पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०) श्रुतेः । हे इष्टके, इषेऽन्नाय त्वामुपदधामि । ऊर्जे बलाय त्वामु० । रय्यै धनाय त्वामु० । पोषाय धनपुष्ट्यै त्वामु० । 'इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चतस्रश्चतुष्पादाः पशवः' ( ८।३।४।१० ) इति श्रुतेश्चतसृणां पशुसंस्तवः । 'उत्तरश्रोणेरधिलोकंपृणाः पूर्ववत्' ( का० १७ । ९ । १५) उत्तरश्रोणेरारभ्य प्रथमचितिवदेव लोकंपृणा उपदधाति । ततः पुरीषनिर्वापोपस्थाने ॥ २२ ॥
इति तृतीया चितिः॥

त्रयोविंशी।
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒ᳪशः
प्रतू॑र्तिरष्टाद॒शस्तपो॑ नवद॒शो॒ ऽभीव॒र्त्त: स॑वि॒ᳪशो वर्चो॑ द्वावि॒ᳪशः
स॒म्भर॑णस्त्रयोवि॒ᳪशो योनि॑श्चतुर्वि॒ᳪशो गर्भा॑: पञ्चवि॒ᳪश ओज॑स्त्रिण॒वः
क्रतु॑रेकत्रि॒ᳪशः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ᳪशो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ᳪशो नाक॑: षट्त्रि॒ᳪशो
वि॑व॒र्तो॒ऽष्टाचत्वारि॒ᳪशो ध॒र्त्रं च॑तुष्टो॒मः ।। २३ ।।
उ० चतुर्थीं चितिमृषयोऽपश्यन् । आशुस्त्रिवृदित्यष्टादशेष्टकाः प्रतिमन्त्रमुपदधाति । स्तोमसंख्योपलक्षितैर्मन्त्रैः स्तोमानुपदधातीति श्रुतिः । प्रकटार्था मन्त्राः श्रुत्या च व्याख्याताः तथापि किंचित्किंचिदुच्यते । आशुः त्रिवृत् यएव त्रिवृत् स्तोमः सोऽनेन मन्त्रेणोक्तः इत्येकं व्याख्यानम् । अथो वायुर्वा आशुः शीघ्रः त्रिवृत् त्रिलोकसंचारी । एवमुपरितनान्यपि व्याख्येयानि । भान्तः पञ्चदशः। चन्द्रमा उच्यते । स हि भाति च पञ्चदशाहान्यापूर्यते च अपक्षीयते च । व्योमा सप्तदशः। संवत्सर उक्तः । स हि विविधमवति प्राणिनः सप्तदशावयवश्च । धरुण एकविंशः । आदित्यः स्तोमो वोच्यते । 'प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशः स्तोमः । आदित्या वा प्रतिष्ठा । मासादिभिः एकविंशावयवं च । परतः संवत्सररूपाणि व्याख्यातानि । प्रतूर्तिः संवत्सरः । स हि सर्वाणि भूतानि प्रतिरति प्रवर्धयति । तपः । संवत्सरो हि सर्वाणि भूतानि तपति शीतोष्णवर्षैः । अभीवर्तः । संवत्सरो हि सर्वाणि भूतान्यभिवर्तते । तेन हि अभिवृत्तेन ऋतुलिङ्गानि भूतेषु दृश्यन्ते । वर्चः । 'संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमः' इति श्रुतिर्बुवन्ती मतुब्लोपं दर्शयति । वर्चस्वी महाभाग्यवान् । संभरणः । संवत्सरो हि सर्वाणि भूतानि संभरति उत्पादयति संहरति वा विनाशयति । योनिः स्थानम् । गर्भः संवत्सरः त्रयोदशमास इहोच्यते । स च गर्भो भूत्वा ऋतून्प्रविशति । कथं पुनस्त्रयोदशो मासः ऋतून्प्रविशति । उच्यते । एकोनषण्मासाहोरात्रैश्चन्द्रो द्वादशराशीन् विभ्रमति स चान्द्र ऋतुर्भवति । आदित्यस्त्वेकषण्मासदिवसैः राशिद्वयमतिकामति स