पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्तरपश्चिमेष्वनूकान्तेषु पञ्च-पञ्च पूर्वे तु चतस्रो वयस्यासंज्ञका इष्टका उपदधात्येकोनविंशतिमन्त्रैरित्यर्थः । एकोनविंशतिर्यजूंषि लिङ्गोक्तदेवतानि । वयःशब्दोपेतमन्त्रैरुपधेया इष्टकाः । अत्र श्रुत्युक्तं निदानम् । पुरा सृष्टवतः प्रजापतेर्व्याकुलात्सकाशात् सृष्टाः पशवश्छन्दोरूपमास्थाय निरगच्छन् । ततः प्रजापतिरपि गायत्र्यादिच्छन्दोरूपं स्वीकृत्य पशुसंबन्धिन्या तत्तद्वयोवस्थया तान्पशूनाप्नोत्तदभिधायका मन्त्राः । 'प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्छन्दाᳪसि भूत्वा तान्गायत्री छन्दो भूत्वा वयमाप्नोत्' (८ । २ । ३ । ९) इति श्रुतेः। तत्रादौ चतुर्भिर्मन्त्रैः प्रजापतेरष्टावयवात्मकं गायत्रीरूपं परिकल्प्यते । मूर्धाप्रधानः प्रजापतिश्छन्दो गायत्रीरूपो भूत्वा वयः । विभक्तिव्यत्ययः । वयसा कृत्वा पशूनाप्नोदिति शेषः । तद्रूपां त्वामिष्टके उपदधामीति सर्वत्र शेषः । अनेन मन्त्रेण प्रजापतेर्द्वावयवौ कल्पितौ। 'प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव छन्दोऽभवत्' (८।२।३।१०) इति श्रुतेः । क्षतात्त्रायत इति क्षत्रं तादृशं वयः शरीरावस्था प्रजापतिरभवत् । मयं सुखं ददातीति मयन्दमनिरुक्तं छन्दोऽभवत् । क्षत्त्रं वय इति प्रजापतिर्वै क्षत्रᳪस वयोऽभवन्मयन्दं छन्द इति । यद्वा 'अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव छन्दोऽभवत्' (८।२।३ । ११) इति श्रुतेः । अधिपतिः अधिकं पालकः विष्टभ्नोति जगत्स्तम्भयतीति विष्टम्भः ईदृशः प्रजापतिः वयस्तत्पशुवयोऽवस्थावान् छन्दश्चाभवत् । 'प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव छन्दोऽभवत्' (८ । २ । ३ । १२) इति श्रुतेः । परमे पदे तिष्ठतीति परमेष्ठी विश्वकर्मा सर्वस्रष्टा प्रजापतिर्वयश्छन्दश्चाभवत् । 'प्रजापतिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत्' (८।२।। ३ । १३) इति श्रुतेः । एवं प्रतिमन्त्रं द्वौ द्वाववयवावित्यष्टावयवः प्रजापतिर्गायत्रीरूपः परिकल्पितः । तथा चाष्टसंख्योपेतत्वात्सर्वच्छन्दःप्रकृतिभूतं गायत्रीछन्दो भूत्वा वयसा । तृतीयाया लुक् । वयोऽवस्थया वक्ष्यमाणान् पञ्चदश पशून् प्रजापतिरगृह्णात् । 'तानि वा एतानि चत्वारि वयाᳪसि चत्वारि छन्दाᳪसि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत् (८।२।३ । १४) इति श्रुतेः । बस्तः अजः । द्वितीयैकवचनस्य सुपां स्विति सुआदेशः । वय इति तृतीयालुक् । विवलं वरमुत्कृष्टं छन्दः एकपदाख्यं छन्दो भूत्वोत्क्रान्तं बस्तं पशुं वयसा तत्तद्वयोवस्थया जग्राह । एवमुत्तरमन्त्रेष्वपि विभक्तिविपरिणामं कृत्वा तत्तच्छन्दोरूपमास्थाय प्रजापतिस्तत्तद्वयसा तं तं पशुं गृहीतवानिति योज्यम् । विशेषस्तु वक्ष्यते । 