पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दः । 'दिशो वै परिभूश्छन्दः' (३) इति श्रुतेः । आच्छत् आच्छादयति स्वरसेन सर्वं शरीरमित्याच्छत् अन्नम् । 'अन्नं वा आच्छच्छन्दः' (३) इति श्रुतेः । मनः प्रथमसृष्टं प्रजापत्यात्मकं यन्मनः तदेव छन्दः तद्रूपासि । 'प्रजापतिर्वै मनश्छन्दः' (३) इति श्रुतेः । व्यचः व्यचति र्व्याप्तिकर्मा । विचति व्याप्नोति सर्वं जगदिति व्यचः । आदित्यः 'असौ वा आदित्यो व्यचश्छन्दः' (३) इति श्रुतेः । सिन्धुः स्यन्दति नाडीभिः शरीरं व्याप्नोतीति सिन्धुः प्राणवायुः । 'प्राणो वै सिन्धुश्छन्दः' (८।५।२ । ४) इति श्रुतेः । समुद्रम् समुद्द्रवन्त्यस्माद्विकल्पसमूहा इति समुद्रं मनः । यद्वा समुद्रसाम्याद्गाम्भीर्येण समुद्रं मनः । 'मनो वै समुद्रः' (४) इति श्रुतेः । सरिरं सलिलं रलयोरैक्यं सरति वदनगह्वरान्निर्गच्छतीति सरिरं वाक् । 'वाग्वै सरिरं छन्दः' (४) इति श्रुतेः । ककुप् कं सुखं शरीरे स्कुभ्नाति धारयतीति ककुप्, कं सुखं कोपयति दीपयतीति वा 'कुप् दीप्तौं' चुरादिः क्विप् । पूर्वपक्षे सलोपश्छान्दसः । ककुप् प्राणः । 'प्राणो वै ककुप् छन्दः' (४) इति श्रुतेः । त्रिककुप् त्रेधा कं पीतमुदकं स्कुभ्नातीति त्रिककुप् उदानः । 'उदानो वै त्रिककुप्छन्दः' (४) इति श्रुतेः । काव्यम् कवेः परमात्मन इदं काव्यं वेदत्रयीरूपः छन्दः । 'त्रयी विद्या काव्यं छन्दः' ( ४ ) इति श्रुतेः । अङ्कुपम् 'अङ्क कुटिलगतौ' अङ्केन कुटिलगत्या आप्नोतीत्यङ्कुपमुदकम् । 'आपो वा अङ्कुपं छन्दः' (४) इति श्रुतेः । अक्षरपङ्क्तिः न क्षरतीत्यक्षरा नाशरहिता पङ्क्तिरावलिर्यस्याः साक्षरपङ्क्तिर्द्यौः । 'असौ वै लोकोऽक्षरपङक्तिश्छन्दः' (४) इति श्रुतेः । पदपङ्क्तिः पदानां चरणन्यासानां पङ्क्तयो यस्मिन् सा पदपङ्क्तिर्भूलोकः । 'अयं वै लोकः पदपङ्क्तिश्छन्दः' (४) इति श्रुतेः । विष्टारपङ्क्तिः विस्तारा विस्तीर्यत इति विस्तारा विस्तारिता प्रसारिता वस्तूनां पङ्क्तयो यत्रेति विष्टारपङ्क्तिर्दिक् । 'दिशो वै विष्टारपङ्क्तिश्छन्दः' (४) इति श्रुतेः । क्षुरः 'क्षुर विलेखनखननयोः' क्षुरति विलिखति व्याप्नोति सर्वमिति क्षुरः तीव्रः । भ्राजते दीप्यत इति भ्रजः ह्रस्वश्छान्दसः । क्षुरोभ्रजः आदित्यः । 'असौ वा आदित्यः क्षुरोभ्रजश्छन्दः' (८ । ५। २ । ४) इति श्रुतेः ॥ ४ ॥

पञ्चमी।
आ॒च्छच्छन्द॑: प्र॒च्छच्छन्द॑: सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विवधश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑: स॒ᳪस्तुप्छन्दो॑ ऽनु॒ष्टुप्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ अङ्का॒ङ्कं छन्द॑: ।। ५ ।।
