पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशी।
वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु॒ प्रउ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। ११ ।।
उ० उत्तरासु कण्डिकासु देवाः हेतीनां प्रतिधर्तारः स्तोमाः । उक्थानि सामानि चान्यानि भविष्यन्ति । समानमन्यत् ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
म० अथ दक्षिणतः चतसृषु कण्डिकासु देवाः हेतीनां प्रतिधर्तारः स्तोमाः उक्थानि सामानि चान्यानि । समानमन्यत् । 'वायुरग्रेगाः' (अध्या० २७ क० ३१) इति प्रउगं शस्त्रम् ॥ ११॥

द्वादशी।
स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नां प्रति॑ध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पᳪ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १२ ।।
म० अथ पश्चात् । सम्यग्राजते सम्राट् । 'आ त्वा रथं यथोतये' (ऋक्सं० म० ८ । ७ । ९ । १) इति मरुत्वतीयं शस्त्रम् ॥ १२॥

त्रयोदशी।
स्व॒राड॒स्युदी॑ची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतय॒: सोमो॑ हेती॒नां प्र॑तिध॒र्तैक॑वि॒ᳪशस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १३ ।।
म० अथोत्तरतः । स्वेनैव राजते स्वराट् । 'अभि त्वा शूर नोनुमः' (ऋक्स. म०. ७।२। १५ । २२) इत्यादिकं निष्केवल्यं शस्त्रम् ॥ १३ ॥

चतुर्दशी ।
अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ᳪशौ त्वा॒ स्तोमौ॑ पृथि॒व्याᳪ श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थायै स्तभ्नीताᳪ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।। १४ ।।

म० अथ मध्ये । हे इष्टके, अधिकं पालयित्री बृहती प्रौढोर्ध्वा दिगसि । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्वां पृथिव्यां श्रयताम्। वैश्वदेवाग्निमारुते शस्त्रे अचलनाय स्तभ्नीताम्। शाक्कररैवते सामनी चान्तरिक्षे स्थित्यै त्वां स्तभ्नीताम् । द्विवचने विशेषः । 'तत्सवितुर्वृणीमहे' ( ऋक्स० म० ५। ६ । १०।१) इत्यादि वैश्वदेवं शस्त्रम् । 'वैश्वानराय पृथुपाजसा' (ऋक्० म० ३ । १ । १३ । १) इत्यादिकमाग्निमारुतं शस्त्रम् । उक्तमन्यत् ॥ १४ ॥

पञ्चदशी।
अ॒यं पु॒रो हरि॑केश॒: सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ॒ | पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णव॑: प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १५ ।।
उ० पञ्चचूडा उपदधाति । अयं पुरः योयमग्निः पुरः पुरस्तादुपधायाचर्यत इति पुर इत्युच्यते । हरिकेशश्च हरितज्वालः सुवर्णवर्णार्चिरिति यावत् । सूर्यरश्मिश्च सूर्यस्येवाग्नेः रश्मयः तस्य रथगृत्सश्च रथेऽवस्थितो गृत्सः मेधावी । गृणतेः स्तुतिकर्मणः रथयुद्धकुशल इत्यर्थः । रथौजाश्च रथे ओजोऽस्यास्ति रथौजाः । चकारौ समुच्चयार्थीयौ । सेनानीग्रामण्यौ । सेनां नयतीति सेनानीः । ग्रामं नयतीति ग्रामणीः । 'वासन्तिकौ तावृतू' इति श्रुतिः। पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ पुञ्जीकृतरूपलावण्यसौभाग्यगुणस्थला । क्रतूनां संकल्पानां स्थलमिव । स्त्रीद्रव्यस्वरूपादिज्ञानं संकल्पः तन्मूलकस्तु कामः । दिशश्च उपदिशश्चेति माहित्थिः । 'सेना च समितिश्च' इति श्रुतिः। दङ्क्ष्णवः दशनशीलाः पशवो हेतिर्वज्रः आयुधम् । पौरुषजनितः वधः विनाशः । प्रहेतिः प्रकृष्टमायुधम् ।