पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयतृतीयौ दशार्णौ पादौ यदा तदा पङ्क्तिरेव । तृतीयचतुर्थी दशार्णौ यदा तदा विराट्स्थाना त्रिष्टुप् । द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानेत्युक्तेः । अथ मन्त्रार्थः । हे नृपते नृणां पालक हे अग्ने, त्वं द्युभिरहोभिर्निमित्तभूतैर्मथ्यमानो जायसे। प्रतिदिनं मथ्यस इत्यर्थः । यद्वा द्युभिः स्वर्गैः निमित्तभूतैस्तत्र तत्र यागशालासु जायसे । त्वमाशुशुक्षणिः आर्द्रा भूमिं शीघ्रमेव शोषयित्वा, यद्वा आशु क्षिप्रं शुचा दीप्त्या क्षणोति हन्ति तमः, सनोति संभजते वा आशुशुक्षणिः । त्वमद्भ्यो वर्षधाराभ्यो विद्युदात्मना जायसे । त्वमश्मनः परि पाषाणस्योपरि पाषाणान्तरसङ्घटनेन जायसे । त्वं वनस्पतिभ्योऽरणिकाष्ठेभ्यो जायसे । त्वमोषधिभ्यो वंशादिभ्यो जायसे वंशद्वयसङ्घर्षणेन । त्वं नृणां मनुष्याणामग्निहोत्रिणां गृहे जायसे । 'पुत्रो ह्येष सन् स पुनः पिता भवति' इति श्रुतेः । किंभूतस्त्वम् । शुचिः शुद्धिहेतुः । 'पुनः पाकान्महीमयम्' इति स्मृतेः ॥ २७ ॥

अष्टाविंशी
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामि ।
ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् ।
शि॒वं प्र॒जाभ्योऽहि॑ᳪसन्तं पृथि॒व्या: स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामः ।। २८ ।।
उ० खनति । देवस्य त्वा । व्याख्यातम् । पृथिव्याः सहस्थानात् अग्निं पशव्यम् अङ्गिरसा तुल्यं खनामि । ज्योतिष्मन्तं ज्योतिषा संयुक्तं त्वां हे अग्ने, सुप्रतीकं सुमुखम् अजस्रेण अनुपक्षीणेन भानुना दीप्त्या दीद्यतं दीप्यमानम् शिवं प्रजाभ्यः शान्तं प्रजाभ्यः अहिंसन्तं प्राणिनः पृथिव्याः सहस्थानादपि । अग्निं पशव्यम् अङ्गिरसा तुल्यं खनामः २८
म० 'अभ्याभ् पिण्डं खनति देवस्य त्वेति' ( का० १६ । २। २३ ) अभ्र्या कृत्वा पिण्डं परितः खनति कण्डिकया। देवस्य त्वा व्याख्यातम् । पृथिव्याः आग्नेयं यजुः अत्यष्टिच्छन्दः । अहं पृथिव्याः सधस्थादुपरिप्रदेशात् पुरीष्यं पशव्यमग्निमङ्गिरस इव खनामि । कीदृशमग्निम् । ज्योतिष्मन्तं ज्वालायुक्तम् । हे अमे, ईदृशं खां पृथिव्याः सहस्थानात् अङ्गिरस इव वयं खनामः । कीदृशम् । सुप्रतीकं सुमुखम् । अजस्रेणानुपक्षीणेन निरन्तरं वर्तमानेन भानुना रश्मिना दीद्यतं दीप्यमानम् । छान्दसो धातुः । प्रजाभ्यः प्रजोपकारार्थं शिवं शान्तमत एवाहिंसन्तं हिंसामकुर्वन्तम् । पुनरुक्तिरादरार्था ॥ २८ ॥

