पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महत्सहः महता बहुना सहसा बलेन मथ्यमानः । महत्सहःशब्दाभ्यां तृतीयालोपः । मथ्यमानो जायस इत्यर्थः । हे अङ्गिरः अग्ने, अतएव सहसो बलस्य पुत्रं त्वामाहुः वदन्ति मुनयः बलेन मन्थनाज्जायमानत्वाद्बलपुत्रं वदन्तीत्यर्थः ॥ २८ ॥

एकोनत्रिंशी।
सखा॑य॒: सं व॑: स॒म्यञ्च॒मिष॒ᳪ स्तोमं॑ चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जोनप्त्रे॒ सह॑स्वते ।। २९ ।।
उ०. सखायः सम् । आनुष्टुभस्तृचः । यजमान ऋत्विजः संबोधयति । हे सखायः, संगत्य शृणुत । वः युष्मान् ब्रवीमि । सम्यञ्चम् संगतम् एकीभूतम् । इषम् हविर्लक्षणमन्नम् । स्तोमं च त्रिवृत्पञ्चदशादि । अग्नये भरत । कथंभूतायाग्नये । वर्षिष्ठाय क्षितीनां पृथुतमाय मनुष्याणाम् । ऊर्जानप्त्रे अपां पौत्राय । अद्भ्य ओषधिवनस्पतयो जायन्ते ताभ्योऽग्निः । सहस्वते बलवते ॥ २९॥
म०. 'अपरास्ताभ्योऽनुष्टुभः सखायः समिति' ( का० १७ । १२ । ९) । जगतीभ्योऽपरास्तिस्रोऽनुष्टुप्संज्ञेष्टकाः प्राङ्मुख उपदधाति सखाय इत्यृक्त्रयेणेति सूत्रार्थः । तिस्रोऽनुष्टुभः । ऋविजःप्रति यजमानो ब्रूते । हे सखायः ऋत्विजः, सम्यञ्चं समीचीनमिषं हविर्लक्षणमन्नं समीचीनं स्तोमं चाग्नये वः यूयं संपादयत अग्न्यर्थं हविः कुरुत । त्रिवृत्पञ्चदशादिस्तोमं च वदतेत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीयाबहुवचनं कृत्वा वसादेशे व इति । समित्युपसर्गस्यापेक्षितः क्रियाशेषोऽध्याहर्तव्यः । कीदृशायाग्नये । क्षितीनां मनुष्याणां । वर्षिष्ठाय श्रेष्ठाय वृद्धतमाय । 'प्रियस्थिर-' (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेश इष्ठनि । क्षियन्ति निवसन्ति भूमाविति क्षितयो नराः कर्तरि क्तिन् । सर्वपूज्यायेत्यर्थः । तथा ऊर्जो जलस्य नप्त्रे पौत्राय । अन्यो वनस्पतयो जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । तथा सहस्वते बलवते सहो बलमस्यास्तीति ॥ २९ ॥

त्रिंशी।
सᳪस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।। ३० ।।

उ० सᳪसमित् । 'प्रसमुपोदः पादपूरणे' इत्युपसर्गाभ्यासः । इदिति पादपूरणः । युवस इति विकरणव्यत्ययः । यस्त्वं संयौषि संगमयसि । हे वृषन् वर्षितः अग्ने । विश्वानि वसूनि । अर्य ईश्वरः सन् आलोच्यालोच्य । यजमानानाम् इडायाश्च पदे कर्मार्थं समिध्यसे । यद्वा इडायाः पृथिव्याः पदे उत्तरवेदौ संदीप्यसे । स नः अस्मभ्यम् वसूनि धनानि आभर आहर देहि ॥ ३० ॥
म० हे वृषन् वर्षितः सेक्तः हे अग्ने, अर्यः स्वामी त्वं विश्वानि सर्वाणि फलानि आ समन्तात्संयुवसे संयौषि यजमानेन सङ्गमयसि । यौतेर्विकरणपदव्यत्ययः । 'अर्यः स्वामिवैश्ययोः' (पा.३।१।१०३ ) इति निपातः । इडः इडायाः गोः पृथिव्या वा पदे स्थाने उत्तरवेद्यां समिध्यसे कर्मार्थ दीप्यसे स ईदृशस्त्वं नोऽस्मभ्यं वसूनि धनानि आभर आहर देहीत्यर्थः । हरतेर्भकारः ॥ ३० ॥