'वस्तो वय इति वस्तं वयसाप्नोद्विवलं छन्द इत्येकपदा विवलं छन्द एकपदा ह भूत्वाजा उच्चक्रमुः' (८ । २ । ४ । १) इति श्रुतेः । विशालं द्विपदागायत्रीरूपं छन्दो भूत्वा वृष्णिं सेचनसमर्थं मेषं वयसा जग्राह । 'वृष्णिं वयसाप्नोद्विशालं छन्दः इति द्विपदा वै विशालं छन्दो द्विपदा ह भूत्वा वय उच्चक्रमुः' (८।२।४। २) इति श्रुतेः । तन्द्रं पङ्क्तिश्छन्दो भूत्वोत्रा दन्तं पुरुषं पशुं "वयसाप्नोत् । 'पुरुषं वयसाप्नोत्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः' (८।२।४ । ३) इति श्रुतेः । अनाधृष्टं विराट्छन्दो भूत्वोत्रातिन्तं व्याघ्रं पशुं वयसाऽग्रहीत् 'व्याघ्रं वयसाप्नोदनाधृष्टं छन्द इति विराड्वा छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराड्भूत्वा व्याघ्रा उच्च०' (८।२।४ । ४ । ८) । छादयतीति छदिरतिच्छन्दाछन्दो भूत्वोत्रा' न्तं सिंहं पशुं वयसाग्रहीत् । “ सिᳪहं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि छन्दाᳪसि छादयत्यतिच्छन्दा ह भूत्वा सिᳪहा उच्च०' इति 'अथातो निरुक्तानेव पशून्निरुक्तानि छन्दाᳪस्युपदधाति' इति श्रुतेः स्पष्टानि छन्दांसि दशोच्यन्ते । पष्ठे पृष्ठभागे वहतीति पष्ठवाट् पञ्चवर्षः पशुः बृहती छन्दो भूत्वोत्रातिन्तं पष्ठवाहं पशुं वयसाग्रहीत् । 'पष्ठवाहं वयसाप्नोद्बृहतीच्छन्द इति बृहती ह भूत्वा पष्ठवाह उच्च०' इति । उक्षा सेचनसमर्थः पशुः । आद्यन्तावष्टाक्षरौ पादौ मध्यमो द्वादशाक्षरः सा ककुप् ककुप्छन्दो भूत्वोत्क्रान्तमुक्षाणं पशुं वयसाग्रहीत् । 'उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भूत्वोक्षाण उच्च०' इति । वृषभः सेचनसमर्थोऽनड्वान् । द्वादशाक्षरत्रिपादा सतोबृहती सा भूत्वोत्क्रान्तमृषभं वयसाग्रहीत् । ऋषभं वयसाप्नोत्सतोबृहतीछन्द इति सतोबृहती भूत्वर्षभा उच्च०' इति ॥ ९ ॥

दशमी।
अ॒न॒ड्वान्वय॑: प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट् छन्द॒: पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिक् छन्द॑ऽ स्तु॑र्य॒वाड्वयो॑ऽनु॒ष्टुप् छन्दो॑ लो॒कं ता इन्द्र॑म् ।। १ ०।।
म० अनः शकटं वहतीत्यनड्वान्बलीवर्दः पङ्क्तिश्छन्दो भूत्वोत्क्रान्तमनड्वाहं पशुं वयसाग्रहीत् । अनड्वाहं पशुं वयसाग्रहीत् । | अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह उच्च०'(८ । २ । ४ । ९-१५) धेनुः नवप्रसूता सवत्सा गौः जगती छन्दो भूत्वोत्रा्पन्ता धेनुं वयसाग्रहीत् । 'धेनुं वयसाप्नोज्जगती छन्द इति जगती ह भूत्वा धेनव उच्च०' इति । षण्मासात्मकः कालोऽविः तिस्रोऽवयोऽस्य त्र्यविः अष्टादशमासः पशुः त्रिष्टुप्छन्दो भूत्वोत्क्रान्तं त्र्यविं पशुं वयसाग्रहीत् त्र्यविं पशुं वयसाग्रहीत् । 'त्र्यविं वयसाप्नोत्त्रिष्टुप् छन्द इति त्रिष्टुब् ह भूत्वा त्र्ययव उच्च०' इति । 'दोऽवखण्डने' क्तिन्प्रत्ययः । दितिं खण्डनमर्हति दित्यं धान्यं वहति दित्यवाट् । यद्वा द्विवर्षः