शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ४/ब्राह्मणम् २

विकिस्रोतः तः

स्पृदिष्टकोपधानम्, ऋतव्येष्टकोपधानम्

८.४.२ स्पृदिष्टकोपधानम्

अथ स्पृत उपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् - ८.४.२.१

स देवानब्रवीत् । युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्त्वित्येकेऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाऽऽधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति तस्मादु सर्वास्वेव स्पृतं स्पृतमित्यनुवर्तते - ८.४.२.२

अग्नेर्भागोऽसि । दीक्षाया आधिपत्यमिति वाग्वै दीक्षाऽग्नये भागं कृत्वा वाच आधिपत्यमकरोद्ब्रह्म स्पृतं त्रिवृत्स्तोम इति ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मना मृत्योरस्पृणोत् - ८.४.२.३

इन्द्रस्य भागोऽसि । विष्णोराधिपत्यमितीन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत्क्षत्रं स्पृतं पञ्चदश स्तोम इति क्षत्रं प्रजानां पञ्चदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.४

नृचक्षसां भागोऽसि । धातुराधिपत्यमिति देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोज्जनित्रं स्पृतं सप्तदश स्तोम इति विड्वै जनित्रं विशं प्रजानां सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.५

मित्रस्य भागोऽसि । वरुणस्याधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय भागं कृत्वाऽपानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.६

वसूनां भागोऽसि । रुद्राणामाधिपत्यमिति वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्यमकरोच्चतुष्पात्स्पृतं चतुर्विंश स्तोम इति चतुष्पात्प्रजानां चतुर्विंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.७

आदित्यानां भागोऽसि । मरुतामाधिपत्यमित्यादित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोद्गर्भा स्पृताः पञ्चविंश स्तोम इति गर्भान्प्रजानां पञ्चविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.८

अदित्यै भागोऽसि । पूष्णं आधिपत्यमितीयं वा अदितिरस्यै भागं कृत्वा पूष्ण आधिपत्यमकरोदोज स्पृतं त्रिणव स्तोम इत्योजः प्रजानां त्रिणवेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.९

देवस्य सवितुर्भागोऽसि । बृहस्पतेराधिपत्यमिति देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिपत्यमकरोत्समीचीर्दिश स्पृताश्चतुष्टोम स्तोम इति सर्वा दिशः प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.१०

यवानां भागोऽसि । अयवानामाधिपत्यमिति पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते हीदं सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वापरपक्षेभ्य आधिपत्यमकरोत्प्रजा स्पृताश्चतुश्चत्वारिंश स्तोम इति सर्वाः प्रजाश्चतुश्चत्वारिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् - ८.४.२.११

ऋभूणां भागोऽसि । विष्वेषां देवानामाधिपत्यमित्यृभुभ्यो भागं कृत्वा विश्वेभ्यो देवेभ्य आधिपत्यमकरोद्भूतं स्पृतं त्रयस्त्रिंश स्तोम इति सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्यो स्पृणोति - ८.४.२.१२

ता वा एता दशेष्टका उपदधाति । दशाक्षरा विराड् विराडग्निर्दश दिशो दिशोऽग्निर्दश
प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेतानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति - ८.४.२.१३

ऋतव्येष्टकोपधानम्

अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति सहश्च सहस्यश्च हैमन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति - ८.४.२.१४

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.४.२.१५

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.४.२.१६

`