पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशी।
उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाक॒: सुलो॒कᳪ सुकृ॑तं पृथि॒व्याम् ।
तत॑: खनेम सु॒प्रती॑कम॒ग्निᳪ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।। २२ ।।
उ० अथैनमश्वमुत्क्रान्तमभिमन्त्रयते । उदक्रमीत् त्रिष्टुप् । यतः प्रदेशादुदक्रमीत् उत्क्रान्तवान् । द्रविणोदा द्रविणस्य धनस्य दाता । वाजी वेजनवानश्वः । अर्वा अरणशीलः चञ्चल इत्यर्थः । अकः कृतवान् । सुलोकं शोभनं लोकं स्थानम् । सुकृतं पृथिव्याम् । ततः तस्मात्प्रदेशात् खनेम । सुप्रतीकम् सुखं प्रतीकम् । सुमुखमग्निम् स्वोरुहाणाः स्वर्गं लोकमारोहन्तः । अधि । अधीत्युपरिभावमैश्वर्यं वा । नाकम् । कमिति सुखनाम । न अकमसुखं यत्र गतानां भवति स नाको लोकः । उत्तममुत्कृष्टम् । इत्थंभूतस्य लोकस्य प्राप्तये एतत्कर्म कुर्म इत्यभिप्रायः ॥ २२ ॥
म० 'उदक्रमीदित्यभिमन्त्रयते' ( का० १६ । २ । २०)। पिण्डादुत्तारिताश्वं मन्त्रयते । आश्वी त्रिष्टुप् । अर्वा अरणशीलः चञ्चलो द्रविणोदाः धनदाता वाजी अश्वः यत्प्रदेशादुदक्रमीत् उत्क्रान्तवान् पृथिव्यां तं सुलोकं शोभनं लोकं प्रदेशं सुकृतं पुण्यवन्तमकः कृतवान् । करोतेर्लङि 'बहुलं छन्दसि' (पा० २।४ । ७३ ) इति शपो लुकि गुणे तिलोपे रूपम् । ततः प्रदेशाद्वयमग्निमग्निहेतुं मृदं खनेम । कीदृशमग्निम् । सुप्रतीकं शोभनं प्रतीकं मुखं यस्य तम् । कीदृशा वयम् । स्वः स्वर्गमधिरुहाणा अधिरोहन्तः अधिरोहणकामा एतत्कर्म कुर्म इति भावः। अधीत्युपरिभावे ऐश्वर्ये वा । किंभूतम् । स्वः । नाकं नास्त्यकं यत्र तं कं सुखमकं दुःखं तद्रहितं तथा उत्तममुत्कृष्टम् ॥ २२ ॥

त्रयोविंशी।
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ।। २३ ।।
उ०. मृदमभिजुहोति। आ त्वा जिघर्मि। त्रिष्टुभावाग्नेय्यौ। 'घृ क्षरणदीप्त्योः' । आजिघर्मि आसिञ्चामि त्वां घृतेन । मनसा श्रद्धाप्रोत्कण्ठितेन । प्रतिक्षियन्तं भुवनानिविश्वा प्रत्येकशो निवसन्तं भूतानि सर्वाणि । पृथुं तिरश्चा महान्तं तिर्यगञ्चनेन ज्योतिषा । वयसा बृहन्तम् वयसा धूमेन बृहन्तम् । 'इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमं सामुत्र वृष्टिर्भवति' इत्येतदभिप्रायम् । व्यचिष्ठं व्यञ्चनवन्तम् । अवकाशवन्तं अन्नै रभसम्। 'रभ राभस्ये' । अन्नैर्घृतादिभिः क्षिप्तैरुत्साहवन्तम् । बहुभिरप्यन्नैः क्षिप्तैर्नास्य शक्तिपरिहाणं भवतीत्येतदभिप्रायः । दृशानं दर्शनीयं दृश्यमानं वा । अदृष्टा अन्या देवता अयं तु दृश्य इति ॥ २३ ॥
