पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

युवां पुरीष्यं पशव्यमग्निं संवसाथां सम्यगाच्छादयतम् । 'वस आच्छादने' अदादिः । आच्छाद्य चाग्निं भृतं बिभृतं धारयतम् । बिभर्तेः 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इति शपो लुक् ॥ ३०॥

एकत्रिंशी।
सं व॑साथाᳪ स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒त्मना॑ ।
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।। ३१ ।।
उ० संवसाथाम् आच्छादयतमेनमग्निं पिण्डरूपम् । स्वर्विदा । यज्ञसूर्यदेवाहर्वचनः स्वःशब्दः। स्वर्वेत्तीति स्वर्वित् स्वर्विदा रूपेण । यद्वा द्विवचनस्य स्थाने आकारः स्वर्विदीभूत्वा । यद्वा स्वर्गविदो भूत्वा । समीची समाने संगते एकचित्ते भूत्वा । उरसात्मना च । किंच अग्निपिण्डमन्तर्मध्यतः भरिष्यन्ती धारयमाणे ज्योतिष्मन्तम् अजस्रम् अनुपक्षीणम् । कुरुतमिति शेषः । इदिति पादपूरणः ॥ ३१ ॥
म० हे कृष्णाजिनपुष्करपर्णे, ज्योतिष्मन्तं तेजस्विनमजस्रमित् निरन्तरमेवाग्निमन्तरुदरे भरिष्यन्ती धारयिष्यन्ती युवामुरसात्मना उरोरूपेण भवदीयशरीरेणाग्निं संवसाथां सम्यगाच्छादयतम् । कीदृशे युवाम् । स्वर्विदा विभक्तेराकारः । स्वर्वित्त इति स्वर्विदो यज्ञसूर्यदेवाहर्वाच्यौ । स्वःशब्दः खर्गलाभसाधन इत्यर्थः । तथा समीची सम्यगञ्चने सङ्गते । एकचित्ते इत्यर्थः ॥ ३१॥

द्वात्रिंशी
पु॒री॒ष्यो॒ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ।। ३२ ।।
उ० पिण्डमभिमृशति । पुरीष्योऽसि पशव्यस्त्वमसि विश्वभराःसर्वस्य धारकः पोषको वा अथर्वा त्वा च प्राणः । त्वां प्रथमो निरमन्थत् मथितवान् हे अग्ने, पिण्डं हरति षड्भिराग्नेयीभिः। तत्र तिस्रो गायत्र्यः द्वे त्रिष्टुभौ एका बृहती। त्वामग्ने त्वां हे अग्ने, पुष्करादुदकात् अधि सकाशात् अथर्वा अतनवान् प्राणो निरमन्थत निर्जनितवान् । 'आपो वै पुष्करं प्राणोऽथर्वा' इति श्रुतिः । मूर्ध्नो विश्वस्य वाघतः । वाघत इति ऋत्विङ्नामसु पठितम् । वाघतस्तु मूर्ध्नः शिरस्तः अरण्योर्जनयति सर्वस्य कर्मणोऽङ्गभूतम् ॥ ३२ ॥
म० 'पिण्डं पुरीष्योऽसीति' (का० १६ । २ । २७) । प्रतिष्ठा गायत्री अष्टौ सप्त षट् चेति प्रतिष्ठेति पिङ्गलोक्तेः । अग्निदेवत्या । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । विश्वभरा असि विश्वं सर्वं जगद् बिभर्ति धारयति पुष्णाति वा विश्वभराः । असुन्प्रत्ययः । हे अग्ने, प्रथमः इतरेभ्यः पूर्वभावी अथर्वाख्य ऋषिः प्राणो वा त्वा त्वां निरमन्थन्निःशेषेण मथितवान् । पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्वᳪ सकृद्धुत्वा पुष्करपर्णे निदधातीति' (का. १६ । २ । २८)। दक्षिणेनाभ्रिं धृत्वोभाभ्यां कराभ्यां सर्वं पिण्डं त्वामग्न इति षडृचेन सकृद्गृहीत्वा पुष्करपर्णे स्थापयतीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यो भरद्वाजदृष्टाः । हे अग्ने, अथर्वा प्राणः पुष्करादधि उदकात्सकाशात्त्वां निरमन्थत निःशेषेण मथितवान् । 'आपो वै पुष्करं प्राणोऽथर्वा' (६ । ४ । २ । २) इति श्रुतेः । वाघत इति ऋत्विङ्नामसु पठितम् । विश्वस्य सर्वस्य जगतः संबन्धिनो वाघतः ऋषिजस्त्वां मूर्ध्नोऽर्थादरणेः शिरसो निरमन्थन्तेति व्यत्ययः । यद्वा विश्वस्येति षष्ठ्येकवचनं प्रथमाबहुवचनार्थे । विश्वे सर्वे वाघत इत्यर्थः । यद्वा ऋचोऽयमर्थः । हे अग्ने, अथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत । कीदृशात्पुष्करात् । मूर्ध्नः उत्तमाङ्गवत्प्रशस्तात् विश्वस्य वाघतः सर्वजगतो वाहकात्पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनद्वारेण सर्वं जगन्निर्वहति ॥ ३२ ॥

