पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चित्तेन तत् घृतं जुषेत जुषतां सेवताम् । प्रार्थनायां लिङ् । कीदृशोऽग्निः । मर्यश्रीः मर्यैर्मनुष्यैः श्रीयते आश्रीयते सेव्यते इति मर्यश्रीः मनुष्यैराश्रयणीयः । स्पृहयद्वर्णः स्पृहयन् स्पृहणीयो वर्णो रूपं यस्य । यजमानैः स्पृहणीयरूप इत्यर्थः । अभिमृश्यत इत्यभिमृट् न अभिमृश्यते नाभिमृट् तस्यै नाभिमृशे । चतुर्थी तृतीयार्थे । तनोर्विशेषणम् । नाभिमृशा अभिमर्शनं कर्तुमयोग्यया दाहकत्वात् ईदृश्या तन्वा शरीरेण ज्वालालक्षणेन जर्भुराणः जृम्भत इति जर्भुराणः 'जभिजृभी गात्रविनामे' इतस्ततश्च गच्छन् जृभेरौणादिक उराणप्रत्ययः । ईदृशमग्निमाजिघर्मीति योज्यम् ॥ २४ ॥

पञ्चविंशी ।
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ।। २५ ।।
उ० परिलिखति । तिसृभिराग्नेयीभिर्गायत्र्यनुष्टुब्जगतीभिः । परि वाजपतिः अग्निः । नानादेवत्यान्यपि हव्यानि हवींषि परि अक्रमीत् । परिक्रमणं भक्षणार्थम् । वाजपतिः अन्नस्य पतिः। कविः क्रान्तदर्शनः । किं कुर्वन्हवींष्यक्रमीत् । दधत् ददत् । रत्नानि रमणीयानि धनानि । दाशुषे हवींषि दत्तवते यजमानाय ॥ २५ ॥
म० 'अभ्र्या पिण्डं त्रिः परिलिखति परिवाजपतिरिति बहिर्बहिरुत्तरयोत्तरयेति' (का० १६ । २ । २३)। अस्यार्थः । अभ्र्या वारत्रयं मृत्पिण्डं परिलिखति परया परया बहिर्बहिःप्रदेशे यथा तथा । परि वाजपतिरिति प्रथमं लिखति परित्वेति तद्बहिर्द्वितीयं त्वमग्न इति तद्बहिस्तृतीयमित्यर्थः । आग्नेयी गायत्री सोमकदृष्टा । अयमग्निर्हव्यानि नानादेवत्यानि हवींषि पर्यक्रमीत् परिक्रान्तवान् । परिक्रमणं भक्षणार्थ स्वीकरणमित्यर्थः । कीदृशोऽग्निः । वाजपतिः वाजस्यान्नस्य पतिः पालयिता । कविः क्रान्तदर्शनः । किं कुर्वन् हव्यानि पर्यक्रमीत् । दाशुषे हवींषि दत्तवते यजमानाय रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् । 'दाशृ दाने' अस्य धातोः 'दाश्वान्साह्वान्-' (पा० ६ । १ । १२ ) इत्यादिना क्वसुप्रत्ययान्तो निपातः । दाशति दत्ते स्म इति दाश्वान् तस्मै दाशुषे । दधाति दत्त इति दधत् धाधातुर्दानेऽपि । 'डुधाञ् विधारणे पुष्टौ दाने' इति कल्पद्रुमोक्तेः ॥ २५ ॥

