पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अथोज्जितीर्वाचयति । अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषम् । ओश्रावयेति चतुरक्षरम् , अस्तुश्रौषडिति चतुरक्षरम् , यजेति द्व्यक्षरम् , येयजामह इति पञ्चाक्षरम् , द्व्यक्षरो वषट्कारः । स एष सप्तदशप्रजापतिरधियज्ञं समासव्यासाभ्यामुज्जीयते । अग्निः एकाक्षरेण च्छन्दसा प्राणमुदजयत् तमहमप्येकाक्षरेण च्छन्दसा उज्जेषम् । एवं सप्तदशोज्जितीर्व्याख्येयाः ॥३१॥
म० 'अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति' । ( का० १४ । ५ । २६) चतुःकण्डिकात्मकमनुवाकं द्वादशवत् द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति यत्पूर्वमुक्तं तद्वत्कृत्वेत्यर्थः । तेनेतैर्मन्त्रैर्जुहोति सप्तदश मन्त्रान् वाचयति वेत्यर्थः । एते मन्त्रा उज्जितिसंज्ञाः । सप्तदश यजूंषि लिङ्गोक्तदेवतानि । ओश्रावयेति चतुरक्षरं अस्तु श्रौषडिति चतुरक्षरं यजेति द्यक्षरं येयजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः एष सप्तदशाक्षरात्मकः प्रजापतिरधियज्ञं समासव्यासाभ्यामुज्जीयते । अग्निरेकाक्षरेण छन्दसा प्राणं पञ्चवृत्तिकमुदजयत् उत्कृष्टं जितवान् । तथाहमपि तादृशं तं प्राणमुज्जेषमुत्कृष्टं जयेयं वशीकुर्यामित्यर्थः । अश्विनौ देवो द्व्यक्षरेण अक्षरद्वयात्मकेन छन्दसा द्विपदः पादद्वयोपेतान्मनुष्यानुदजयतां जितवन्तौ तथाहमपि तेनैव द्व्यक्षरेण छन्दसा तान् तादृशान्मनुष्यानुज्जेषमधिकं जयेयम् । विष्णुस्त्र्यक्षरेणाक्षरत्रयात्मकेन छन्दसा त्रीन्भूरादीन् लोकानुदजयत् अहमपि ताँल्लोकानुज्जेषम् । सोमोऽक्षरचतुष्टयात्मकेन छन्दसा चतुःपदः पादचतुष्टयोपेतान्पशूनुदजयत् अहमपि तेन तान्पशूनुज्जेषम् ॥ ३१ ॥

द्वात्रिंशी।
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ उद॑जय॒त्ता उज्जे॑षंᳪ सवि॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जय॒त्तानुज्जे॑षं म॒रुत॑: स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ।। ३२ ।।
म० पूषा देवः पञ्चाक्षरेण छन्दसा पञ्चसंख्याः पूर्वाद्याश्चतस्रोऽवान्तरदिशं चेति पञ्च दिश उदजयत् अहमपि ता दिशो जयेयम्। सविता सर्वस्य प्रेरको देवः षडक्षरेण छन्दसा षट्संख्यानृतूनुदजयत् तानृतूनहमुज्जेषम् । मरुतो देवाः सप्ताक्षरेण छन्दसा सप्तसंख्यान् ग्राम्यान् पशून् गवादीनुदजयन् अहं तान् ग्राम्यान्पशूञ्जयेयम् । बृहस्पतिरष्टाक्षरात्मकेन छन्दसा गायत्रीच्छन्दोभिमानिनीं देवतामुदजयत् तां तादृशीं गायत्रीं जयेयम् ॥ ३२ ॥

त्रयस्त्रिंशी।
मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑ष॒मिन्द्र॒ ए॒काद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम् ।। ३३ ।।
म० मित्रो देवो नवाक्षरेण छन्दसा त्रिवृतं स्तोममुदजयत्तं तादृशं स्तोममहं जयेयम् । वरुणो देवो दशाक्षरेण छन्दसा विराजम् दशाक्षरा विराडिति श्रुतिप्रसिद्धां तदभिमानिनीं देवतामुदजयत्तां विराजमहमप्युज्जेषम् । इन्द्रो देव एकादशाक्षरेण छन्दसा त्रिष्टुप्छन्दोऽभिमानिनीं देवतामुदजयत् तां त्रिष्टुभमहमुज्जेषम् । विश्वेदेवा द्वादशाक्षरेण छन्दसा जगत्यभिमानिदेवतामुदजयन् अहमपि तां जगतीं जयेयम् ॥ ३३ ॥

चतुस्त्रिंशी।
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षंᳪ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑ष॒मदि॑ति॒: षोड॑शाक्षरेण षोड॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।। ३४ ।।
उ० ॥ ३२ ॥ ३३ ॥ ३४ ॥ वाजपेयः समाप्तः ॥
म० वसवस्त्रयोदशाक्षरेण छन्दसा त्रयोदशं स्तोममुदजयन् तं स्तोमं जयेयम् । रुद्रा देवाश्चतुर्दशाक्षरेण छन्दसा चतुर्दशं स्तोममुदजयन् तं स्तोममहमपि जयेयम् । आदित्या देवाः पञ्चदशाक्षरेण छन्दसा पञ्चदशं स्तोममुदजयन् तं स्तोमं जयेयम् । अदितिर्देवमाता षोडशाक्षरेण छन्दसा षोडशं स्तोममुदजयत् तेनाहमपि तं स्तोममुज्जेषम् । प्रजापतिः सप्तदशाक्षरेण छन्दसा सप्तदशाख्यं स्तोममुदजयत् तं स्तोमं तेन छन्दसाहमपि जयेयम् । एतान्मन्त्राञ्जपेदेतैर्जुहुयाद्वा ॥ ३४ ॥
इति वाजपेयमन्त्राः समाप्ताः ॥

पञ्चत्रिंशी
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्य॑: पुर॒:सद्भ्य॒: स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षि॒णासद्भ्य॒: स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्य॑: पश्चा॒त्सद्भ्य॒: स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तरा॒सद्भ्य॒: स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्य॒: स्वाहा॑ ।। ३५ ।।
उ० अथ राजसूयं वरुणोऽपश्यत् । एष ते निर्ऋते भागः स्वयं प्रदीर्णेन जुहोति । पृथिव्यत्र निर्ऋति शब्देनोच्यते । एष ते तव हे निर्ऋते, भागः तं च सेवस्व । पञ्चधाहवनीयं व्युह्य प्रतिदिशं जुहोति । अग्निनेत्रेभ्यो देवेभ्यः । देवार्षं प्रागध्यायात् । अग्निनेत्रेभ्यो देवेभ्यः ।