पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिᳪशस्तस्य चतुर्विᳪशतिरर्धमासाः षडृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिᳪशस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूप०(८।४।१।२२)। ब्रध्नः सूर्यः । 'असौ वा आदित्यो ब्रध्नः' इति श्रुतेः । विष्टपं निवासस्थानं 'भुवनं विष्टपं लोकः' इति कोशात् ब्रध्नस्य विष्टपं स्वाराज्यं स्वतन्त्रत्वं तद्रूपस्तत्तत्प्रदो यश्चतुस्त्रिᳪशः स्तोमस्तद्रूपासि । यद्वा संवत्सरो ब्रध्नस्य विष्टपं रविणैव कालनिर्माणत्वात् चतुर्विंशतिपक्षसप्तर्त्वहोरात्रसंवत्सरात्मकत्वाच्चतुस्त्रिंशः । य एव चतुस्त्रिᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिᳪशस्तस्य चतुर्विᳪशतिरर्धमासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिᳪशस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं तदेतद्रूप०.' ( ८ । ४ । १। २३ ) । नाकः स्वर्गप्रदः षट्त्रिंशः स्तोमोऽसि संवत्सरो वा नाकः काम्यत इति कं सुखं न कमकं दुःखं तन्नास्ति यत्र स नाकः षट्त्रिंशः पक्षमासात्मकत्वात् । य एव षट्त्रिᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिᳪशस्तस्य चतुर्विᳪशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति । नहि तत्र गताय कस्मै च नाकं भवत्यथो संवत्सरः संवत्सरो वाव नाकः स्वर्गो लोकस्तदेव तद्रूप०' (८।४।१।२४) । विवर्त्यन्ते आवर्त्यन्ते सामानि यत्रेति विवर्तः अष्टाचत्वारिंशः स्तोमस्तद्रूपासि । यद्वा विविधं वर्तन्ते भूतानि यत्रेति विवर्तः संवत्सरः अधिमासत्वेन षड्विंशतिः पक्षाः सप्तर्तवः त्रयोदश मासाः द्वे अहोरात्रे इत्यष्टाचत्वारिंशः य एवाष्टाचत्वारिᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तोऽष्टाचत्वारिᳪशस्तस्य षड्विᳪशतिरहोरात्राणि त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेतद्रूप०' ( ८।४।१ । २५)। धर्त्रं धारकश्चतुरुत्तरः स्तोमश्चतुष्टोमः। मध्यमपदलोपी समासः। त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहस्तद्रूपासि । वायुर्वा धर्त्रं जगदाधारत्वाच्चतुर्दिग्भिः स्तूयमानत्वाच्चतुष्टोमः । य एव चतुष्टोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्र चतुष्टोमः स आभिश्चतसृभिर्दिग्भिः स्तुते वायुर्वै सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूपमुपदधातीति' ( ८ । ४ । १ । २६ ) श्रुतेः । आदावन्ते च वायूपधानेन वायुना सर्वभूतानि वशीकरोतीति भावः । तदुक्तं श्रुत्या ‘स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णातीति' (८ । ४ । १ । २७) एतैरष्टादशमन्त्रैः स्तोमवादिभिः स्तोमरूपत्वं नीता अष्टादशेष्टका उपधेया इत्यर्थः ॥२३॥

चतुर्विंशी।
अ॒ग्नेर्भा॒गो॒ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॒
इन्द्र॑स्य भा॒गो॒ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रᳪ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑
नृ॒चक्ष॑सां भा॒गो॒ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ᳪ स्पृ॒तᳪ स॑प्तद॒शः स्तोमो॑
मि॒त्रस्य॑ भा॒गो॒ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑: स्पृ॒त ए॑कवि॒ᳪशः स्तोम॑: ।। २४ ।।
उ० स्पृतं दश इष्टका उपदधाति दशभिर्मन्त्रैः अग्नेर्भागोसीत्यादिभिः । तत्रार्थवादः । प्रजापतिर्गर्भमेकेभ्यो देवेभ्य आधिपत्यमेकेभ्यः कल्पयित्वा ब्रह्मप्रभृतीनि भूतानि पाप्मनो व्यवृधत् त्रिवृदादिभिः स्तोमैः । इष्टकोच्यते । या त्वम् अग्नेः भागोसि । यस्यां च त्वयि दीक्षाया आधिपत्यं जातम् । यया च त्वया ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्यैरपनीतम् । त्रिवृत्सोमः । त्रिवृत्स्तोमेनेति विभक्तिव्यत्ययः। तां त्वामुपदधामीति शेषः । यद्वा । या त्वमग्नेर्भागोऽसि यस्याश्च तव त्रिवृत्स्तोमः यस्यां च त्वयि दीक्षाया आधिपत्यम् यया च त्वया ब्रह्म मृत्योर्मोचितम् । तां त्वामुपदधामीति शेषः । एवमन्यदपि व्याख्येयम् । जनित्रम् आश्चर्येण जायत इति जनित्रम् ॥ २४ ॥
म० 'दक्षिणां पूर्वयोरग्नेर्भाग इति' ( का० १७ । १० । १२) पूर्वानूकान्ते विहितयोर्जङ्घामात्र्योर्मध्ये दक्षिणामुपदधात्युदङ्मुखः उत्तरा पूर्वमुपहिता । दश यजूंषि चतुर्भिर्मृत्युमोहिन्युपधानं षड्भिः षट्पद्योपधानं दशेष्टकाः स्पृत्संज्ञाश्च । तत्रार्थवादः श्रुत्युक्तः । उत्पन्नेन सृष्ट्यादौ प्रजापतिना सर्वाणि भूतानि स्रष्टुं गर्भे कृतानि गर्भस्थान्येव भूतानि पाप्मा मृत्युरगृह्णात् । ततः प्रजापतिर्देवानुवाच युष्माभिः सहाहमिमानि भूतानि पापरूपान्मृत्योर्मोचयामीति देवैरुक्तं तत्रास्माकं को लाभः । प्रजापतिनोक्तं वृणुत । तैः कैश्चिदुक्तमस्माकं भागोऽस्तु । अन्यैरुक्तमस्माकमाधिपत्यमस्त्विति तथेत्युक्त्वैकेभ्यो भागमपरेभ्य आधिपत्यं दत्त्वा तैः सह भूतानि मृत्योरस्पृणोत्ततः स्पृत इष्टका इति । तथाच श्रुतिः 'अथ स्पृत उपदधात्येतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहि ते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् ॥१॥ स देवानब्रवीद्युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्वित्येकेऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोतीति' ( ८ । ४ । २।१।२)। अथ मन्त्रार्थः । हे इष्टके, या त्वमग्नेर्भागो विभागोऽसि यस्यां च त्वयि दीक्षाया वाच आधिपत्यं स्वामित्वं । यया च त्वया त्रिवृत्स्तोमः । विभक्तिव्यत्ययः । त्रिवृता स्तोमेन ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्योरपनीतम् रक्षितम् । यस्यां त्वयि त्रिवृत्स्तोम इति वा । तां त्वामुपदधामीति शेषः । एवं सर्वत्र व्याख्येयम् । 'स्पृ प्रीतिरक्षाप्राणनेषु' स्वादिः । 'वाग्वै दीक्षा