पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयचितौ सादयताम् । किमर्थम् । वैश्वानराय विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितायाग्नयेऽग्नितृप्तये । अग्नये त्वेति त्वाशब्दो या इति प्रथमार्थे । प्रातिपदिकसुपोर्व्यत्ययः । तां काम् , या त्वमृतुभिः सजूः जोषणं जुट् प्रीतिः 'जुषी प्रीतिसेवनयोः' संपदादित्वाद्भावे क्विप् । समाना जूः प्रीतिर्यस्याः सा सजूः 'समानस्य छन्दस्यमूर्ध-' (पा० ६ । ३ । ८४ ) इति समानस्य सादेशः। वसन्तादिभिर्या त्वं प्रीतिमती । तथाविधाभिः या त्वम् सजू: असि विदधति सृजन्ति जगदिति विधा आपस्ताभिः । 'आपो वै विधा अद्भिर्हीदᳪ सर्वं विहितम्' (८ । २ । २ । ८) इति श्रुतेः । 'अप एव ससर्जादौ' ( मनुः १ । ८ ) इति स्मृतेश्च । तथा देवैरिन्द्रादिभिश्च सजूः तथा वयो बाल्यादि नह्यन्ति बध्नन्ति ते वयोनाधाः प्राणा देवा दीप्यमानास्तैश्च सजूः । 'प्राणा वै वयोनाधाः प्राणैर्हीदᳪ सर्वं वयुनं नद्धम्' ( ८।२।२ । ८) इति श्रुतेः । यद्वा वयोनाधैर्देवैश्छन्दोभिः सजूः । 'अथो छन्दाᳪसि वे देवा वयोनाधाश्छन्दोभिर्हीदᳪ सर्वं वयुनं नद्धम् ( ८ । २ । २।८) इति श्रुतेः । एवमुत्तरमन्त्रेष्वपि । यद्वा ऋतुदेवप्राणान् जनयित्वा तैः सजूः सयुग्भूत्वा प्रजापतिर्यथा त्वामुपहितवानेवमहमप्यग्नये त्वामुपदधामीति शेषः । अश्विनौ चेह त्वां सादयताम् 'तदृतून प्राजनयदृतुभिर्वै सयुग्भूत्वा' ( ८ । २ । २ । ८) इति श्रुतेः । उत्तरचतुर्मन्त्रेषु वसुभिः रुद्रैः आदित्यैर्विश्वैर्देवैः सजूरिति विशेषः । शेषं पूर्वतुल्यम् ॥ ७ ॥

अष्टमी।
प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्रं॑ मे श्लोकय ।
अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व चतु॑ष्पात् पाहि दि॒वो वृष्टि॒मेर॑य ।। ८ ।।
उ० प्राणभृत उपदधाति । प्राणं मे पाहि गोपाय । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर्म उर्व्या विभाहि विभावय। श्रोत्रं मे मम श्लोकय । श्लोक इति वाग्नामसु पठितम् श्लोकं पाहि श्रोत्रं कुरु । अपस्या उपदधाति । अपः पिन्व । पिन्वतिः सेचनार्थः । ओषधीर्जिन्त्र । जिन्वतिः प्रीतिकर्मा । द्विपादवद्द्विपादमिति विभक्तिव्यत्ययः । अव गोपाय । चतुष्पात्पाहि चतुष्पादं गोपाय । दिवो वृष्टिमेरय द्युलोकाद्वृष्टिं आईरय आगमय ॥ ८॥
म० 'प्राणभृतः प्राणं म इति' ( का० १७ । ८ । २०) पञ्चयजुर्भिः प्राणभृत्संज्ञका इष्टकाः पूर्वादिषूपदधाति । पञ्च वायुदेवत्यानि यजूंषि । 'प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति' (८।२।३ । २) इति श्रुतेः । हे इष्टके, त्वं मे मम प्राणं प्राणरूपं वायुं पाहि पालय । एवमपानं मम पाहि । व्यानं वायुं च मे मम पाहि । उर्व्या विस्तीर्णया दृष्ट्या मे चक्षुर्विभाहि विशेषेण प्रकाशय । दर्शनसमर्थं कुर्वित्यर्थः । मम श्रोत्रं कर्णेन्द्रियं श्लोकय सङ्घाते शक्तं कुरु । 