पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृषा सेक्ता मनः हे अग्ने, त्वा त्वां समीधे संदीपयति । मनसा हि ब्रह्मपन्था उपलभ्यते अतः पाथ्यः । ‘मनसैवानुद्रष्टव्यम्' इति श्रुतेः । 'मनसैवाभिलष्य स्त्रियाᳪ रेतः सिञ्चति' इति । वृषा हि मनः । 'मनो वै पाथ्यो वृषा' (६ । ४ । २ । ४) इति श्रुतेः । कीदृशं त्वाम् । दस्युहन्तमम् दस्यून् हन्तीति दस्युहा अतिशयेन दस्युहा दस्युहन्तमस्तम् । 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २ । ७) इति नलोपे दस्युहन्तम इति प्राप्ते 'नाद्धस्य' (पा० ८।२।१७) इति तमपो नुडागमः । अतिशयेन शत्रूणां हन्तारम् । रणेरणे धनञ्जयं तेषु तेषु संग्रामेषु धनस्य जेतारम् ॥ ३४ ॥

पञ्चत्रिंशी।
सीद॑ होत॒: स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया॑ य॒ज्ञᳪ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।। ३५ ।।
उ० सीद होतः । सीद उपविश हे होतः अग्ने, स्व उ लोके । उकारो विनिश्चयार्थीयः । स्वकीय एव लोके कृष्णाजिने । चिकित्वान् चेतनवान् परिदृष्टाधिकारः स्वमधिकारं जानानः । किंच सादया यज्ञम् स्थापय च यज्ञं त्वं सुकृतस्य साधुकृतस्य कर्मणः योनौ स्थाने कृष्णाजिने । 'कृष्णाजिनं वै सुकृतयोनिः' इति श्रुतिः। यज्ञे हि तन्यमाने अवघातः पेषणं सोमनिधानं च कृष्णाजिने एव भवतीत्येतदभिप्रायमेवमुच्यते । यश्च त्वं देवावीः देवानामवनशीलः तर्पणशीलः देवान्हविषा यजासि यजसि तं त्वां पुनः प्रार्थयामि । हे अग्ने, बृहत् महत् यजमाने वयः आयुरन्नं वा धाः धेहि ॥ ३५ ॥
म०. आग्नेयी त्रिष्टुप् देवश्रवोदेववाताभ्यां दृष्टा । हे होतः देवानामाह्वातः हे अग्ने, स्वे उ लोके । उ एवार्थे । स्वकीये एव स्थाने कृष्णाजिनाख्ये त्वं सीद उपविश । कीदृशस्त्वम् । चिकित्वान् चेतनवान् स्वाधिकारं जानन् । किंच सुकृतस्य साधुकृतस्य कर्मणो यज्ञस्य योनौ स्थाने कृष्णाजिने यज्ञं सादय स्थापय । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां क्रियापदस्य दीर्घः । यज्ञे क्रियमाणेऽवघातपेषणसोमनिधानादीनि कृष्णाजिन एव भवन्तीति कृष्णाजिनं सुकृतस्य योनिः 'कृष्णाजिनं वै सुकृतस्य योनिः' (६ । ४ । २ । ६) इति श्रुतेः। हे अग्ने, यतो देवावीः देवानवति प्रीणातीति देवावीः त्वं हविषा हव्येन कृत्वा देवान् यजासि यजसि । 'लेटोऽडाटौ' (पा. ३। ४ । ९४) इत्याडागमः । पूजयसि अतो यजमाने बृहन्महद्वय आयुरन्नं वा धाः धेहि । दधातेर्लुङि मध्यमैकवचने अधा इति प्राप्ते 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः ॥ ३५ ॥

षट्त्रिंशी।
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ अ॑सदत्सु॒दक्ष॑: ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ।। ३६ ।।
उ० निहोता नीत्ययमुपसर्गाऽसददित्यनेनाख्यातेन संबध्यते । न्यसदत् निषण्ण उपविष्टः होता अग्निः । होतृषदने होता यस्मिन्सीदति तद्धोतृषदनं तस्मिन् । विदानः जानानः स्वमधिकारम् त्वेषो दीप्तियुक्तः । दीदिवान् देदीप्यमानः । असदत् । सुदक्षः साधु क्षिप्रकारी । अदब्धव्रतप्रमतिः । अदब्धमनुपहिंसितं कर्म यश्च प्रकृष्टा मतिः स एवमुच्यते । वसिष्ठः वस्तृतमः । यश्च सहस्रंभरः सहस्रं बिभर्तीति सहस्रंभरः सर्वहितः । शुचिजिह्वः शुचिर्जिह्वा यस्य स शुचिजिह्वः योयं नानादेवत्यानि हवींषि अभ्यवहरति नचोच्छोषयति स शुचिजिह्व इति शक्यते वदितुम् । अग्निरिति विस्मित इवाचष्टे ॥ ३६ ॥
म० आग्नेयी त्रिष्टुप् गृत्समददृष्टा । नित्युपसर्गोऽसददित्यनेन संबध्यते । अग्निः होतृषदने न्यसीदत् । होता यस्मिन् सीदति तद्धोतृषदनम् । होमनिष्पादकयोग्यस्थाने उत्तरवेदिरूपे सम्यगुपविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्वाधिकारं जानन् । त्वेषः 'त्विष दीप्तौ' पचाद्यच् त्वेषतीति त्वेषः दीप्तिमान् । दीदिवान् दीव्यतीति दीदिवान् ‘दिवु क्रीडादौ' अस्मात् क्वसुः । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ । १ । | ७ ) इत्यभ्यासदीर्घः । 'लोपो व्योर्वलि' (पा०६।१।६६) इति वलोपः । होतृधिष्ण्यादौ गमनवान् । सुदक्षः साधुकुशलः क्षिप्रकारी । अदब्धव्रतप्रमतिः 'दम्भु बधे' अदब्धमनुपहतं व्रतं कर्म यस्य सोऽदब्धव्रतः प्रकृष्टा मतिर्बुद्धिर्यस्य स प्रमतिः अदब्धश्वासावप्रमतिश्चेति सः । तथा वसिष्ठः वसति स्वस्थान इति वस्ता अत्यन्तं वस्ता वसिष्ठः वस्तृतमः । 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । सहस्रंभरः सहस्रं सर्वजनं बिभर्ति पुष्णातीति सहस्रंभरः । शुचिजिह्वः शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्य सः । नानादेवत्यानि हवींष्यभ्यवहरन्नप्युच्छिष्टं न करोतीति भावः ॥ ३६ ॥

सप्तत्रिंशी।
सᳪ सी॑दस्व म॒हाँ२ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
विधू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ।। ३७ ।।
उ० संसीदस्व । हे अग्ने, संगत्य सीदस्व । यतः त्वं महानसि । शोचस्व दीप्यस्व । यतस्त्वं देववीतमः अतिशयेन देवानामाप्यायिता । विसृज च विमुञ्च च विधूमम् अरुषम् अरोचनम् मियेध्य । यमेध्य इति प्राप्ते छान्दसोपकर्षः । हे प्रशस्तलक्षण । दर्शतम् दर्शनीयमाहुतिपरिणामभूतम् । 'इतो वा अयमूर्ध्वं रेतः सिंचति धूमं सामुत्र वृष्टिर्भवति' इति श्रुतिः ॥ ३७॥