पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तानि हिरण्यगर्भादिस्तम्बपर्यन्तानि आबभूव संभावितवान् । उत्पादितवानित्यर्थः । सनेमीति पुराणनाम । सनेमि चिरंतनो राजा दीप्तः सन् परियाति सर्वतः स्वेच्छया गच्छति । किंभूतः। विद्वान्स्वाधिकारं जानन् । तथा अस्मे अस्मासु प्रजां पुत्रादिसन्ततिं पुष्टिं धनपोषं च वर्धयमानः वर्धयन्स्वाहा सुहुतमस्तु ॥ २५॥

षड्विंशी।
सोम॒ᳪ राजा॑न॒मव॑से॒ऽग्निम॒न्वा॑रभामहे | आ॒दि॒त्यान्विष्णु॒ᳪ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॒ᳪ स्वाहा॑ ।। २६ ।।
उ० सोमं राजानम् । अनुष्टुप् लिङ्गोक्तदेवत्या । सोमं राजानम् अवसे तर्पणाय अग्निं च अन्वारभामहे । अन्वारम्भश्च तर्पणार्थ एव । आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् अन्वारभामहे । तर्पणायेति सर्वेषां शेषः ॥ २६ ॥
म०. तिस्रोऽनुष्टुभस्तापसदृष्टाः प्रथमा सोमाग्न्यादित्यविष्णुसूर्यबृहस्पतिदेवत्या । अवसे रक्षणार्थं तर्पणाय वा सोमं राजानमग्निं वैश्वानरमादित्यान्द्वादश विष्णुं सूर्यं ब्रह्माणं बृहस्पतिं चान्वारभामहे अन्वारम्भणमाह्वानं कुर्महे । स्वाहा सुहुतमस्तु ॥ २६ ॥

सप्तविंशी।
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ᳪ सर॑स्वतीᳪ सवि॒तारं॑ च वा॒जिन॒ᳪ स्वाहा॑ ।। २७ ।।
उ० अर्यमणं बृहस्पतिम् । अनुष्टुप् लिङ्गोक्तदेवत्या । अर्यमणं बृहस्पतिम् इन्द्रं दानाय दानार्थं चोदय प्रेरय । आहुतिरुच्यते । वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं च । वाजिनो देवाश्वाः ॥ २७ ॥
म० अर्यमबृहस्पतीन्द्रवाग्विष्णुसरस्वतीसवितृदेवत्या । हे ईश्वर, त्वमर्यमादीन्देवान्दानाय धनप्रदानार्थं चोदय प्रेरय । बृहस्पतिमिन्द्रं देवेशं वाचं वागधिष्ठात्रीं सरस्वतीं विष्णुं सवितारं सर्वस्य प्रसवकर्तारं सूर्यम् । वाजिनमन्नवन्तमिति सर्वेषां विशेषणम् । वाजिनं देवाश्वं वा । स्वाहा सुहुतमस्तु ॥ २७ ॥

अष्टाविंशी।
अग्ने॒ अच्छा॑ वदे॒ह न॒: प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वᳪ हि ध॑न॒दा असि॒ स्वाहा॑ ।। २८ ।।
उ० अग्ने अच्छ । अनुष्टुप् आग्नेयी । 'अच्छाभेराप्तुमिति शाकपूणिः' । हे अग्ने, अभिवद इहावस्थितान आसन्द्यां नः अस्मान् प्रति । नः सुमना भव । प्रति न इत्यनयोः पदयोः व्यत्ययः कर्तव्य इति । अस्मान्प्रति सुमनाः शोभनमनस्को भव । प्र नो यच्छ सहस्रजित् । प्रयच्छ देहि नः अस्मभ्यं हे सहस्रजित् बहुनो वसुनो जेतः, त्वं हि धनदा असि। हिशब्दो यस्मादर्थे । यस्मात्त्वमेव धनस्य दातासि नान्यः कश्चिद्देवता विशेषः ॥ २८॥
म० अग्निदेवत्या । हे अग्ने, इहास्मिन्कर्मणि नोऽस्माकमच्छ वद आभिमुख्येन ब्रूहि हितमिति शेषः । 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति संहितायां दीर्घोऽच्छशब्दस्य । किंच नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव । हे सहस्रजित् सहस्रस्य बहुनो वसुनो जेतः, सहस्राणां योधानां वा जेतः, हि यस्मात्त्वं स्वभावतो धनदा धनस्य दातासि अतस्त्वं नोऽस्मभ्यं प्रयच्छ धनं देहि स्वाहा ॥ २८ ॥

एकोनत्रिंशी।
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र बृह॒स्पति॑: । प्र वाग्दे॒वी द॑दातु न॒: स्वाहा॑ ।। २९ ।।
उ० प्र नो यच्छतु । गायत्री लिङ्गोक्तदेवत्या । प्रयच्छतु | नोऽस्मभ्यं अर्यमा । प्रयच्छतु च बृहस्पतिः । प्रकर्षेण च वाग्देवी दानादिगुणयुक्ता । ददातु नः अस्मभ्यम् ॥ २९ ॥
म०. गायत्री अर्यमपूषबृहस्पतिवाग्देवत्या । अर्यमा सूर्यविशेषो नोऽस्मभ्यं प्रयच्छतु अभीष्टं ददातु । पूषा प्रयच्छतु । उपसर्गावृत्त्या क्रियापदावृत्तिः । बृहस्पतिः प्रयच्छतु। देवी दीप्यमाना वाक् नोऽस्मभ्यं ददातु स्वाहा ॥ २९ ॥

त्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चाम्यसौ ।। ३० ।।
उ० अथैनं परिशिष्टेनाभिषिञ्चति । देवस्य त्वेति व्याख्यातम् । सरस्वत्यै वाचो यन्तुः सरस्वत्या वाचः नियमनकर्त्र्याः यन्त्रिये नियमने ऐश्वर्ये दधामि स्थापयामि । बृहस्पतेष्ट्वा बृहस्पतेश्च त्वा साम्राज्येन सम्राट्भावेन अभिषिञ्चामि । | असाविति नामग्रहणम् ॥ ३० ॥ ।
म० शेषेणाभिषिञ्चति यजमानं देवस्य त्वेति' । (का. । १४ । ५ । २२ ) होमद्रव्यशेषेण यजमानं शिरसि सिञ्चेत् । यजमानदेवत्यम् । सवितुर्देवस्य प्रसवे वर्तमानोऽहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा त्वां वाचो वाण्या यन्तुर्यन्त्र्या। पुंस्त्वमार्षम् । नियमनकर्त्र्याः । सरस्वत्यै षष्ठ्यर्थे चतुर्थी । सरस्वत्याः यन्त्रिये नियमने ऐश्वर्ये दधामि स्थापयामि । किंच बृहस्पतेः साम्राज्येन सम्राड्भावेन त्वा त्वामभिषिञ्चामि । असाविति तन्नामग्रहणम् ॥ ३० ॥

एकत्रिंशी।
अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त्तमुज्जे॑षम॒श्विनौ॒ द्व्य॒क्षरेण द्वि॒पदो॑ मनु॒ष्यानुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्य॒क्षरेण॒ त्रीँल्लो॒कानुद॑जय॒त्तानुज्जे॑षं॒ᳪ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ।। ३१ ।। (तु. तैसं. १.७.११.१)


.