पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ०. विश्वज्योतिषमुपदधाति । विश्वकर्मा त्वा । वायुदेवत्या ॥ १४॥
म० 'विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्याः' ( का० १७ । ९ । ३) प्रथमोपहिताया विश्वज्योतिष उपरि विश्वज्योतिषमिष्टकामुपदधाति । वायुदेवत्यं शक्वरीच्छन्दस्कं यजुः । हे इष्टके, ज्योतिष्मतीं वायुरूपां त्वां विश्वकर्मान्तरिक्षस्य पृष्ठे त्वां सादयतु । 'अन्तरिक्षस्य पृष्ठे ह्ययं ज्योतिष्मान् वायुः' ( ८ । ३ । २ । ३ ) इति श्रुतेः । किंच सर्वप्राणादिलाभाय त्वं सर्वं ज्योतिर्यच्छ प्रयच्छ । वायुः तवाधिपतिः तया देवतया ध्रुवा सती सीद अङ्गिरसां चिताविव ॥ १४ ॥

पञ्चदशी।
नभ॑श्च नभ॒स्य॒श्च॒ वार्षि॑कावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। वार्षि॑कावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। १५ ।।
म०. 'ऋतव्ये नभश्च नभस्यश्चेति' ( का० १७ । ९ । ४) पूर्वर्तव्ययोरुपरि द्वे ऋतव्ये उपदधाति । ऋतुदैवत्यमुत्कृतिच्छन्दस्कं यजुः । नभः श्रावणः । नभस्यो भाद्रपदः । शेषं व्याख्यातम् ( अ० १३ क० २५ ) ॥ १५ ॥

षोडशी।
इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्याय॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। शा॒र॒दावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। १६ ।।
उ० ऋतव्या नभस्वद्देवत्या ॥ १६ ॥
म० 'इषश्चोर्जश्चेत्यपरे' ( का० १७ । ९ । ५)। अपरे ऋतव्ये पूर्वयोरुपरि दधाति । ऋतव्यमुत्कृतियजुः । इषः आश्विनः ऊर्जः कार्तिकः शरदवयवौ । शिष्टं प्रोक्तम् ( अ.. १३ क० २५) ॥ १६ ॥

सप्तदशी।
आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒
श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वात्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ।। १७ ।।
उ० दश प्राणभृतः । आयुर्मे पाहि गोपाय । वाचं मे पिन्व त्रयीलक्षणां वाचं मे मम पिन्व सिंच कामैः पूरय । मनो मे जिन्व । जिन्वतिः प्रीतिकर्मा । ज्योतिर्मे यच्छ देहि । सुखबोध्यमन्यत् ॥ १७ ॥
म० 'पूर्वार्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम्' ( का० १७ । ९ । ६ ) आत्मनः पूर्वभागे प्राणभृत्संज्ञा दशेष्टका उपदधातीति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवत्यानि । हे इष्टके, मे ममायुः त्वं पाहि रक्ष । एवं प्राणमपानं व्यानं चक्षुः श्रोत्रं मे रक्ष । मे वाचं पिन्व सिञ्च कामैः पूरय । मे मनो जिन्व प्रीणय । ममात्मानं जीवं पाहि मह्यं ज्योतिस्तेजो यच्छ ॥ १७ ॥

अष्टादशी।
मा छन्द॑: प्र॒मा छन्द॑: प्र॑ति॒मा छन्दो॑ अस्रीवय॒श्छन्द॑: प॒ङ्क्तिश्छन्द॑ उ॒ष्णिक् छन्दो॑
बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गा॑य॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्द॑: ।। १८ ।।
उ० षट्त्रिंशच्छन्दस्य उपदधाति । मा छन्दः । अयं लोकोमित इव मा छन्दः छादनात् । प्रमा छन्दः । अन्तरिक्षलोको वै प्रमा । अन्तरिक्षलोकः अस्माल्लोकात्प्रमित इव दृश्यते । प्रतिमा छन्दः द्यौः प्रतिमा सा हि अन्तरिक्षलोके प्रतिमिता । अस्रीवयः छन्दः अन्नमस्रीवयः । यदेभ्यो लोकेभ्य आहुतिपरिणामभूतमन्नं स्रवति तदस्रीवयः । परतो निरुक्तानि छन्दांसि पङ्क्तिप्रभृतीनि ॥ १८ ॥
म० 'छन्दस्या द्वादश द्वादशाप्ययेषु मा छन्द' (का० १७ । | ९ । ८ ) इति । अप्ययेषु पक्षपुच्छात्मसन्धिषु त्रिषु द्वादश द्वादश छन्दस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । षट्त्रिंशद्यजूंषि लिङ्गोक्तदेवत्यानि । मीयत इति मा मितश्छादनाच्छन्दोऽयं लोकः । हे इष्टके, त्वं तद्रूपासि । 'अयं वै लोको मायं लोको मित इव' (८ । ३ । ३ । ५) इति श्रुतेः । अस्माल्लोकात्प्रमीयत | इति प्रमान्तरिक्षलोकरूपासि । 'अन्तरिक्षलोको वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव' (८ । ३ । ३ । ५) इति श्रुतेः। प्रतिमा द्यौः सा ह्यन्तरिक्षे प्रतिमिता । 'असौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवेति' (८ । ३ । ३ । ५) श्रुतेः । अस्रीवयः अस्यते क्षिप्यत इत्यस्रि अस्रि पतनशीलं वयोऽन्नं यस्मात्तदस्रिवयः । दीर्घश्छान्दसः । अस्रीवयः लोकत्रयरूपं छादनाच्छन्दस्तद्रूपासि । 'यदेषु लोकेष्वन्नं तदस्रीवयोथो यदेभ्यो लोकेभ्योऽन्नᳪ स्रवति तदस्रीवय' (८ । ३ । ३ । ५)