पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पशुर्दित्यवाट् विराट्छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं वयसाग्रहीत् । 'दित्यवाहं वयसाप्नोद्विराट् छन्द इति विराड् भूत्वा दित्यवाह उच्च०' इति । पञ्चाविः पञ्चावयो यस्य सः सार्धद्विवर्षः पशुः गायत्री भूत्वोत्राट्न्तं पञ्चाविं पशुमग्रहीत् । 'पञ्चाविं वयसाप्नोद्गायत्री छन्द इति गायत्री ह भूत्वा पञ्चावय उच्च०' इति । त्रिवत्सः त्रयो वत्साः वत्सराः यस्य सः त्रिवत्सः पशुः उष्णिक् छन्दो भूत्वोत्क्रान्तं त्रिवत्सं जग्राह । 'त्रिवत्सं वयसाप्नोदुष्णिक् छन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा उच्च०' इति । तुर्यवाट् तुर्यं चतुर्थं वर्षं वहतीति चतुर्वर्षः पशुः अनुष्टुप् छन्दो भूत्वोत्क्रान्तं तुर्यवाहं पशुं प्रजापतिर्वयसाग्रहीत् । 'तुर्यवाहं वयसाप्नोदनुष्टुप् छन्द इत्यनुष्टुब् ह भूत्वा तुर्यवाह उच्चक्रमुः' (८। २।४।१५) इति श्रुतेः । एवं श्रुत्यनुसारेण मन्त्रा व्याख्याताः । 'दक्षिणश्रोणेरधि लोकंपृणाः पूर्ववत्' (का० १७। ८ । २४)। दक्षिणश्रोणिमारभ्य लोकंपृणा उपदधाति ( १२, ५४ । ५५ । ५६) पुरीषनिर्वापः सप्तर्चोपस्थानं चेति सूत्रार्थः ॥ १० ॥
इति द्वितीया चितिः संपूर्णा ॥

एकादशी।
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृᳪहतं यु॒वम् ।
पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ विबा॑धसे ।। ११ ।।
उ० तृतीयां चितिमिन्द्राग्नी विश्वकर्मा नापश्यत् । तत्र स्वयमातृण्णा प्रथमा । इन्द्राग्नी अव्यथमानाम् । अनुष्टप् । पूर्वोऽर्धर्च ऐन्द्राग्नः उत्तरः स्वयमातृण्णायाः । तत्रोत्तरोऽर्धर्चः पूर्वं व्याख्यायते । तत्र विबाधत इति पुरुषव्यत्ययः। येयं पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधते अभिभवति तामिन्द्राग्नी अव्यथमानां अचलन्तीमिष्टकां दृंहतं दृढीकुरुतम् । युवं युवाम् ॥ ११ ॥
म० अथ तृतीया चितिः । इन्द्राग्नी विश्वकर्मा च तन्मन्त्राणामृषिः । 'तृतीयायाᳪस्वयमातृण्णामिन्द्राग्नी इति मध्ये' (का० १७ । ८ । २५) । तृतीयायां चितावात्मनो मध्ये स्वयमातृण्णामुपदधाति । अनुष्टुप् पूर्वोऽर्धर्च इन्द्राग्निदेवत्यः उत्तरः स्वयमातृण्णादेवतः । हे इन्द्राग्नी, युवं युवामव्यथमानामचलन्तीं भङ्गरहितामिष्टकां स्वयमातृण्णाख्यां दृढीकुरुतम् । एवमिन्द्राग्नी प्रत्युक्त्वा इष्टकामाह । हे स्वयमातृण्णे, पृष्ठेन स्वोपरिभागेन द्यावापृथिवी अन्तरिक्षं च त्वं विबाधसे अभिभवसि लोकत्रयमत्येषि ॥ ११ ॥

द्वादशी।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृᳪहा॒न्तरि॑क्षं॒ मा हि॑ᳪसीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । वा॒युष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। १२ ।।
उ० विश्वकर्मा त्वा प्रजापतिः सादयतु इत्यादि पूर्ववद्व्याख्येयम् । अन्तरिक्षस्य पृष्ठेनायुष्ट्वा इति विशेषः ॥१२॥
म० वायुदेवत्यं विकृतिच्छन्दस्कं यजुः स्वयमातृण्णोपधाने एव विनियुक्तम् । हे स्वयमातृण्णे, विश्वकर्मा प्रजापतिरन्तरिक्षस्य पृष्ठे उपरि त्वा त्वां सादयतु स्थापयतु । किंभूतां त्वाम् । व्यचस्वतीमभिव्यक्तियुक्ताम् । प्रथस्वतीं प्रथनं प्रथो विस्तारस्तद्युक्ताम् । हे इष्टके, त्वमन्तरिक्षं यच्छ गन्धर्वाप्सरोगणादिधारकतया नियमय । अन्तरिक्षं दृंह परोपद्रवाभावेन दृढीकुरु । तदन्तरिक्षं मा हिंसीः । किमर्थम् । विश्वस्मै सर्वस्मै प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै स्वगृहस्थित्यै चरित्राय शास्त्रीयाचरणाय । प्राणिनामेतत्सर्वं लोकदार्ढ्ये सति भवतीति नभोनियमनादि प्रार्थ्यत इति भावः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनातिशुभकारिणा छर्दिषा तेजोविशेषेण च कृत्वा वायुः त्वा त्वामभिपातु सर्वतो रक्षतु । तवाधिष्ठात्री या देवता तया देवतयानुगृहीता ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वत् अङ्गिरसां चयनानुष्ठाने यथा त्वं ध्रुवा स्थिता तद्वत् ॥ १२ ॥

त्रयोदशी।
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि॒ दक्षि॑णा॒ दिक् स॒म्राड॑सि प्र॒तीची॒ दिक् स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ।। १३ ।।
उ० शतम् ७०० पञ्च दिश्या उपदधाति । वायुरपश्यत् राज्ञ्यसीति प्रतिमन्त्रम् ॥ १३ ॥
म० 'अनूकेषु पञ्च दिश्या वैश्वदेवीवद्राज्ञ्यसीति प्रतिमन्त्रम्' ( का० १७ । ८ । २६) । वैश्वदेवीवदिति प्रतिदिशं रेतःसिग्वेलायामनूकेषु पञ्च दिश्यासंज्ञका इष्टका उपदधाति पञ्चमीं दक्षिणामुत्तरेणेति सूत्रार्थः । दिक्शब्दोपेतत्वान्मन्त्राणां दिश्या इष्टकाः । दिग्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वं राज्ञी राजमाना सती प्राची दिक् पूर्वा दिग्भवसि गायत्रीरूपासि । | विराट् विविधं राजमाना दक्षिणा दिक् असि । त्रिष्टुब्रूपासि । सम्राट् सम्यग्राजमाना प्रतीची दिक् जगत्यसि । स्वराट् परनिरपेक्षं स्वयमेव राजमाना सती उदीची दिगनुष्टुबसि । अधिकं पातीत्यधिपत्नी बृहती प्रौढोर्ध्वा दिक् पङ्क्तिरसि । दिक्छन्दोरूपां तां त्वां सादयामीति सर्वत्र शेषः । 'छन्दाᳪसि वै दिशो गायत्री वै प्राची दिक् त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वेति' (८।३ । १ । १४) श्रुतेः ॥१३॥

चतुर्दशी।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। १४ ।।