पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदश इति' ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४ । १ । ११) श्रुतेः 'दक्षिणामपरयोर्धरुण एकविᳪश इति' ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪशः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪशोऽथोऽसौ वा आदित्यो धरुण एकविᳪशस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪशस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदᳪ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति' (८।१।१ । १२) श्रुतेः 'चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति' ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्त्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूर्तिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । 'य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति' (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०' (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । 'उपसर्गस्य घञ्यमनुष्ये बहुलं' (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । 'य एव सविᳪशस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪशस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪशस्तद्यत्तमाहाभीवर्त सप्तदश इति' ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापति व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४ । १ । ११) श्रुतेः 'दक्षिणामपरयोर्धरुण एकविᳪश इति' ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪशः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪशोऽथोऽसौ वा आदित्यो धरुण एकविᳪशस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪशस्तद्यत्तमाह धरुण इति यदा ह्येवेषोऽस्तमेत्यथेदᳪ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति' (८।१।१ । १२) श्रुतेः 'चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति' ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूतिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । 'य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूतिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति' (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०' (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । 'उपसर्गस्य घञ्यमनुष्ये बहुलं' (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । 'य एव सविᳪशस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪशस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेतद्रूप०' ( ८।४ ।१।१५)। वर्चः बलविशेषप्रदो द्वाविᳪशः स्तोमः । यद्वा वर्चः संवत्सरः वर्चस्वितमः द्वादश मासाः सप्तर्तवः द्वे अहोरात्रे संवत्सरश्चेति द्वाविंशतिसंख्योपेतत्वाद् द्वाविंशः तद्रूपासि । 'य एव द्वाविᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव वर्चो द्वाविᳪशस्तस्य द्वादश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वाविᳪशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमस्तदेतद्रूप०' (८।४।१ । १६) इति । संबिभर्ति संभरणः सम्यक् पोषकत्रयोविंशः स्तोमस्त्वमसि । यद्वा संभरत्युत्पादयति संहरति विनाशयति वा संभरणः संवत्सरः त्रयोदशमासाः सप्तर्तवो द्वे अहोरात्रे एकः संवत्सर इति त्रयोविंशावयवः तद्रूपासि । ‘य एव त्रयोविᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव संभरणस्त्रयोविᳪशस्तस्य त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव संभरणस्त्रयोविᳪशस्तद्यत्तमाह संभरण इति संवत्सरो हि सर्वाणि भूतानि संभृतस्तदेव तद्रूप०' ( ८ । ४ । १ । १७)। योनिः प्रजोत्पादकश्चतुर्विंशः स्तोमोऽसि । यद्वा योनिः सर्वस्थानभूतः संवत्सरश्चतुर्विंशतिपक्षात्मकस्तद्रूपासि । ‘य एव चतुर्विᳪशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव योनिश्चतुर्विᳪशस्तस्य चतुर्विᳪशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिस्तदेव तद्रूप०' ( ८ । ४ । १ । १८ )। गर्भाः व्यत्ययेन बहुत्वम् । सामगर्भः पञ्चविंशस्तोमोऽसि । यद्वा गर्भः संवत्सरो भूतोत्पादकत्वाच्चतुर्विंशतिः पक्षा एकः संवत्सर इति अधिकमासो भूत्वा ऋतुषु गर्भो भवतीति वा गर्भः । 'य एव पञ्चविᳪशस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव गर्भाः पञ्चविᳪशस्तस्य चतुर्विᳪशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविᳪशस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वर्तून् प्रविशति तदेव तद्रूप०' ( ८ । ४ । १ । १९)। | ओजः मतुब्लोपः ओजस्वी तेजस्वी वज्रो वा ओजः तद्रूपस्त्रिणवः स्तोमोऽसि । यद्वा ओजः संवत्सरश्चतुर्विंशतिपक्षाहोरात्रसंवत्सरात्मकत्वात् त्रिणवः त्रिगुणा नव यत्र । य एव त्रिणवः स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति वज्रो वा ओजो वज्रस्त्रिणवः संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोजस्वितमस्तदेव तद्रूप०' ( ८ । ४ । १ । २०)। क्रतुर्यज्ञोपयोगी एकत्रिंशः स्तोमोसि । यद्वा संवत्सर एव करोतीति क्रतुः पक्षर्तुसंवत्सरात्मकत्वादेकत्रिंशः । ‘य एवेकत्रिᳪशस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिᳪशस्तस्य चतुर्विᳪशतिरर्धमासाः षडृतवः संवत्सर एव क्रतुरेकविᳪशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोतीति' [ ८।४।१।२१ । ] श्रुतेः । प्रतिष्ठा स्थितिहेतुस्त्रयस्त्रिᳪशः स्तोमोऽसि । यद्वा संवत्सरः प्रतिष्ठा संवत्सरे सर्वस्य प्रतिष्ठितत्वात् पक्षर्त्वहोरात्रसंवत्सरात्मकत्वात्त्रयस्त्रिंशः । य एव