म० 'उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे' (का. १६ । २ । २२)। अस्यार्थः । आज्यं संस्कृत्य पिण्डसमीपे उपविश्य मृदमभि अश्वपदे मृत्पिण्डोपरिस्थिताश्वपदमुद्रायामा त्वा आ विश्वत इति ऋग्भ्यां व्यतिषक्ताभ्यां स्रुवेणाहुती द्वे जुहोति व्यतिषङ्गश्चैवम् । आत्वा जिघर्मीति पूर्वस्याः पूर्वार्धं मर्यश्रीरित्युत्तरस्या उत्तरार्धं पठित्वैकाहुतिः । आ विश्वत इत्युत्तरस्याः पूर्वार्धं पृथुं तिरश्चेति पूर्वस्या उत्तरार्धं च पठित्वा द्वितीयाहुतिरिति । गृत्समददृष्टे अग्नेय्यौ द्वे त्रिष्टुभौ । हे अग्ने, मनसा श्रद्धायुक्तेन चित्तेन घृतेनाज्येन कृत्वा त्वामाजिघर्मि आसिञ्चामि दीपयामि वा । 'घृ क्षरणदीप्त्योः' भ्वादिः । कीदृशं त्वाम् । विश्वानि भुवनानि प्रतिक्षियन्तं सर्वाणि भूतानि प्रत्येकं निवसन्तं । 'क्षि निवासगत्योः' तुदादिकादस्माच्छतृप्रत्ययः । तिरश्चा पृथुं तिरो ऽञ्चतीति तिर्यक् तेन तिर्यगञ्चनेन ज्योतिषा पृथुं विस्तीर्णं वयसा धूमेन बृहन्तं महान्तम् । 'इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमᳪ सामुत्र वृष्टिर्भवति' इति श्रुतेः । यद्वा तिरश्चा तिर्यक्प्रमाणेन पृथुं विस्तृतमिति बहुदेशव्याप्तिः। वयसा वयउपलक्षितेन कालेन । बृहन्तमिति बहुकालव्याप्तिः । देशकालानवच्छिन्नमित्यर्थः । तथा व्यचिष्ठं व्यचनं व्यचोऽवकाशः सोऽस्यास्तीति व्यचवान् अतिशयेन व्यचवान् व्यचिष्ठः । ‘अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठन् 'विन्मतोर्लुक्' (पा० ५ । ३ । ६५ ) इतीष्ठनि परे मतुपो लुक् । अन्नैः रभसं 'रभ राभस्ये' घृताद्यन्नैः सोत्साहम् अनेकान्नैर्हुतैरप्यस्य शक्तिक्षयो नास्तीति भावः । तथा दृशानं दर्शनीयं दृश्यमानं वा । अन्ये देवा अदृश्या अयं तु दृश्यत इति भावः । दृशेः शानन्प्रत्ययः ॥ २३ ॥

चतुर्विशी।
आ वि॒श्वत॑: प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः ।। २४ ।।
उ०. आ विश्वतः आजिघर्मि आसिञ्चामि त्वां विश्वतः प्रत्यञ्चं सर्वतः प्रतिगतं महाभाग्येन । यतः अरक्षसा मनसा | तज्जुषेत अक्रुध्यमानेन प्रसन्नेन मनसा तद्धविर्जुषेत भक्षयतां। यस्त्वं मर्यश्रीः मर्यैर्मनुष्यैराश्रयणीयः स्पृहयद्वर्णः स्पृहणीयवर्णश्च । अग्निरिति साभिप्रायम् 'अग्निर्वै देवानां मृदुहृदयतमः' इत्यादि गुणख्यापनार्थम् । नाभिमृशे तन्वा जर्भुराणः। | नचाभिमर्शनाय भवति तन्वा शरीरेण ज्वालालक्षणेन जर्भुराणः । 'जभजृभी गात्रविनामे' इतश्चेतश्च गच्छन् ॥ २४ ॥
म० अहमग्निमाजिघर्मि समन्तात्सिच्चामि दीपयामि च । किंभूतम् । विश्वतः प्रत्यञ्चं सर्वतः प्रत्यगात्मतया प्रतीयमानम् । सोऽग्निः रक्षसा क्रौर्यरहितेन अक्रुध्यमानेन प्रसन्नेन मनसा