पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रुक्मं रोचनमादित्यम् । उरुव्यञ्चम् बहुमिः स्तुतिभक्तिभिर्युक्तम् स्वरसौष्ठवादियुक्तम् । स्तोम आदित्येनोपमीयते ॥२५॥
म० उद्गातारो वदन्ति । वयं कवये क्रान्तदर्शिनेऽग्नये वचोऽवोचाम स्तुतिरूपं वाक्यमुक्तवन्तः । कीदृशाय कवये । मेध्याय मेधे यज्ञे योग्याय । वृषभाय श्रेष्ठाय कामानां वर्षयित्रे । वृष्णे सेक्त्रे । यूने परिणामरहिताय । कीदृशं वचः । वन्दारु वन्दनशीलं स्तुतितत्परम् । ‘शॄवन्द्योरारुः' (पा. ३ । २। १७३ ) । इदानीं गविष्ठिरः गवि वाचि स्थिरोऽप्रच्याव्यो होता नमसाऽन्नेन युतं स्तोमं स्तुतिमग्नौ आहवनीये अश्रेत् । अन्तर्भूतण्यर्थः श्रयतिः लङ्लडर्थे । 'छन्दसि लुङ्लङ्लिटः' (पा. ३ । ४ । ६) इति वचनात् 'बहुलं छन्दसि' (पा० २।४ । ७३) इति शपो लुक् गुणः । होताग्नौ स्तोममापयिष्यति आसंजयिष्यति याज्यानुवाक्याभिरन्नमग्निसंबद्धं करिष्यतीत्यर्थः। तत्र दृष्टान्तः । दिवीव रुक्ममुत्प्रेक्षते । दिवि द्युलोके रुक्मं रोचमानमादित्यं सन्ध्यावन्दनसूर्योपस्थानादिषु विप्रयुक्ताः उरवो बहवो व्यञ्चाः स्तुतयो गतयो वा यस्येति तमिवेत्युत्प्रेक्षा । स्तोमः सूर्येणोपमीयते । 'गवियुधिभ्यां स्थिरः' (पा० ८ । ३ । ९५) इति षत्वम् ॥ २५ ॥

षड्विंशी।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ।। २६ ।।
उ० अयमिह । जागतस्तृचः । प्रथमा व्याख्याता ॥२६॥
म० 'जगतीश्च पश्चादयमिहेति' ( का० १७ । १२ । ८) तिसृभिः पश्चाद्रेतःसिग्वेलायां तिस्रो जगतीसंज्ञेष्टका दक्षिणामुख उपदधातीति सूत्रार्थः । तिस्रो जगत्य आग्नेय्यः । आद्या व्याख्याता ( अध्या० ३ क० १५) ॥ २६ ॥

