पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रथः । प्रम्लोचन्ती चानुम्लोचन्ती च । तुल्यव्याख्यानम् । व्याघ्राः सर्पाः ॥ १७॥
म० अथ पश्चात् । अवरस्मिन् प्रदेशे इत्यर्थे ‘पश्चात्-' (पा० ५ । ३ । ३२) इति सूत्रेण निपातः । पश्चात् पश्चिमदेशेऽयं विश्वव्यचाः आदित्यः विश्वं सर्वमुदयेन विचति प्रकाशयति व्याप्नोति वा विश्वव्यचाः असुन् । पश्चिमायां स्पष्टं दृश्यत इति पश्चात् । 'असो वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति' (८।६। १ । १८) इति श्रुतेः । तस्यादित्यस्य रथे स्थितः प्रोत इव स्थिरो रथे प्रोतः सेनानीः । असमोऽन्यै रथैरतुल्यो रथो यस्य सोऽसमरथो नाम ग्रामणीः तौ च वार्षिकावृतू । 'वार्षिकौ तावृतू' (१८) इति श्रुतेः । प्रम्लोचति नरं प्रत्यात्मानं दर्शयतीति प्रम्लोचन्ती । अनु वारं वारं म्लोचन्तीत्यनुम्लोचन्तीत्यप्सरसौ व्याघ्राः प्रसिद्धाः यस्य हेतिः, सर्पाः प्रहेतिर्यस्य तद्रूपासि । उक्तमन्यत् ॥ १७ ॥

अष्टादशी।
अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ॒ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वात॒: प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १८ ।।
उ० अयमुत्तरात् । अयं यज्ञः उत्तरतः । संयद्वसुः संयन्ति वसुनो धनस्य लिप्सवो यंप्रति स संयद्वसुर्यज्ञः। दीयते हि तत्र प्रसृप्तेभ्यः । तार्क्ष्यः तीक्ष्णेऽन्तरिक्षे क्षिपति पक्षाविति तार्क्ष्यः । अरिष्टनेमिः अनुपहिंसितायुधः । विश्वाची च सर्वंप्रति अञ्चनशीला । साधारणा हि सा । घृताची घृताञ्चना । घृतं हि अप्सरसामन्नम् । तथाचोर्वशीवाक्यम् 'घृतस्य स्तोकं सकृदह्न आश्नामि' इति। आपः वातः ॥ १८॥
म० अथोत्तरतः । उत्तरस्मिन्नित्युत्तरात् 'उत्तराधर-' (पा० ५। ३ । ३४ ) इत्यादिना आतिप्रत्ययः । अयमुत्तरतः संयद्वसुः यज्ञः सम्यक् यन्ति गच्छन्ति वसुने धनाय यंप्रति जनाः स संयद्वसुः । यज्ञं गतेभ्यो हि दानमावश्यकम् । यज्ञस्योत्तरोपचारत्वादुत्तरात् । तथाच श्रुतिः 'यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरत उपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह यज्ञᳪहि संयन्तीतीदं वसु' (८ । ६।१।१९) इति तीक्ष्णेऽन्तरिक्षे क्षिपति पक्षाविति तार्यःष् स अरिष्टाऽनुपहिंसिता नेमिरायुधं यस्य सोऽरिष्टनेमिः एतन्नामकौ सेनानीग्रामण्यौ तौ शारदावृतू । 'शारदौ तावृतू' (१९) इति श्रुतेः । विश्वाची घृताची चाप्सरसौ ते च दिशोपदिशे । विश्वं सर्वं प्रत्यञ्चतीति विश्वाची सर्वसाधारणत्वात् । घृतमञ्चति भुङ्क्ते घृताची । घृतं ह्यप्सरसामन्नम् । 'घृतस्य स्तोकं सकृदह्न आश्नामी'त्युर्वशीवचनात् । आपोऽपां समूहो हेतिः । 'तस्य समूहः' (पा० ४ । २ । ३७ ) इत्यण् । वातः वायुः प्रहेतिः । तेभ्य इत्याद्युक्तम् ॥ १८॥

एकोनविंशी।
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ॒ ।
उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वव॒स्फूर्ज॑न् हे॒तिर्वि॒द्युत्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। १९ ।।
उ० मध्ये । अयमुपरि । अयं पर्जन्य उपरि । अर्वाग्वसुः अर्वागञ्चनं वसु धनमुदकलक्षणं प्रजाभ्यो ददातीत्यर्वाग्वसुः पर्जन्यः । तस्य सेनजिच्च सेनां जयतीति सेनजित् । सुषेणश्च शोभनसेनश्च । उर्वशी च उरुः पृथुः वशः कामो यस्या इति उर्वशी । पूर्वचित्तिश्च पूर्वं प्रथम पुंसां चेतस्तामभ्युपैति सौभाग्यातिशयात् । अवस्फूर्जन्पर्जन्यः हेतिः । स्फूर्जतिर्वज्रनिर्घोषार्थः विद्युत्प्रहेतिः ॥१९॥
म० अथ मध्ये। उपरि ऊर्ध्वदेशेऽयमर्वाग्वसुः पर्जन्यः 'उपर्युपरिष्टात्' (पा० ५। ३ । ३१) इति निपात ऊर्ध्वप्रदेशे इत्यर्थे । अर्वागधोमुखं यद्वसु धनं जलरूपं यस्मात्सोऽर्वाग्वसुः । अधोजलं प्रजाभ्यो ददातीत्यर्थः । तथाच श्रुतिः ‘पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते' ( ८ । ६ । १ ।२० ) इति । तस्य पर्जन्यस्य सेनां जयतीति सेनजित् शोभना सेना यस्येति सुषेणः 'पूर्वपदात्' (पा० ८।३ । १०६) इति षत्वम् ततो णत्वम् । तौ सेनानीग्रामण्यौ तौ हैमन्तिकावृतू 'हैमन्तिको तावृतू' (२०) इति श्रुतेः । उरुः पृथुः कामो वशो यस्याः सोर्वशी । रूपातिशयात् पूर्वमेव पुंसां चित्तमुपैतीति पूर्वचित्तिः । एते दिगुपदिग्रूपे अप्सरसौ । 'स्फूर्जा वज्रनिर्घोषे' अवस्फूर्जतीत्यवस्फूर्जन् भयहेतुशब्दं कुर्वन् हेतिः। विद्युच्चपला प्रहेतिः । शिष्टं व्याख्यातम् ॥ १९ ॥

विंशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।
अ॒पाᳪ रेता॑ᳪसि जिन्वति ।। २० ।।
उ० छन्दस्या उपदधाति। अग्निर्मूर्धा। आग्नेयं प्राक् तपश्च तपस्यश्चेत्यतः। प्रथमस्तृचो गायत्रः। प्रथमा व्याख्याता।।२०।।
म० 'छन्दस्यास्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम्' ( का० १७ । १२ । ५) । वक्ष्यमाणा गायत्र्याद्याश्छन्दस्या एकैकस्मिन् स्थाने तिस्र उपदधाति तासां