पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(८ । ४ । २ । ३) इति श्रुतेः । 'उत्तरामुत्तरयोरिन्द्रस्य भाग इति' ( का० १७ । १० । १५) । उदगनूकान्तविहितयोर्दक्षिणोत्तरयोः पद्ययोर्मध्ये उत्तरामुपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वमिन्द्रस्य भागोऽसि । यस्यां त्वयि विष्णोराधिपत्यं पञ्चदशेन क्षत्रं क्षत्रजातिः स्पृतं मृत्योर्मोचितम् 'इन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत्' ( ८ । ४ । २। ४ ) इति श्रुतेः । 'उत्तरां दक्षिणयोर्नृचक्षसां भाग इति' ( का० १७ । १० । १४ ) । दक्षिणानूकान्तविहितयोर्दक्षिणोतरयोः पद्ययोरुत्तरां निदधाति दक्षिणोपहिता । नॄन् शुभाशुभकर्तॄन चक्षते जानन्ति ते नृचक्षसो देवास्तेषां भागोऽसि । त्वयि धातुराधिपत्यं त्वया सप्तदशस्तोमेन जनित्रं वैश्यजातिः स्पृतम् । 'देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोद्विड्वै जनित्रम्' ( ८ । ४ । २ । ५) इति श्रुतेः । 'उत्तरामपरयोर्मित्रस्य भाग इति' ( का० १७ । १०। १३) अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्जङ्घामात्र्योर्मध्ये उत्तरां जङ्घामात्रीं दक्षिणामुख उपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वं मित्रस्य प्राणस्य भागोऽसि त्वयि वरुणस्यापानस्याधिपत्यं यया त्वयेकविंशेन स्तोमेन दिवः संबन्धिनी वृष्टिर्वातश्च स्पृतस्तां सादयामि । 'प्राणो वै मित्रोऽपानो वरुणः प्राणाय भागं कृत्वापानायाधिपत्यमकरोदिति' ( ८ । ४ । २ । ६) श्रुतेः ॥ २४ ॥

पञ्चविंशी।
वसू॑नां भा॒गो॒ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒ᳪशः स्तोम॑
आदि॒त्यानां॑ भा॒गो॒ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑: स्पृ॒ताः प॑ञ्चवि॒ᳪश: स्तोमो
ऽदि॑त्यै भा॒गो॒ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑: स्पृ॒तं त्रि॑ण॒व: स्तोमो॑
दे॒वस्य॑ सवि॒तुर्भा॒गो॒ऽसि बृह॒स्पते॒राधि॑पत्यᳪ स॒मीची॒र्दिश॑: स्पृ॒ताश्च॑तुष्टो॒म: स्तोम॑: ।। २५ ।।
म०. 'षट् प्रतिमन्त्रं वसूनां भाग इति' (का० १७ । १०। १६)। चतुर्दशभ्योऽपराः षण्मन्त्रैः षट् पद्या उपदध्यादिति सूत्रार्थः । हे इष्टके, त्वं वसूनां भागोऽसि । त्वयि रुद्राणामाधिपत्यं त्वया चतुर्विंशेन स्तोमेन प्रजानां चतुष्पात् गवाश्वादिकं स्पृतं पापान्मोचितम् । 'वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्यमकरोत्' (८ । ४ । २ । ७) इति श्रुतेः । आदित्यानां या त्वं भागोऽसि । त्वयि मरुतामाधिपत्यं त्वया पञ्चविंशेन स्तोमेन प्रजानां गर्भाः मृत्योः रक्षिताः । 'आदित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोत्' ( ८ । ४ । २ । ८ ) इति श्रुतेः। त्वमदित्यै अदित्या भूमेर्भागोऽसि । पूष्ण आधिपत्यं त्वयि त्वया त्रिणवेन स्तोमेन प्रजानामोजः बलमष्टमो धातुर्वा स्पृतम् । 'इयं वा अदितिरस्यै भागं कृत्वा पूष्ण आधिपत्य०' ( ८ । ४ । २ । ९)। त्वं देवस्य सवितुर्भागोऽसि त्वयि बृहस्पतेराधिपत्यं त्वया चतुष्टोमेन स्तोमेन समीचीः समीच्यः सम्यगञ्चन्ति जना यासु ता ,दिशः स्पृताः । 'देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिप०' (८।४।२।१०) इति ॥ २५ ॥

षड्विंशी।
यवा॑नां भा॒गोऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒ᳪशः स्तोम॑
ऋ॑भू॒णां भा॒गो॒ऽसि विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तᳪ स्पृ॒तं त्र॑यस्त्रि॒ᳪशः स्तोम॑: ।। २६ ।।
उ० यवाः पूर्वपक्षाः । अयवा अपरपक्षाः ॥ २६ ॥
म० यवानां पूर्वपक्षाणां त्वं भागोऽसि । अयवानामपरपक्षाणां त्वय्याधिपत्यं चतुश्चत्वारिंशेन स्तोमेन त्वया प्रजाः स्पृताः रक्षिताः । 'पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते हीदᳪ सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वापरपक्षेभ्य आधिप०' (८ । ४ । २ । ११)। ऋभूणां देवविशेषाणां त्वं भागोऽसि त्वयि विश्वेषां देवानामाधिपत्यं त्रयस्त्रिंशेन स्तोमेन त्वया भूतं प्राणिमात्रमनुक्तं स्पृतं पाप्मनो मृत्योः रक्षितम् । तथा यजमानोऽपि सर्वभूतानि मृत्योः स्पृणोति । 'ऋभुभ्यो भागं कृला विश्वेभ्यो देवेभ्य आधिपत्यमकरोत्' (८ । ४ । २ । १२) इति श्रुतेः ॥ २६ ॥

सप्तविंशी।
सह॑श्च सह॒स्य॒श्च हैम॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः।
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। है॑मन्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। २७ ।।
उ० ऋतव्ये सहश्च सहस्यश्चेति ॥ २७ ॥
म० 'ऋतव्ये सहश्च सहस्यश्चेति' ( का० १७ । १० । १८)। अनूकमभितो द्वे पद्ये उपदधाति । ऋतुदेवत्यं यजुः । सहो मार्गशीर्षः सहस्यः पौषः एतौ हैमन्तिकौ हेमन्तावयवौ । शिष्टं पूर्वतुल्यम् [अ० १३ क० २५] ॥ २७ ॥

अष्टाविंशी।
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत् ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत् स॒प्तभि॑रस्तुवत सप्त ऋ॒षयो॑ऽसृज्यन्त धा॒ताऽधि॑पतिरासीत् ।। २८ ।।
म० रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेना