पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कोऽसि कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा । कर्षणाय त्वाम् क्षेमाय च धनाय च पुष्ट्यर्थं चोपवेशयामीतिशेषः २२
म० 'अस्मे व इति दिशो वीक्षत इति' (१४।५।९) यूपारूढ एव यजमानो दिशः पश्यति । दिग्देवत्यम् । हे दिशः, वो युष्मत्संबन्धि इन्द्रियं वीर्यमस्मे अस्मास्वस्तु । नृम्णं धनं युष्मत्संबन्धि अस्मे अस्मास्वस्तु । उत अपि च क्रतुः कर्म युष्मत्संबन्धि अस्मास्वस्तु । वो युष्माकं वर्चांसि तेजांसि अस्मे अस्मासु सन्तु भवन्तु । अस्माकं संबन्धि युष्मत्सामर्थ्यमस्त्विति भावः । 'नमो मात्र इति भूमिमवेक्षत इति' ( १४ । ५ । १२)। यूपारूढ एव यजमानो भूमिं पश्यति । पृथिवीदेवत्यम् । मात्रे मातृरूपायै पृथिव्यै नमो नमस्कारोऽस्तु । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२ ) इति द्विरुक्तिः । 'उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणा स्तृणातीयं त इति' ( का० १४ । ५। १३ ) आसन्दीदेवत्यम् । हे आसन्दि, ते तव इयं राट् इदं राज्यं राजनं राट् । संपदादित्वाद्भावे स्त्रियां क्विप् । अभिषिक्तासि त्वमिति भावः । 'सुन्वन्तमस्यामुपवेशयति यन्तासीति' ( का० १४ । ५ । १४ ) । आसन्द्यां यजमानमुपवेशयेत् । यजमानदेवत्यम् । हे यजमान, त्वं यन्ता सर्वस्य नियन्तासि । यमनः स्वयं संयमनकर्ता भवसि । अनवच्छिन्नं तव यमनमिति भावः । तथा ध्रुवः स्थिरोऽसि धरुणो धारकोऽसि । कृष्यै कर्षणाय कृषिसिद्ध्यर्थं त्वा त्वामुपवेशयामीति सर्वत्र शेषः । क्षेमाय लब्धपरिपालनाय त्वामुप० । रय्यै धनाय त्वामुप० । पोषाय पशुपुत्रादिपुष्ट्यै त्वामुप० ॥२२॥

त्रयोविंशी
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ᳪ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यᳪ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ता॒: स्वाहा॑ ।। २३ ।।
उ० वाजप्रसवीयानि जुहोति । वाजस्येमम् । तिस्रस्त्रिष्टुभो वाजप्रसवीयदेवत्याः । अत्र प्रायशो व्यवहितानां पदानां संबन्धः । वाजस्येमं प्रसवः सुषुवे । वाजस्यान्नस्य संबन्धी प्रसवः अभ्यनुज्ञानम्, इमं सोमं राजानम् अग्रे प्रथमं सुषुवे । 'षूञ् प्राणिगर्भविमोचने' इत्यस्यैतद्रूपम् । जनितवानित्यर्थः । कुतः सुषुवे । ओषधीष्वप्सु ओषधीषु वर्तमानमप्सु च वर्तमानम् । या इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्च । ता अस्मभ्यम् अस्मदर्थम् मधुमती रसवतीः रसवत्यः भवन्तु भोग्या वा भवन्तु । वयं च ताभिरद्भिरभिषिक्ताः सन्तः स्वकीये राष्ट्रे जागृयाम अप्रमत्ताः स्याम । पुरोहिताः अग्रतो व्यवस्थिताः प्रधाना इत्यर्थः ॥२३॥
म० 'स्रुवेण संभृताज्जुहोति वाजस्येममिति प्रतिमन्त्रमिति (का० १४ । ५। २१)। औदुम्बरपात्रे एकीकृताद्दुग्धव्रीह्यादिधान्यात्स्रुवेणाहवनीये सप्त मन्त्रैर्जुहोति । तिस्रस्त्रिष्टुभः प्रजापतिदेवत्याः । प्रसूतेऽसौ प्रसवः पचादित्वादच् वाजस्यान्नस्य प्रसव उत्पादकः प्रजापतिः अग्रे सृष्ट्यादौ ओषधीषु अप्सु च वर्तमानमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थं सुषुवे उत्पादयामास । ता इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्चास्मभ्यमस्मदर्थं मधुमतीर्मधुमत्यो रसवत्यो माधुर्योपेता भवन्तु भोगयोग्या भवन्तु । वयं च ताभिरभिषिक्ता राष्ट्रे स्वकीये देशे जागृयाम अप्रमत्ता भवाम । पुरोहिताः यागानुष्ठानादौ पुरोगामिनः प्रधाना इत्यर्थः । स्वाहा सुहुतमस्तु ॥ २३ ॥

