पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० आग्नेयी बृहती प्रस्कण्वदृष्टा । तृतीयो द्वादशार्णोऽन्येऽष्टार्णाः । मेध्यशब्दस्य छान्दसो विप्रकर्षः । हे मियेध्य हे मेध्य । यज्ञिय यज्ञार्ह हे प्रशस्त उत्कृष्ट अग्ने, त्वं संसीदस्व पुष्करपर्णे सम्यगुपविश । यस्त्वं महानसि अनेकक्रतुहेतुत्वात् । स त्वं शोचस्व 'शुच दीप्तौ' दीप्यस्व । कीदृशस्वम् । देववीतमः देवान् वेति तर्पयति देववीः 'वी कान्त्यादौ' क्विप् । अतिशयेन देववीः देववीतमः । किंच दर्शतं दर्शनीयमरुषमरोचनं धूमं विसृज विमुञ्च । वीत्युपसर्गः सृजेत्यनेन संबध्यते । 'इतो वा अयमूर्ध्वᳪ रेतः सिञ्चति धूमᳪ सामुत्र वृष्टिर्भवति' इति | श्रुतिः ॥ ३७॥

अष्टत्रिंशी
अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्य॑: ।
तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ।। ३८ ।।
उ० अवटे अप आसिञ्चति । अपो देवीः अब्देवत्या बृहती। विधूममग्ने अरुषं मियेध्येत्यानन्तर्यादग्निरुच्यते । द्यौर्वा अपो देवीरुपसृज निक्षिप वृष्टिरूपाः मधुमती रसवतीः आरोग्यदातृकाः अयक्ष्माय प्रजाभ्यः । यक्ष्मा व्याधिः भावप्रत्ययलोपः । अयक्ष्मत्वार्थं प्रजानामिति विभक्तिव्यत्ययः । तासां भूमिगतानाम् अस्थानात् अधिष्ठानात् । उज्जिहताम् उद्गच्छन्तु । ओषधयः सुपिप्पलाः साधुफलाः । पिप्पलं फलमुच्यते ॥ ३८ ॥
म० 'अपः श्वभ्रेऽवनयत्यपो देवीरिति' (का० १६ । ३ । २)। मृत्पिण्डगर्ते जलं सिञ्चति । अब्देवत्या न्यङ्कुसारिणी सिन्धुद्वीपदृष्टा । द्वितीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णा यस्याः सा न्यङ्कुसारिणी । पूर्वर्चोऽग्ने इति संबोधनमध्याह्रियते । द्यौरध्वयुर्वा संबोध्यते । हे अग्ने, यद्वा हे द्यौः, यद्वा हे अध्वर्यो, देवीः देवनशीला अपः उपसृज अस्मिन् खननप्रदेशे आसिञ्च । कीदृशीरपः । मधुमतीः रसवतीः आरोग्यदात्रीः । किमर्थम् । प्रजाभ्यः अयक्ष्माय । पञ्चमी षष्ठ्यर्थे । यक्ष्मणोऽभावोऽयक्ष्मं तस्मै प्रजानामारोग्याय । तासां सिक्तानामपां स्थानात् सुक्षेत्ररूपादस्मात् खननप्रदेशात् । ओषधयः आ समन्तादुज्जिहतामुद्गच्छन्तु। कीदृश्य ओषधयः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः ॥ ३८॥

