पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यमा पद्यानूके तामभितो द्वे अर्धपद्ये । अत्र पूर्वदिश्यनूकान्ते तिस्रो गायत्रीरग्निर्मूर्धेति प्रत्यृचम् । एवं वक्ष्यमाणा अपीति सूत्रार्थः । तिस्र ऋचोऽग्निदेवत्या गायत्र्यः । आद्या व्याख्याता (अध्या० ३ क० १२) ॥२०॥

एकविंशी।
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑: । मू॒र्धा क॒वी र॑यी॒णाम् ।। २१ ।।
उ० अयमग्निः । ऋषिरभिनयेन दर्शयति । अयमग्निः सहस्रिणः सहस्राणि बहूनि यस्य विद्यन्ते तस्य । वाजस्यान्नस्य शतिनश्च पतिरधिपतिः । मूर्धा च रयीणाम् प्रधानभूतश्च धनानाम् । अग्निर्हि सर्वेषां धनानां प्रधानं दृष्टादृष्टसाधनं हि । कविः क्रान्तदर्शनश्च अतः स्तुमः ॥२१॥
म० अयमग्निरीदृशस्तं स्तुम इति शेषः । कीदृशः । सहस्रं संख्या अस्यास्तीति सहस्री तस्य । शतिनः शतसंख्यावतो वाजस्यान्नस्य पतिः स्वामी । अनेकान्नप्रद इत्यर्थः । तथा रयीणां धनानां मूर्धा शिरोवदुत्तमः । अग्निर्हि सर्वधनानां प्रधानधनं दृष्टादृष्टसाधनत्वात् । कविः क्रान्तदर्शनः ॥ २१॥
द्वाविंशी।
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ।। २२ ।।
उ० त्वामग्ने पुष्करात् । व्याख्यातम् ॥ २२ ॥
म० व्याख्यातैकादशे द्वात्रिंशत्तमकण्डिकायाम् ॥ २२ ॥

त्रयोविंशी।
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।। २३ ।।
उ० भुवो यज्ञस्य । त्रैष्टुभस्तृचः । प्रथमा व्याख्याता ॥ २३ ॥
म०. 'पुरस्तात्त्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति' (का. १७ । १२ । ७) । पूर्वदिशि रेतःसिग्वेलायां त्रिष्टुप्संज्ञा इष्टका उपदधाति तृचेन तिस्रः त्रिष्टुप्छन्दस्काभिर्ऋग्भिरुपधेया इष्टकास्तिस्रस्त्रिष्टुभः। एवमग्रेऽपि तिस्रस्त्रिष्टुभ आग्नेय्यः। प्रथमा व्याख्याता त्रयोदशेऽध्याये (अ० १३ । क० १५) ॥ २३ ॥

चतुर्विंशी।
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।
य॒ह्वा इव॒ प्र व॒यामु॒ज्जिहा॑ना॒: प्र भा॒नव॑: सिस्रते॒ नाक॒मच्छ॑ ।। २४ ।।
उ० अबोध्यग्निः । योयमग्निः अबोधि प्रतिबुध्यते कर्माणि स्वमधिकारम् । समिधा समिन्धनेन । जनानामग्निहोत्रिणां सत्यातिथिज्ञानश्रद्धासंपन्नानाम् । कथमिव प्रतिबुध्यते । धेनुमिवायतीम् । यथा धेनुमागच्छन्तीं वत्सः प्रतिबुध्यते । यथाच उषसमागच्छन्तीं मनुष्याः प्रतिबुध्यन्ते तस्याहुतिभिर्दीप्तस्य । यह्वा इव प्रवयामुज्जिहानाः । यह्व इति महतो नामधेयम् । यथा महान्तो जातपक्षाः पक्षिणः वयां वृक्षशाखामुज्जिहानाः परित्यजन्त ऊर्ध्वं गच्छेयुः । एवम् प्रभानवः सिस्रते प्रसिस्रते प्रसर्पन्ति भानवः अर्चींषि महान्ति । नाकमच्छ । अच्छाभेराप्तुमिति शाकपूणिः । स्वर्गलोकमभि ॥ २४ ॥
म० जनानां ज्ञानश्रद्धाद्विजतर्पणसत्यादिसंपन्नानामग्निहोत्रिणां समिधा समिन्धनेनाग्निः प्रत्यबोधि प्रतिबुध्यते । कर्मणि स्वमधिकारं जानातीत्यर्थः । 'दीपजन-' (पा० ३ । १ । ६९) इत्यादिना लुङि कर्तरि चिण् । तत्र दृष्टान्तः । आयतीमागच्छन्तीं धेनुं यथा वत्सः प्रतिबुध्यते यथा चोष समागच्छन्तीं प्रति मनुष्याः प्रतिबुध्यन्ते । दीप्तस्य तस्याग्नेर्भानवो रश्मयो नाकमच्छ स्वर्गमभितः प्रसिस्रते प्रसरन्ति । 'अच्छाभेराप्तुमिति शाकपूणिः' ( निरु० ५। २८) । दृष्टान्तमाह । यह्व इति महन्नाम । यह्वाः महान्तो जातपक्षाः पक्षिणो वयां वृक्षशाखां प्रोज्जिहानाः प्रोद्गच्छन्तो नाकमाकाशं प्रति प्रसरन्ति तद्वत् । ऋचोऽर्थान्तरं वा । जनानामृत्विजां संबन्धिन्या समिधाग्निरबोधि प्रतिबोधितः प्रज्वलितः आयतीमुषसं प्रातःकालंप्रति धेनुं यथा प्रतिबोधयन्ति उत्थापयन्ति । तस्य भानवः प्रोज्जिहाना नाकमभि प्रसिस्रते । दृष्टान्तः । वयां पक्षिणां मध्ये यह्वाः महान्तः पक्षिणो यथा प्रोद्गच्छन्तः प्रसरन्ति । विः पक्षी तस्यामि छान्दसे गुणे वयामिति रूपम् । एकः प्रशब्दः उज्जिहाना इत्यत्र संबध्यते द्वितीयः सिस्रते इत्यत्र । 'सृ गतौ' ह्वादिः लट् । 'ओहाङ् गतौ' शानच् जिहानाः । उषासमिति संहितायां दीर्घः ॥ २४ ॥

पञ्चविंशी। ।
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॑ वृ॒ष्णे॑ ।
गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॒व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ।। २५ ।।
उ० अवोचाम । उद्गातारो ब्रुवन्ति । अवोचाम उक्तवन्तो वयम् । कवये क्रान्तदर्शनाय । मेध्याय यज्ञियाय । वचः स्तुतिलक्षणं वाक्यम् । वन्दारु वन्दनशीलम् । वृषभाय वर्षित्रे । आहुतिपरिणामाभिप्रायमेतत् । वृष्णे सेक्त्रे । यूने परिणामरहिताय । इदानीम् गविष्ठिरः होता गवि वाचि स्थिरोऽप्रच्याव्यः । तस्य हि अग्निरधिष्ठात्री देवता । नमसान्नेन संयुक्तं स्तोमं स्तुतिः । अग्नौ आहवनीयाख्ये । अश्रेत् आसंजयिष्यति अग्निसंबद्धं करिष्यते । कथमिव दिवीव रुक्मम् यथा द्युलोके