एकोनत्रिंशी।
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।। २९ ।।
उ० पुष्करपर्णं कृष्णाजिनोपरिष्टात्स्थापयति । अपां पृष्ठम्। स्वराट् पङ्क्तिः । यतः अपां पृष्ठमसि उपर्यवस्थानात् । योनिः स्थानं च अग्नेः अग्न्यर्थस्य पिण्डस्य । अतस्त्वां ब्रवीमि । समुद्रमभितः पिन्वमानम् । उपपदविभक्तिर्द्वितीया । समुद्रस्योदकस्य इतश्चेतश्च सिञ्चतः । त्वं वर्धमानो महान् भव । आ च पुष्करे आसीद च पुष्करे उदके । स हि तस्य योनिः । आकारः आकृष्य व्याख्यातः । चकारो भिन्नक्रमः । विमार्ष्टि एनं चतुर्थेन पादेन । दिवो मात्रया द्युलोकस्य परिमाणेन । वरिम्णा उरुत्वेन च प्रथस्व वर्धस्व ॥ २९ ॥
म० 'कृष्णजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति' (का० ६ । २ । २४) । अस्यार्थः । मृत्पिण्डोत्तरभागे प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्रापां पृष्ठमिति पादत्रयात्मकमन्त्रेण कमलिनीपत्रमास्तृणाति । पुष्करपर्णदेवत्या स्वराट्पङ्क्तिः । आद्यौ दशकावन्त्यावेकादशकाविति द्व्यक्षराधिका पङ्क्तिः स्वराट्पङ्क्तिः । द्वाभ्यां विराडित्युक्तेः । अथ मन्त्रार्थः । हे पुष्करपर्ण, त्वमपां जलानां पृष्ठमसि उपर्यवस्थानात् । अग्नेः अग्न्यर्थस्य पिण्डस्य योनिः कारणमसि । समुद्रमभितः उदकस्य परितः पिन्वमानं प्रीतिकरम् । यद्वा पिन्वमानमिति समुद्रविशेषणम् । पिन्वमानं सिञ्चन्तं समुद्रमुदकमभितः वर्धमानं सत् महत् प्रभूतं भवेति शेषः । वर्धमानो महानिति लिङ्गव्यत्ययश्छान्दसः । पुष्करे जले आसीद च । यद्वा पुष्करे आ समन्तात् महत् प्रभूतं सत् वर्धमानं वृद्धियुक्तं त्वमसि । 'विमार्ष्ट्येनद्दिव इति' (का० १६ । २ । २५)। एनत्पुष्करपर्णं विपुलं करोति । हे पुष्करपर्ण, दिवो मात्रया द्युलोकस्य परिमाणेन वरिम्णा उरुत्वेन त्वं प्रथस्व विस्तृतं भव । उरोर्भावो वरिमा तेन 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेश इमनि ॥ २९ ॥

त्रिंशी।
शर्म॑ च स्थो॒ वर्म॑ च॒ स्थोऽच्छि॑द्रे बहु॒ले उ॒भे ।
व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॒म् ।। ३० ।।
उ० उभे कृष्णाजिनपुष्करपर्णे अभिमृशति अनुष्टुब्भ्याम् । शर्म च स्थः यौ युवां शरणं च भवथः संहननं च । अच्छिद्रे सकले बहुले महाप्राणे च । उभे अपि ते युवां ब्रवीमि । व्यचस्वती अवकाशवती भूत्वा संवसाथाम् आच्छादयतम् । आच्छाद्य च भृतं बिभृतम् । अग्निं पुरीष्यं पशव्यम् ॥३०॥
म० 'आलभत उभे शर्म च स्थ इति' ( का० १६ । २ । २३)। ऋगद्वयेन कृष्णाजिनपुष्करपर्णे सहैव स्पृशेदिति सूत्रार्थः । कृष्णाजिनपुष्करपर्णदेवत्ये द्वे अनुष्टभौ । हे कृष्णाजिनपुष्करपर्णे, उभे युवां शं च स्थः अग्नेः सुखकारिणी अपि भवथः । वर्म च स्थः कवचवद्रक्षके अपि भवथः । चौ समुच्चये। कीदृशे युवाम् । अच्छिद्रे छिद्ररहिते सकले बहुले विस्तीर्णे व्यचस्वती व्यचनं व्यचः असुन्प्रत्ययः । तद्वती अवकाशवती । तथाविधे