पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तेभ्यो नमः अस्तु । तेभ्यो हेतिप्रहेतिभ्यः नमस्कारोस्तु । ते च नोऽस्मानवन्तु गोपायन्तु । ते नो मृडयन्तु ते अस्मान्सुखयन्तु । ते वयं हेतिप्रहेतिभिर्गुप्यमानाः यं पुरुषं द्विष्मः यस्यानिष्टं चिन्तयामः । यश्च पुरुषः नः अस्मान् द्वेष्टि अस्मान्प्रत्यप्रीतिं करोति तं पुरुषम् एषां हेतिप्रहेतीनाम् वयं जम्भे दंष्ट्राकराले मुखे दध्मः प्रक्षिपामः ॥१५॥
म० 'पुरीषमोप्योपर्ययं पुर इति पञ्चचूडाः प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम्' (का० १७ । १२ । २-३) । नाकसत्सु तूष्णीं चात्वालमृदं प्रक्षिप्य नाकसदामुपरि सर्वदिक्षु यथालिङ्गं लिङ्गानतिक्रमेण यल्लिङ्गको मन्त्रस्तद्दिशि तन्मन्त्रेण पञ्चचूडासंज्ञकाः पञ्चेष्टका उपदधातीति सूत्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवत्यानि । योऽयं पुरोऽग्निः इष्टकारूपः पुरस्तादुपधीयमानत्वात् पुरोऽग्निः । 'अग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चᳪह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति' ( ८ । ६ । १। १६) इति श्रुतेः । कीदृशः । हरिकेशः हरयो हरितवर्णाः कनकवर्णाः केशाः केशसमा ज्वाला यस्य । 'हरिः पिङ्गे हरिद्वर्णे' इत्यभिधानात् । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य 'सूर्यस्येव ह्यग्ने रश्मयः' ( ८ । ६ । १ । १६) इति श्रुतेः । तस्याग्ने रथगृत्सः रथौजाः च सेनानीग्रामण्यौ रथे गृत्सो मेधावी कुशलो रथगृत्सः 'गृत्सो मेधावी गृणातेः स्तुतिकर्मणः' (निरु० ९ । ५) इति यास्कोक्तेः । सेनां नयतीति सेनानीः । चौ समुच्चयार्थौ । रथे ओजस्तेजो यस्य स रथौजाः । रथयुद्धकुशल इत्यर्थः । ग्रामं नयतीति ग्रामणीः । एतन्नामकौ सेनानीग्रामण्यौ परिचारकौ तौ च वासन्तिकावृतू इत्यर्थः । 'वासन्तिकौ तावृतू' (१६) इति श्रुतेः । तथा पुञ्जिकस्थला क्रतुस्थला चेत्यप्सरसौ दिगुपदिग्रूपे यस्य परिचारिके । पुञ्जिकस्य पुजीकृतस्य रूपलावण्यसौभाग्यादिगुणसमूहस्य स्थला आधारभूता पुजिकस्थला । क्रतूनां संकल्पानां रूपादिज्ञा नानां स्थला स्थानभूता क्रतुस्थला। पुञ्जिकस्य क्रतूनां च स्थलं यस्यामिति वहुव्रीहिर्वा । 'पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिः' (१६) इति श्रुतेः । दङ्क्ष्णवो दशनशीलाः पशवः व्याघ्रादयो हेतिरायुधं वज्रः । पौरुषेयः पुरुषसंबन्धी वधः हननं वधः प्रहेतिः प्रकृष्टमायुधं यस्मिन्नस्त्रे मुक्ते रावणसेनेव परस्परं रिपवो घ्नन्ति स पौरुषेयो वधः । 'यदन्योन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिः' (१६) इति श्रुतेः । यस्याग्नेरियं सामग्री हे इष्टके, त्वं तदग्निस्वरूपासीत्यर्थः । योऽयमग्निर्यौ च तस्य सेनानीग्रामण्यौ ये चाप्सरसौ ये च हेतिप्रहेती तेभ्यः सर्वेभ्यः सर्वदा नमो नमस्कारोऽस्तु । ते सर्वे नोऽस्मान् मृडयन्तु सुखयन्तु । ते नोऽस्मानवन्तु रक्षन्तु यं नरं वयं द्विष्मः यस्यानिष्टं चिन्तयामः । यश्च नरो नोऽस्मान् द्वेष्टि अस्मास्वप्रीतिं करोति तं नरमेषां पूर्वोक्तानां जम्भे दंष्ट्राकराले मुखे वयं दध्मः प्रक्षिपामः । 'जभि नाशने' जम्भयति नाशयति जम्भा दंष्ट्रा यस्मिन्नस्तीति जम्भं मुखम् ॥ १५ ॥