सौरऋतुर्भवति । तैश्च सौरैर्ऋतुभिः संवत्सरो भवति । ततश्चैकस्मिन्नृतौ सौरचान्द्रौ ऋतुर्भवतः तिथिद्वयं च । एवं षड्ऋतुषु द्वादशतिथयः प्रविशन्ति अपरेषु षट्स्वपरा द्वादश अपरेषु षट्तिथयः । स एषोऽर्धतृतीयेषु संवत्सरेषु चान्द्रो मासः प्रविशति । स एवाधिमासः स एव त्रयोदशो मासः सौरानृतून्द्वाभ्यां तिथिभ्यां प्रविशति । ओजः । अत्रापि मतुब्लोपः । ओजस्वी संवत्सर ऋतुः । 'संवत्सरो हि सर्वाणि भूतानि करोति' इति श्रुतिः । प्रतिष्ठाधिष्ठानम् । ब्रध्नस्य विष्टपम् । स्वाराज्यं वै ब्रध्नस्य विष्टपम् । स्वाराज्यं स्वतन्त्रता । नाकः काम्यत इति कं सुखम् तद्विपरीतमकं दुःखम् नास्त्यकमसुखमस्मिन्निति नाकः । विवर्तः । विविधं वर्तन्ते तत्र गतानि भूतानीति विवर्तः पितृयाणः । धर्त्रं धारणम् । चतुष्टोमः चतुरुत्तरः स्तोमः चतुष्टोमः। उत्तरपदलोपी समासः ॥२३॥
म० 'उत्तरां पूर्वयोराशुस्त्रिवृदिति' (का० १७ । १० ।७) । पूर्वानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये उत्तरां जङ्घामात्रीमुदङ्मुख उपदधातीति सूत्रार्थः । अस्यां कण्डिकायामष्टादश यजूंषि चतुर्णां मृत्युमोहिन्युपधाने विनियोगः । प्रतूर्तिरित्यादीनां चतुर्दशार्धपद्योपधाने विनियोगः । हे इष्टके, त्वं त्रिवृत् स्तोमरूपासि । साम्नामावृत्तिविशेषाः स्तोमाः तेषां विशेषणान्याशुरित्यादीनि । कीदृशस्त्रिवृत् । आशुः । 'अशू व्याप्तौ' अश्नुते व्याप्नोति सर्वान् स्तोमानित्याशुः । तद्रूपां त्वामुपदधामीति सर्वत्र शेषः । 'स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधातीति' (८ । ४ । १ । ३) श्रुतेः। यद्वा आशुः वायुः त्रिवृत् त्रिषु लोकेषु वर्तत इति त्रिवृत् क्विप् सर्वभूतव्यापकत्वादाशुर्वायुस्तद्रूपासि । एवं श्रुत्यनुसारेण सर्वत्र व्याख्यायते । तथाच श्रुतिः ‘स पुरस्तादुपदधात्याशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तमुपदधाति तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽर्थो वायुर्वा आशुस्त्रिवृत् स एषु त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४।१।९)। 'दक्षिणां दक्षिणयोर्भान्तः पञ्चदश' (का० १७ । १० । ९) इति दक्षिणानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये भान्त इति मन्त्रेण दक्षिणां पद्यां प्रत्यङ्मुख उपदधातीति सूत्रार्थः । भान्तः वज्ररूपो यः पञ्चदशः स्तोमः । यद्वा भान्तश्चन्द्रः पञ्चदशाहानि पूर्यमाणत्वात्पञ्चदशाहं क्षीयमाणत्वात् पञ्चदशः। भा कान्तिरेवान्तः स्वरूपं यस्य तद्रूपासि । 'य एव पञ्चदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः स पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधातीति' (८ । ४ । १० । १०) श्रुतेः । दक्षिणामुत्तरयोर्व्योमा