चतुर्विंशी।
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिᳪ सर्व॑वीरं॒ नि य॑च्छतु॒ स्वाहा॑ ।। २४ ।।
उ० वाजस्येमां प्रसवः । यस्य वाजस्यान्नस्य संबन्धी प्रसवोऽभ्यनुज्ञानम् । शिश्रिये आश्रयति । इमां पृथिवीं दिवं द्युलोकं च विश्वा भुवनानि सम्राट् इमानि च सर्वाणि भूतजातानि शिश्रिये आश्रयति । सम्राट्लक्षणः । यश्च अदित्सन्तं दापयति अदातुमिच्छन्तं दापयति । प्रजानन् स्वमधिकारम् । स नो रयिं स मे वीरं नियच्छतु सोऽस्मभ्यं धनं सर्ववीरैः संयुक्तं नियच्छतु निगृह्णातु ददात्वित्यर्थः ॥ २४ ॥
म० वाजस्यान्नस्य प्रसव उत्पादक ईश्वर इमां पृथिवीं दिवं द्युलोकं च इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि च शिश्रिये आश्रितवान् । स च सम्राट् सर्वेषां भुवनानां राजा भूत्वा अदित्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन् अवगच्छन् मदीयबुद्धिप्रेरणेन हविर्दापयति । ततो नोऽस्मभ्यं सर्ववीरं सर्वैः पुत्रभृत्यादिभिर्युक्तं रयिं धनं नियच्छतु नियमनेन ददातु 'दाण् दाने' 'पाघ्राध्मा-' (पा० ७।३। ७८ ) इत्यादिना यच्छादेशः । स्वाहा सुहुतमस्तु ॥ २४ ॥

पञ्चविंशी।
वाज॑स्य॒ नु प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वत॑: ।
सने॑मि॒ राजा॒ परि॑ याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे स्वाहा॑ ।। २५ ।।
उ० वाजस्य नु प्रसव आबभूव । योऽसौ वाजस्यान्नस्य प्रसवः अभ्यनुज्ञानं विसर्गो वा । नु इति विस्मयार्थः । आबभूव ब्रह्माण्डरूपेण संबभूव जात्येन । इमा च विश्वा भुवनानि सर्वतः इमानि च विश्वानि भूतानि हिरण्यगर्भप्रभृतीनि स्तम्बपर्यन्तानि । आबभूवेत्यनुवर्तते । सर्वतः सर्वतोऽवस्थितानि । सनेमि राजा परियाति विद्वान् । सनेमीति पुराणवचनः। सोऽयमन्नस्य प्रसवश्चिरंतनो राजा परियाति सर्वतो याति स्वेच्छाचारी सन् । विद्वान् स्वमधिकारं जानानः प्रजां च पुष्टिं च वर्धयमानः अस्मे अस्माकम् ॥ २५ ॥
म० नु इति विस्मये । वाजस्य प्रसवः प्रजापतिः इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतानि सर्वतोऽवस्थि