'श्लोकृ सङ्घाते' बहुशब्दश्रवणसमर्थं कुर्वित्यर्थः । 'अपः पिन्वेत्यपस्याः' ( का. १७ । ८ । २१) । पञ्चमन्त्रैरपस्यासंज्ञा इष्टका उपदधाति । अब्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वमपो जलानि पिन्व सिञ्च । पिन्वतिः सेचनार्थः । ओषधीर्जिन्व प्रीणय । जिन्वतिः प्रीतिकर्मा । द्विपान्मनुष्यशरीरमव रक्ष । चतुष्पात्पशुशरीरं पाहि पालय । दिवो द्युलोकाद्वृष्टिमेरय आ समन्तात्प्रवर्तय ॥८॥

नवमी।
मू॒र्धा वय॑: प्र॒जाप॑ति॒श्छन्द॑: क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑
वि॒श्वक॑र्मा॒ वय॑: परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्द॒:
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्द॑: सि॒ᳪहो वय॑श्छ॒दिश्छन्द॑: पष्ठ॒वाड्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑: क॒कुप् छन्द॑ ऋष॒भो वय॑: स॒तोबृ॑हती॒ छन्द॑: ।। ९ ।।
उ० पयस्या उपदधाति । अत्र श्रुत्युक्तं निदानम् । प्रजापतेर्विश्रस्तात्पशव उदक्रामन् छन्दांसि भूत्वा तान् गायत्री भूत्वा वयसाप्नोत्प्रजापतिः । मूर्धावयः प्रजापतिश्छन्दः चतुर्भिर्मन्त्रैर्गायत्रीरूपः प्रजापतिः कल्प्यते। मूर्धा प्रजापतिप्राधान्यात् । वयः शरीरावस्था । प्रजापतिः स्वयमेव छन्दः । क्षत्रं वयः प्रजापतिर्वै क्षत्रं वयोभवत् । मयन्दच्छन्दः अनिरुक्तत्वात्प्रजापतिः । मयं सुखं ददातीति मयन्दः । विष्टम्भो वयः । प्रजापतिर्विष्टम्भः । सहीदं सर्वं विष्टभ्नोति । अधिपतिश्छन्दः । प्रजापतिर्वा अधिपतिः । विश्वकर्मा वयः प्रजापतिर्वै विश्वकर्मा परमेष्ठीछन्दः । आपो वै प्रजापतिः परमेष्ठी । अयमष्टावयवो गायत्रीरूपः प्रजापतिः पञ्चदशवक्ष्यमाणान्पशून्गृह्णाति । वयसा वयोवस्थया जरया। । 'अस्माज्जीर्णं पशुं वयसाप्त' इति श्रुतिः । वस्तो वयो विवलं छन्दः। वस्तः पशुः विवलं छन्दोरूपमाश्रित्योदकामत् तं प्रजापतिर्गायत्रीरूपो वयसाप्नोत् एकपदा वै विवलं छन्दः तद्विविधं वरमुत्कृष्टं पुरुषसंबन्धि हि तच्छन्दः । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वृष्णिर्वयो विशालंछन्दः । वृष्णिं मेषं वयसा विवलं विशालं द्विपदाछन्द आप्नोति । पुरुषो वयस्तन्द्रं छन्दः । तन्द्रं छन्दः पङ्क्तिः । व्याघ्रो वयोनाष्टंछन्दः विराड्वा अनाधृष्टं छन्दः । सिंहो वयः छदिश् छन्दः । अतिछन्दा वै छदिश्छन्दः । अथातो निरुक्तानिव पशून्निरुक्तानि छन्दांस्यभिदधाति पृष्ठवाड् वय इत्यादिदश निगदव्याख्याताः ॥ ९ ॥
म०. 'वयस्याः पञ्च पञ्चानूकान्तेषु मूर्धा वय इति प्रतिमन्त्रं चतस्रः पुरस्तात्' ( का० १७ । ८ । २२) । दक्षिणो