एकत्रिंशी।
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑: । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ।। ३१ ।।
उ० त्वां चित्रश्रवस्तम । हे अग्ने । चित्रश्रवस्तम चित्रं नानारूपं श्रवो धनमतिशयेन यस्य स चित्रश्रवस्तमः तस्य संबोधनं हे चित्रश्रवस्तम । त्वां हवन्ते आह्वयन्ति । विक्षु मनुष्येषु मध्ये व्यवस्थितम् जन्तवो मनुष्याः। कथंभूतम् । शोचिष्केशम् शोचन्ति दीप्यन्ते ज्वालाः केशसंस्थानीया अस्येति शोचिष्केशः । हे पुरुप्रिय बहवो यजमानाः प्रिया अस्य । बहूनां यजमानानां वा प्रियः । बहु वा हविः प्रियमस्येति समासविशेषाः । तस्य संबोधनं हे पुरुप्रिय । किमर्थमाह्वयन्ति । हव्याय वोढवे । हवींषि वोढुं परियामः।।३१।।
म० चित्रं नानाविधं श्रवो धनं कीर्तिर्वा यस्य स चित्रश्रवाः अतिशयेन चित्रश्रवाश्चित्रश्रवस्तमस्तत्संबुद्धिः । हे पुरुप्रिय, पुरूणां बहूनां यजमानानां प्रियः । यद्वा पुरवः प्रिया यस्य, पुरु बहु हविः प्रियं यस्येति वा हे पुरुप्रिय हे अग्ने, विक्षु प्रजासु ऋत्विग्यजमानाः त्वां हवन्ते आह्वयन्ति । 'ह्वेञ् आह्वाने' | 'ह्वः संप्रसारणम्' (पा० ६ । १ । ३२) इति शपि संप्रसारणं गुणश्च । किं कर्तुम् । हव्याय वोढवे । विभक्तिव्यत्ययः । हव्यं वोढुं प्राप्तुम् 'तुमर्थ सेसेन्–' (पा० ३ । ४ । ९ ) इति तुमर्थे तवेप्रत्ययः ॥ ३१॥

द्वात्रिंशी।
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिᳪ स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ।। ३२ ।।
उ० एना वः । प्रगाथोयम् । तत्र बृहती पूर्वा सतोबृहत्युत्तरा । तत्र प्रगथनधर्मेण तिस्रो बृहत्यः संपादिताः द्वयोस्तु व्याख्यानम् । नहि शास्त्रे व्यूढानां मन्त्राणामर्थान्तरं विद्यत इति । तथाच आत्वा जिघर्मीति श्रुतिव्यतिषिक्ताभ्यां होममुक्त्वा प्रगुणाभ्यामेव व्याख्यानं करोति अतः प्रगुणो व्याख्यायते । एना अनेन नमसा अन्नेन । व इति पादपूरणार्थः संभवात् । अग्निम् उर्जोनपातम् अपां पौत्रम् । आहुवे आह्वयामि । सर्वजीवप्रियम् । चेतिष्ठम् अतिशयेन चेतनायुक्तम् । अरतिम् अलंमतिं पर्याप्तमतिम् । स्वध्वरम् शोभना अध्वरा यज्ञा अस्य विद्यन्त इति स्वध्वरः। विश्वस्य सर्वस्य यजमानजनस्य दूतम् । अमृतम् अमरणधर्माणम् ॥ ३२ ॥