उ० आच्छच्छन्दः प्रच्छच्छन्दः अन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः । संयच्छन्दः रात्रिर्वा संयच्छन्दः । वियच्छन्दः असौ वै लोको वियच्छन्दः । निकायश्छन्दः वायुर्वै निकायश्छन्दः । विवधश्छन्दः अन्तरिक्षं वै विवधश्छन्दः । गिरश्छन्दः अन्नं वै गिरश्छन्दः । भ्रजश्छन्दः अग्निर्वै भ्रजश्छन्दः । सᳪस्तुप्छन्दोनुष्टुप्छन्द इति । वाग्वै सᳪस्तुप्छन्दो वागनुष्टुप्छन्दः । एवश्छन्दः वरिवश्छन्द इति तस्योक्तो बन्धुः । यथाश्रुति व्याख्यानम् । या त्वम् एवः अवनात्पृथिवीलोकः छन्दः छादनात् तां त्वामुपदधामीति व्याख्याधर्मप्रदर्शनम् ॥ ५॥
म०. आच्छत् आच्छादयति शरीरमित्याच्छदन्नम् । प्रच्छत् प्रच्छादयतीति प्रच्छदन्नम् । 'अन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः' (४) इति श्रुतेः । संयत् संयच्छति व्यापारान्निवर्तयति जन्तूनिति संयत् रात्रिः। रात्रिर्वै संयच्छन्दः' (८। ५।२।५) इति श्रुतेः । वियत् विशेषेण यच्छन्ति गच्छन्ति व्यापारायेतस्ततो जना यत्रेति वियद्दिनम् । 'अहर्वै वियच्छन्दः' (५) इति श्रुतेः । बृहत् विस्तीर्णं स्वः । 'असौ वै लोको बृहच्छन्दः' (५) इति श्रुतेः । रथन्तरम् रथैः तीर्यते गम्यते यत्रेति रथन्तरं भूमण्डलम् । 'अयं वै लोको रथन्तरं छन्दः' (५) इति श्रुतेः । निकायः नितरां कायति शब्दं करोति वृक्षादीनुन्मूलयन्निति निकायो वायुः 'कै शब्दे' । 'वायुर्वै निकायश्छन्दः' (५) इति श्रुतेः । विवधः विविधं वध्यन्ते हन्यन्ते पापफलानि भोक्ष्यन्ते भूतप्रेतादिरूपेण प्राणिनो यत्रेति विवधोऽन्तरिक्षम् । 'अन्तरिक्षं वै विवधश्छन्दः' (५) इति श्रुतेः । गिरः गीर्यते भक्ष्यत इति गिरोऽन्नम् । 'अन्नं वै गिरः' (६) इति श्रुतेः । भ्रजः भ्राजते दीप्यत इति भ्रजोऽग्निः । 'अग्निर्वै भ्रजश्छन्दः' (८) इति श्रुतेः । संस्तुप् अनुष्टुप् सम्यक् स्तुभ्यते रुध्यते वशीक्रियते अनु निरन्तरं स्तुभ्यतेऽनया सा संस्तुप् अनुष्टुप् वाक् । 'वागेव सᳪस्तुप् छन्दो वागनुष्टुप् छन्दः' (५) इति श्रुतेः । एवः वरिवः इति पदद्वयं व्याख्यातम् । वयः बाल्यादिवयोहेतुभूतमन्नम् । 'अन्नं वै वयश्छन्दः' (६) इति श्रुतेः। वयस्कृत् वयांसि बाल्यादीनि करोतीति वयस्कृत् जठराग्निः । 'अग्निर्वै वयस्कृच्छन्दः' (६) इति श्रुतेः । विष्पर्धाः विविधं स्पर्धन्ते ऐश्वर्याधिक्यदर्शनेन जना यत्रेति विष्पर्धाः स्वर्गः । 'स्पर्ध संघर्षे' असुन् । 'असौ वै लोको विष्पर्धाश्छन्दः' (६) इति श्रुतेः । विशालं विविधं शालन्ते शोभन्ते जना यत्रेति विशालं भूतलम् । 'अयं वै लोको विशालं छन्दः' (६) इति श्रुतेः । छदिः छाद्यतेऽर्करश्मिभिरिति छदिरन्तरिक्षम् । 'अन्तरिक्षं वै छदिश्छन्दः' ( ६ ) इति श्रुतेः । दूरोहणम् दुःखेन रोढुमारोहणं कर्तुं शक्यं निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानसाध्यत्वादिति दूरोहणं रविः । 'असौ.