एकोनचत्वारिंशी।
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् ।
यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ।। ३९ ।।
उ० वायुना संदधाति । सं ते वायुः । त्रिष्टुप् । अर्धर्चः पार्थिवोऽर्धर्चो वायुदेवत्यः । संदधातु तव मातरिश्वा वायुः पृथिवी । उत्तानायाः सत्या यदेतत् हृदयमवटरूपेण । विकस्तं विकसितम् । वायुरुच्यते । यो देवानाम् यस्त्वं देवानां चरसि प्राणथेन प्राणत्वेन । थकारो भावप्रत्ययार्थकः। हे देव, तस्मै कस्मै प्रजापतये तुभ्यम् इयं पृथिवी वषडस्तु | वषट्कृता भवतु । 'नोहैतावत्यन्याहुतिरस्ति यथैषा' इति श्रुतिः ॥ ३९॥
म०. 'सं त इति वातमपक्षिपति' (का० १६ । ३।३)। पिण्डगर्ते वायुं प्रेरयति । त्रिष्टुप् अर्धं पृथिवीदेवत्यमर्धं वायुदेवत्यम् । हे पृथिवि, उत्तानायाः ऊर्ध्वाभिमुखेनावस्थितायास्ते तव यद्धृदयं हृदयसदृशं खननस्थानं विकस्तं पिण्डावटरूपेण विकसितम् । इडभाव आर्षः (पा. ७ । २ । ३४) । तत्स्थानं वायुः संदधातु पूर्वोक्तेन जलप्रक्षेपेण तृणादिपूरणेन च वायुर्यथा पूर्वं तथा सम्यक्करोतु । कीदृशो वायुः । मातरिश्वा मातर्यन्तरिक्षे सर्वप्राणिनामवच्छेदकारिणि श्वयति गच्छतीति मातरिश्वा । एवं पृथिवीमुक्त्वा वायुमाह । हे देव, द्योतनादिगुणयुक्त वायो, यस्त्वं देवानामग्न्यादीनां प्राणथेन प्राणभावेन चरसि प्राणानां भावः प्राणथं । भावे छान्दसस्थल्प्रत्ययः । कस्मै प्रजापतिरूपाय | तुभ्यमियं पृथिवी वषडस्तु वषट्कृता भवतु । 'नो हैतावत्यन्याहुतिरस्ति यथैषा' (६ । ४ । ३ । ४) इति श्रुतेः ॥ ३९ ॥

चत्वारिंशी।
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑द॒त्स्व॑: ।
वासो॑ अग्ने वि॒श्वरू॑प॒ᳪ सं व्य॑यस्व विभावसो ।। ४० ।।
उ०. आस्तीर्णयोरन्तरानुद्गृह्णाति । सुजातो ज्योतिषा । अनुष्टुबाग्नेयी । अयमग्निः सुजातः सुजन्मा ज्योतिषा सह संयुक्तः । शर्म शरणम् वरूथं वरणीयम् गृहम् आ असदत् आसीदतु । स्वः स्वर्गाख्यम् । योक्त्रेणोपनह्यति । वासो अग्ने । हे अग्ने विभावसो विभूतधन, वासो विभूतयः । विश्वरूपं विचित्रम् । संव्ययस्व । 'व्येञ् संवरणे' परिधत्स्व ॥ ४० ॥
म०. 'आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति' ( का० १६ । ३ । ५) अस्यार्थः । आस्तीर्णयोः कृष्णाजिनपुष्करपर्णयोः प्रान्तानूर्ध्वमादत्त इति । अग्निदेवत्यानुष्टुप् द्वितीयो नवार्णः । सुजातः सुष्ठूत्पन्नोऽयमग्निः ज्योतिषा स्वकीयेन तेजसा सह शर्म सुखं यथा भवति तथा स्वः स्वर्गसदृशं वरूथं वरणीयं गृहं कृष्णाजिननिर्मितमासदत् आसीदतु प्राप्नोतु । 'त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति' (१६ । ३।६)। उद्गृहीतात्कृष्णाजिनपुष्करपर्णयोरन्तान्मुञ्जयोक्त्रेण बध्नात्युत्तरार्धेनेति सूत्रार्थः । हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य स विभावसुः तत्संबोधनं हे विभावसो हे अग्ने, विश्वरूपं बहुप्रकाररूपं विचित्रं वासः वस्त्रं कृष्णाजिनरूपं संव्ययस्व सम्यक् परिधत्स्व । 'व्येञ् संवरणे' अस्य रूपम् ॥ ४० ॥

एकचत्वारिंशी।
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभि॑: ।। ४१ ।।