पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति श्रुतेः । इतः स्पष्टान्येव छन्दांसि पङ्क्त्यादीन्यष्टौ 'अथो निरुक्तान्येव छन्दाᳪस्युपदधाति' ( ८।३ । ३ । ५) इति श्रुतेः । इष्टके, त्वं पङ्क्त्युष्णिग्बृहत्यनुष्टुप्विराड्गायत्रीत्रिष्टुब्जगतीच्छन्दोरूपासीत्यर्थः ॥ १८॥

एकोनविंशी।
पृ॒थि॒वी छन्दो॒ ऽन्तरि॑क्षं॒ छन्दो॒ द्यौ॒श्छन्द॒: समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्द॑:
कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ ऽजाश्छन्दो ऽश्व॒श्छन्द॑: ।। १९ ।।
उ० पृथिवी छन्द इति । यान्येतद्देवत्यानि छन्दांसि तान्युपदधाति । छादयन्तीति छन्दांस्युच्यन्ते ॥ १९॥
म० पृथिव्यादिदेवत्यानि यानि छन्दांसि तद्रूपासि । समाः संवत्सराः स्पष्टमन्यत् । ‘यान्येतद्देवत्यानि छन्दाᳪसि तान्येवैतदुपदधातीति' ( ८ । ३ । ३ । ६ ) श्रुतेः ॥ १९ ॥

विंशी।
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑
ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा देवता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ।। २०।।
उ० अग्निर्देवता वातो देवतेत्येता वै छन्दांसि ता अपि छादयन्ति ॥ २० ॥
म० इष्टके, त्वमग्न्यादिदेवतारूपासि । तामुपदधामीति सर्वत्र शेषः । अग्न्यादीनां देवतात्वं प्रसिद्धम् । 'अग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दाᳪसि तान्येवैतदुपदधातीति' ( ८ । ३ । ३ । ६) श्रुतेः ॥ २० ॥

एकविंशी।
मू॒र्धाऽसि॒ राड् ध्रु॒वाऽसि॑ ध॒रुणा॑ ध॒र्त्र्य॒सि॒ धर॑णी ।
आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ।। २१ ।।
उ० चतुर्दश वालखिल्या उपदधाति द्वाभ्यामनुष्टुप्परोष्णिग्भ्याम् । मूर्धासि राट् मूर्धासि शिरोभूतासि राट् । 'राजृ दीप्तौ' दीप्ता चासि । ध्रुवा स्थिरासि । धरुणा च धारयित्री च धर्त्र्यसि धारयित्री असि । धरणी च विधरणी च । मर्यादाभूता च । एवं त्रिलोकसंस्तवः तिसृणामिष्टकानाम् । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा उपदधामीति शेषः । एतासां चतसृणां वालखिल्यानां मन्त्रस्तवः ॥ २१ ॥
म. 'वालखिल्याः सप्त पुरस्तात्प्राणभृद्भ्यो वापरा द्वादशभ्योऽपरास्तु मूर्धासि राडिति प्रतिमन्त्रम्' (का० १७ । ९ । १०-१३) । प्रागुक्तः दशप्राणभृद्भ्यः पूर्वा अपरा वा सप्त वालखिल्यासंज्ञा इष्टका उपदधाति मूर्धासीत्यादिसप्तमन्त्रैः । तुर्विशेषे । अपराः सप्त वालखिल्यास्तु द्वादशच्छन्दस्याभ्योऽपरा एवोपधेयाः यन्त्रीति सप्तमन्त्रैः । वालमात्रेणापि खिला अभिन्ना इति वालखिल्याः प्राणाः । ते च चतुर्दश सप्त पुरो हस्तौ बाह्र शिरो ग्रीवा नाभेरूर्ध्वभागश्चेति, ऊरू जानुनी पादौ नाभेरधोभागश्चेति सप्त पश्चादधोभागे एतेष्वङ्गेषु प्राणानां विद्यमानत्वात्तानेवोपदधाति । तथाच श्रुतिः 'प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम' ( ८ । | ३ । ४ । १ । ४-५) यद्वा 'उर्वरयोरसंभिन्नं भवति खिल इति वै तदाचक्षते वालमात्रादुहेमे प्राणा असंभिन्नास्ते यद्वालमात्रादसंभिन्नास्तस्माद्वालखिल्याः ॥ १॥ सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणाः ॥ ४॥ सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणा एते वै सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधातीति ॥ ५॥' इति सूत्रार्थः । मूर्धासि अनुष्टुप् गायत्री परोष्णिक् । ऋग्द्वये चतुर्दश यजूंषि वालखिल्यादेवत्यानि । हे इष्टके, त्वं मूर्धा मूर्धवदुत्तमा राट् राजमाना चासि । हे इष्टके, त्वं ध्रुवा स्थिरा धरुणा धारणहेतुश्चासि । हे इष्टके, त्वं धर्त्री धारणं कुर्वती धरणी भूमिरूपा चासि । एवमिष्टकात्रयस्य त्रिलोकरूपत्वम् । तदुक्तं श्रुत्या 'मूर्धासि राडितीमं लोकमरोहन् ध्रुवासि धरणेत्यन्तरिक्षलोकं धर्त्र्यसि धरणीत्यमुं लोकमिति' ( ८ । ३ । ४ । ८)। आयुषे त्वा आयुर्वृद्ध्यर्थं त्वामुपदधामि । वर्चसे कान्त्यर्थं त्वामुपदधामि । कृष्यै सस्यनिष्पत्तये त्वामु० । क्षेमाय संपादितधनरक्षणाय त्वामु० । इष्टकाचतुष्टयस्य पशुसंस्तवः 'आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वेति चत्वारश्चतुष्पादाः पशवः' ( ८ । ३ । ४ । ८ ) इति श्रुतेः ॥२१॥

द्वाविंशी।
यन्त्री॒ राड् य॒न्त्र्य॒सि॒ यम॑नी ध्रु॒वाऽसि॒ धरि॑त्री ।
इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा लो॒कं ता इन्द्र॑म् ।। २२ ।।
उ० परतोऽपि तिसृणां द्युलोकप्रभृतिलोकसंस्तवः । यन्त्री राट् । यमनी दीप्ता चासि । यन्त्री असि । यमनी ध्रुवा असि धरित्री । पशुसंस्तवः पूर्ववत् । इषे त्वोर्जेत्वा रय्यै त्वा पोपाय त्वा । लोकं ता इन्द्रमिति व्याख्यातम् ॥ २२ ॥
म० हे इष्टके, त्वं यन्त्री नियमोपेता राट् राजमाना चासि । तथा यन्त्री स्वयमपि सती यमनी सर्वेषां नियमकारिण्यसि । ध्रुवा स्थिरा सती धरित्री भूमिरूपा चासि । तिसृणां त्रिलोकसंस्तवः ‘यन्त्री राडित्यमुं लोकमरोहन् यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि धरित्रीतीमं लोकमिति' ( ८ । ३।४।