षोडशी।
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ॒ । मेन॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातुधा॒ना हे॒ती रक्षा॑ᳪसि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १६ ।।

उ०. उत्तरेषु । अयं दक्षिणा । दक्षिणतो विश्वकर्मा सर्वस्य कर्ता वायुः तस्य वायो रथस्वनः रथेऽवस्थितो महास्वनः । स्वनः शब्दः । रथे चित्रः रथेऽवस्थितो विचित्रयोधी। मेनका च सहजन्या च । मेना मानयन्त्येनां मेनका समानैर्जनैः सहस्थिता जनानां सहजन्या। अप्सरसो हि सर्वसामान्याः । यातुधानाः रक्षांसि ॥ १६ ॥
म० अथ दक्षिणतः । दक्षिणस्यां दिशीति दक्षिणा 'दक्षिणादाच्' (पा० ५। ३ । ३६ ) इति सप्तम्यन्ताद्दक्षिणशब्दादाच्प्रत्ययः । दक्षिणा दक्षिणतः अयं विश्वकर्मा विश्वं सर्वं कर्म यस्य । विश्वं करोतीति वा विश्वकर्मा वायुः । 'अयं वै वायुर्विश्वकर्मा योऽयं पवत एष हीदᳪ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति' ( ८ । ६ । १ । १७ ) इति श्रुतेः । तस्य वायोः रथस्वनः सेनानीः रथे स्थितः खनति शूरशब्दं करोतीति रथस्वनः । रथे स्थितः स्वनति शूरशब्दं करोतीति रथस्वनः। रथे स्थितः चित्र आश्चर्यकारी रथे चित्रो ग्रामणीः 'हलदन्तात्-' (पा० ६ । ३ । ९) इति सप्तम्या अलुक् । तौ ग्रैष्मावृतू 'ग्रैष्मौ | तावृतू' (१७) इति श्रुतेः । मानयन्त्येनां मेनका । जनैः सर्वैः सह स्थिता सहजन्या । अप्सरसो हि सर्वसाधारणाः एते अप्सरसौ । यातुधाना रक्षसामवान्तरजातिभेदो बोध्यः । हेतिप्रहेती अप्यायुधविशेषौ । क्रूरा यातुधानास्तीक्ष्णहेतिरूपाः अतिक्रूराणि रक्षांस्यतितीक्ष्णप्रहेतिस्वरूपाणि । हे इष्टके, यस्य वायोरिदं सर्वं त्वं तद्रूपासि । व्याख्यातमन्यत् ॥ १६ ॥

सप्तदशी।
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च से॒ना॒नीग्राम॒ण्यौ॒ । प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा: प्रहे॑ति॒स्तेभ्यो॒ नमो अ॑स्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १७ ।।


उ० अयं पश्चात् विश्वव्यचाः आदित्यो विश्वव्यचाः । स ह्युदयेन सर्वं व्यञ्चनवत्करोति । तस्य रथप्रोतश्च । रथेऽवस्थितः प्रोत इव । असमरथः अन्यैः रथिभिरतुल्य