षड्विंशी ।
परि॑ त्वाऽग्ने॒ पुरं॑ व॒यं विप्र॑ᳪ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वे-दि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ।। २६ ।।
उ० परि त्वाग्ने परीत्यस्योपसर्गस्य धीमहीत्यनेन संबन्धः ध्यायतिरयम् संप्रसारणं तु छान्दसम्। परि सर्वतो ध्यायामः त्वा त्वाम् हे अग्ने, पुरं पुररूपेणावस्थितम् । अग्निः सहस्यो हि पुरोरक्षको भवति । वयं विप्रं मेधाविनं ब्राह्मणजातिं वा । सहस्य । सहसि बले भवः सहस्योऽग्निः। स हि बलेन मथ्यमानो जायते तस्य संबोधनं हे सहस्य, धृषद्वर्णं प्रसहनरूपम् दिवे दिवे अहन्यहनि । हन्तारं बाधितारम् । भङ्गुरावताम् भङ्गुरमनवस्थितं मनो येषां ते भङ्गुरावन्तः तेषां भङ्गुरावताम् । अनवस्थितचित्तवृत्तीनामित्यर्थः ॥ २६ ॥ |
म० आग्नेय्यनुष्टुप्यायुदृष्टा परीत्युपसर्गस्य धीमहीत्यनेन संबन्धः । सहस्य सहसि वले भवः सहस्यः बलेन मध्यमानस्य जायमानत्वात्तत्संबोधनं हे सहस्य हे अग्ने, वयं त्वा त्वां परिधीमहि सर्वतो ध्यायामः। ध्यायतेः संप्रसारणं छान्दसमित्युक्तम् । कीदृशं त्वाम् । पुरं पुरीरूपेण स्थितम् आग्नेय्यादिपुराणां रक्षकत्वात् , यद्वा पिपर्ति पालयतीति पूस्तम् । 'पॄ पालनपूरणयोः' क्विप् 'उदोष्ठ्यपूर्वस्य' (पा. ७ । १। १०२) इति उदादेशे पूरिति रूपम् । तथा विप्रं मेधाविनं ब्राह्मणजातॆ वा । धृषद्वर्णं 'ञिधृषा प्रागल्भ्ये' अतो व्यत्ययेन तौदादिकाच्छतृप्रत्ययः । धृष्णोतीति धृषन् प्रगल्भो वर्णो यस्य तम् । असह्यरूपमित्यर्थः । दिवेदिवे प्रतिदिनं भङ्गुरावतां हन्तारं भङ्गुरं भञ्जनीयं पापं तद्येषामस्ति ते भङ्गुरवन्तो विघातका राक्षसादयः । यद्वा | भङ्गुरमनवस्थितं मनो येषां ते भङ्गुरावन्तोऽनवस्थितचित्तवृत्तयस्तेषां विनाशयितारम् । भङ्गुरावतामिति संहितायां दीर्घः॥२६॥

सप्तविंशी।
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ।। २७ ।।
उ० त्वमग्ने हे भगवन्नग्ने, त्वं द्युभिरहोभिर्निमित्तभूतैर्मथ्यमानो जायसे । त्वमेव आशुशुक्षणिः आशु शीघ्रं शुचा दीप्त्या क्षिणोति हिनस्ति सनोति संभजते वा आशुशुक्षणिरुच्यते । त्वं अद्भ्यश्च विद्युदात्मना जायसे । त्वमश्मनः पाषाणात्परिजायसे । त्वं वनेभ्यः अरणिकाष्ठेभ्यो जायसे । त्वमोषधीभ्यो वंशादिभ्यो जायसे । त्वं नृणां मनुष्याणामग्निहोत्रिणां जायसे । तदुक्तम् 'पुत्रो ह्येष सन्स पुनः पिता भवति' इति । हे नृपते नृणां पालयितः । शुचिर्निषिक्तपाप्मा । अथापरो व्याख्यामार्गः । आशुशुक्षणिशब्दस्य पञ्चम्यर्थे प्रथमा । तथाच वाक्यस्य संयोगः । आ उपसर्गपूर्वः शोचतिः सन्नन्तः । आशुशुक्षणेः आदिदीपयिषोर्जायसे । योऽपि ग्रहं खलं वा निर्मथ्य दीपयति तस्यापि त्वं जायसे । सर्वेषामनुग्रहे प्रवृत्तो हि त्वमित्यभिप्रायः। त्वमग्ने द्युभिर्जायसे त्वमादिदीपयिषोर्जायसे । एवं त्वमद्भ्यः अश्मनः वनेभ्यः ओषधीभ्यः नृणां पुत्रत्वेन नृपते जायसे । शुचिर्दीप्त इति योजना ॥२७॥
म० आग्नेयी त्रिष्टुब् गृत्समददृष्टा प्रथमान्त्यावेकादशार्णौ