्नं । यतस्त्वं प्रवृदसि अतः प्रवृतेऽर्थाय त्वामुपदधामि । विशेषेण वर्तते भूतेषु इति विवृदन्नं त्वं विवृदसि विवृतेऽर्थाय त्वामुपदधामि । सह वर्तते सवृदसि सवृतेऽन्नाय त्वामुपद० । आक्रामति पराभवति क्षुधामित्याक्रमोऽन्नं त्वमाक्रमोऽसि आक्रमाय त्वामुप० । देहे संक्रामतीति संक्रमोऽन्नं त्वं संक्रमोऽसि संक्रमाय त्वामुप० । सन्तानोत्पत्त्यै बीजरूपेण परिणम्योत्रामुमतीत्युत्क्रमोऽन्नं त्वं तद्रूपासि उत्क्रमाय त्वामुप०। उत्कृष्टा क्रान्तिर्गमनं यस्येत्युत्क्रान्तिरन्नम् हे इष्टके, त्वमुत्रा्वन्तिरसि उत्क्रान्त्यै अर्थाय त्वामुपदधामि । अथ तृतीयो व्याख्याभेदः । अधिकं पातीत्यधिपतिः अधिकपालकेन ऊर्जा अन्नरसेन ऊर्जमन्नरसं जिन्व तर्पय । एवं मन्त्रेष्वभिधेयानुसारेण व्युत्पत्तिः कार्या ॥ ९॥

दशमी।
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत् त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रᳪ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १ ०।।
उ० नाकसद उपदधाति । राज्ञ्यसि । या त्वं राज्ञी 'राजृ दीप्तौ' । ईश्वरी असि प्राची च दिक् । यस्याश्च वसवः ते तव देवा अधिपतयः अधिष्ठातारः । यस्याश्च अग्निर्हेतीनामस्त्राणां वधहेतुभूतानां धारयिता विधारयिता तां त्वां ब्रवीमि । त्रिवृत्स्तोमः पृथिव्यां श्रयतु स्थापयतु । राज्यं च उक्थम् । अव्यथायै अचलनाय स्तभ्नातु स्थिरीकरोतु । रथन्तरं च साम प्रतिष्ठित्यै प्रतिष्ठानाय स्तभ्नातु । अन्तरिक्षे लोके। ऋषयश्च त्वां प्रथमजाः। प्राणा वा ऋषयः प्रथमजाः । देवेषु मध्ये । दिवः द्युलोकस्य मात्रया वरिम्णा च उरुत्वेन च प्रथन्तु पृथ्वीं कुर्वन्तु । प्रथयन्त्विति प्राप्ते णिचो लोपः। विधर्ता चायमधिपतिश्च । विधर्ता वाक् । | अधिपतिर्मनः। एते च प्रथयताम् । तव एते वस्वादयो यथोक्ताः सर्वे संविदानाः ऐकमत्येनावस्थिताः। नाकस्य पृष्ठे स्वर्गे लोके यजमानं च त्वां च सादयन्तु ॥ १०॥
म० 'नाकसदोऽनूकेषु पूर्ववर्जमृतव्यावेलायामाश्विनीवद्राज्ञ्यसीति प्रतिमन्त्रम्' ( का. १७ । १२ । १) । पूर्वानूके स्थानाभावात् पूर्वानूकवर्जं त्रिदिक्ष्वनूकेषु ऋतव्यावेलायामनूकोपरि राज्ञीत्यादिपञ्चकण्डिकाभिराश्विनीवन्नाकसत्संज्ञेष्टका उपदधातीति सूत्रार्थः । पुरस्तादुपदधाति । राज्ञ्यसि । पञ्च यजूंषि लिङ्गोक्तदेवतानि । हे इष्टके, राज्ञी राजमाना प्राची पूर्वा दिक् त्वमसि । वसवोऽष्टौ देवास्ते तवाधिपतयोऽधिकं पालयितारः । अग्निर्हेतीनामुपद्रवकारिणीनां परायुधानां प्रतिधर्ता निराकर्ता । किंच त्रिवृत्स्तोमः त्वा त्वां पृथिव्यां श्रयतु उत्थापयतु । आज्यमाज्यनामकमुक्थं शस्त्रं 'प्र वो देवायाग्नये' (ऐ० ब्रा० २ । ४०) इत्यादिकम् । अव्यथायै न व्यथा अव्यथा तस्यै चलनाभावाय त्वां स्तभ्नातु दृढीकरोतु । रथन्तरं साम अन्तरिक्षे लोके प्रतिष्ठित्यै प्रतिष्ठानाय त्वां स्तभ्नातु । प्रथमजाः प्रथमोत्पन्ना ऋषयः प्राणा देवेषु द्युलोकमध्ये दिवः आकाशस्य मात्रया परिमाणेन वरिम्णा उरुत्वेन त्वां प्रथन्तु प्रथयन्तु । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) । इति शप आर्धधातुकत्वाण्णिलोपः । 'प्राणा वा ऋषयः प्रथमजाः' ( ८ । ६ । १।५) इति श्रुतेः । आकाशस्य यादृशं विशालत्वं तादृग्विशालां त्वां कुर्वन्त्वित्यर्थः । विधर्ता इष्टकानिष्पादयिता च पुनरयमधिपतिरिष्टकापालकश्च त्वां प्रथयताम् । यद्वा विधर्ता विशेषेण धारयिता वागभिमानी देवः अयमधिपतिः प्रधानभूतो देवो मनोऽभिमानी तौ च त्वां प्रथयताम् । 'विधर्ता चायमधिपतिश्चेति वाक् च मनश्च तौ हीदᳪ सर्वं विधारयतः' (८।६।१।५) इति श्रुतेः। किंच ते सर्वे यथोक्ता वस्वादयः संविदानाः ऐकमत्येनावस्थिताः सन्तो नाकस्य पृष्ठे न अकं दुःखं नाकं सुखं तस्य पृष्ठे स्वरूपे सुखरूपे स्वर्गे लोके यजमानम् इष्टके चकारात्त्वां च सादयन्तु । स्तोमाः सामानि च राजसूयप्रकरणे दशमेऽध्याये प्राचीमारोहेत्यादिकण्डिकासु (अ० १० क. १०-१४) व्याख्यातानि ॥१०॥