त्रयस्त्रिंशी।
तमु॑ त्वा द॒ध्यङ्ङृषि॑: पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॑त्र॒हणं॑ पुरन्द॒रम् ।। ३३ ।।
उ० तमु त्वा । अत्राप्युकार एतस्मिन्नर्थे उत्तरेणेत्युकारः । तमेव त्वां दध्यङ् नामा ऋषिर्मन्त्राणां द्रष्टा । पुत्र ईधे। अथर्वणः । व्यवहितोऽत्र संबन्धः । अथर्वणः पुत्र ईधे । 'इन्धी दीप्तौ' आदीपयति । कथंभूतं त्वामादीपयति । वृत्रहणम् पाप्मनो हन्तारम् । पुरन्दरम् असुरपुरां च दारयितारं वा । 'दध्यङ् आथर्वणः' इति श्रुतिः ॥ ३३ ॥
म०. हे अग्ने, अथर्वणः ऋषेः पुत्रः दध्यङ्नामक ऋषिः तमु त्वा। उ एवार्थे । तमेव त्वाम् ईधे प्रज्वालितवान् । कीदृशं त्वाम् । वृत्रहणं वृत्रस्य पाप्मनो हन्तारम् । 'ब्रह्मभ्रूणवृत्रेषु हनः' इति (पा० ३ । २। ८७) क्विप् । पुरन्दरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । 'वाचंयमपुरन्दरौ च' (पा० ६ । ३ । ६९) इति खशि निपातः ॥ ३३ ॥

चतुस्त्रिंशी।
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒यᳪ रणे॑-रणे ।। ३४ ।।
उ० तमु त्वा तमेव त्वां पाथ्यो वृषा। 'मनो वै पाथ्यो वृषा' इति श्रुतिः। मनसा हि मुक्तेः पन्था उपलभ्यते । तदुक्तम् 'मनसैवानुद्रष्टव्यम्' इति । 'मनसाभिलष्य स्त्रियां रेतः सिञ्चति' इति वृषा मनः समीधे संदीपयति । दस्युहन्तमम् शत्रुहन्तृतमम् धनस्य जेतारम् । रणेरणे संग्रामेसंग्रामे ॥३४॥
म० पथि वर्तमानः पाथ्यः सन्मार्गवर्ती, यद्वा पाथसि अन्तरिक्षे हृदयाकाशे भवः पाथ्यः 'पाथोनदीभ्यां ड्यण' (पा. ४ । ४ । १११) इति पाथःशब्दात् ड्यणप्रत्ययः । टिलोपः ।