सप्तविंशी।
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑: सुवि॒ताय॒ नव्य॑से ।
घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्विभा॑ति भर॒तेभ्य॒: शुचि॑: ।। २७ ।।
उ० जनस्य गोपाः । योयं जनस्य यजमानस्य गोपाः गोपायिता अजनिष्ट जातः । जागृविः जागरणशीलः अम्लिष्टज्ञानः अग्निः । सुदक्षः शोभनोत्साहः । सुविताय नव्यसे सुप्रभूताय कर्मणे नवतराय । सः घृतप्रतीकः घृतमुखः । बृहता महता भानुना दिविस्पृशा दिवं स्पृशतीति दिविस्पृक् तेन दिविस्पृशा । द्युमद्विभाति द्युतिमद्विविधं दीप्यते । भरतेभ्यः ऋत्विग्भ्योऽर्थाय । शुचिः बहून्यपि हवींषि भक्षयन्नुच्छिष्टो न भवति शोधको वा। यद्वा । योऽसौ यजमानस्य गोपायिता अजनिष्ट भरतेभ्यः ऋषिभ्यः सकाशात् । ऋत्विग्यजमानेभ्यो वा । जागृविः अग्निः सुदक्षः। सुप्रभूताय कर्मणे नवतराय । सोयं घृतमुखो महता भानुना दिविस्पृशा । द्युतिमद्विभाति । शुचिः शोचतेर्ज्वलतिकर्मणः । यद्वा मनुष्येभ्यो विजायमानो मनुष्यसंबंद्धैर्दोषैर्न लिप्यते ॥ २७ ॥
म० योऽग्निर्भरतेभ्यः ऋत्विग्भ्यः सकाशादजनिष्ट जातः तैर्मथितत्वात्तेभ्यो जात इत्युच्यते । भरता इति ऋत्विङ्नामसु पठितम् । किमर्थं जातः । नव्यसे नवीयसे नवतराय । सुविताय सूताय प्रसूताय कर्मणे यागाय । सूतेरिडागम आर्षः। अभिनवं नवीयस्तस्मै । ईलोप आर्षः । सोऽग्निर्दिविस्पृशाद्युलोकस्पर्शिना बृहता ज्वालासमूहेन द्युमत् कान्तिमद्यथा तथा विभाति विविधं दीप्यते । कीदृशोऽग्निः । जनस्य यजमानस्य गोपाः । गोपायति रक्षतीति गोपाः क्विप् 'लोपो व्योर्वलि' (पा० ६।१।६६) इति यलोपः । जागृविः जागरणशीलः कर्मणि सावधानः । सुदक्षः शोभनो दक्ष उत्साहो यस्य अतिकुशलो वा । घृतप्रतीकः घृतं प्रतीके मुखे यस्य । शुचिः शुद्धः बहूनि हवींषि भक्षयन्नपि उच्छिष्टो न स्यात् शोधको वा ॥ २७॥

अष्टाविंशी।
त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑न॒: सहो॑ म॒हत्त्वामा॑हु॒: सह॑सस्पु॒त्रम॑ङ्गिरः ।।२८ ।।
उ० त्वामग्ने । यं त्वाम् हे अग्ने, अङ्गिरसः ऋषयः । गुहाहितं निगूढे प्रदेशेऽवस्थितम् अप्सु अग्निर्देवेभ्य उदक्रामत्सोमः प्राविशदित्येवमादिनिदानमस्य मन्त्रस्य । अन्वविन्दन् लब्धवन्तः । पुनरपि नष्टं सन्तं शिश्रियाणं वनेवने अवस्थितम् ओषधिवनस्पतिषु । अन्वविन्दन्नङ्गिरस इति वर्तते । स त्वमिदानीमपि जायसे अरणिकाष्ठेभ्यो मथ्यमानः । सहोमहत् सहसा बलेन महता इति विभक्तिव्यत्ययः । अतश्च कारणात् त्वाम् आहुः ऋषयः सहसः पुत्रम् बलस्य पुत्रम् । अङ्गिरः अङ्गिर इत्यग्नेः संबोधनम् हे अङ्गिरः ॥ २८ ॥
म० हे अग्ने, अङ्गिरसः अङ्गिरोवंशोद्भवा ऋषयस्त्वामन्वविन्दन् लेभिरे । अन्विष्य प्रापुरित्यर्थः । किंभूतं त्वां गुहा गुहायां निगूढे प्रदेशे हितं स्थितम् । अप्सु प्रविष्टमित्यर्थः । 'अग्निर्देवेभ्य उदक्रामत्सोऽप आविशत्' इत्यादिश्रुतेः । 'सुपां सुलुक्' (पा० ७।१ । ३९) इति गुहाशब्दात्सप्तमीलोपः । हे अग्ने, पुनर्नष्टं त्वां वने वने शिश्रियाणं नानावनस्पतिषु श्रितमङ्गिरसोऽन्वविन्दन् । 'नित्यवीप्सयोः' (पा० ८।१। ४ ) इति वनेपदस्य द्वित्वम् । श्रयतेः शानचि ‘बहुलं छन्दसि' (पा० २।४ । ७६) इति शपः श्लुः द्वित्वं च । यं त्वामङ्गिरसोऽलभन्त स त्वं जायसेऽधुनाप्यरणिभ्य उत्पद्यसे । कीदृशः।