पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशी
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ ऽपि॒जाय॒ स्वाहा॑ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ ऽह॒र्पत॑ये॒ स्वाहा॑
ऽह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनᳪशि॒नाय॒ स्वाहा॑ विन॒ᳪशिन॑ आन्त्याय॒नाय॒ स्वाहा ऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ ।। २० ।।
उ० द्वादशाप्तीर्जुहोति । आपये स्वाहा। प्रजापतेः संवत्सरस्य यज्ञस्य चैतानि नामानि । आप्नोतीत्यापिः। शोभनमाप्नोतीति स्वापिः । अपि जायत इति अपिजः । क्रतुः संकल्पो यज्ञो वा । वसुः वासयिता । अह्नां पतिः अहर्पतिः । अह्वे मुग्धाय । 'मुह वैचित्ये' । दिनाय मुग्धाय । वैनᳪशिनाय विनाशसंयुक्तेषु वसतीति वैनंशिनः । विनंशिने आन्त्यायनाय । अन्त्येऽयने भव आन्त्यायनः । अन्त्याय भौवनाय अन्ते भवोऽन्त्यः। भुवने भवो भौवनः। उभयविशेषणविशिष्टमप्येकं नाम । भुवनस्य पतये अधिपतये । प्रकटार्थे नामनी ॥ २० ॥
म० 'द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति' ( का० १४।५।१) प्राजापत्यानि द्वादश यजूंषि । संवत्सराभिमानी प्रजापतिः स्तूयते तस्यैवैतानि नामानि । आप्नोतीत्यापिस्तस्मै सुहुतमस्तु । शोभनमाप्नोतीति स्वापिः तस्मै । अपि जायते पुनःपुनरुत्पद्यते इत्यपिजस्तस्मै स्वाहा । क्रतुः संकल्पो भोगादिविषयो यज्ञो वा तस्मै । वसवे निवासहेतवे । अह्नां दिवसानां पतिरहर्पतिस्तस्मै । अतश्चत्वारि नामान्युभयविशेषणविशिष्टानि । 'मुह वैचित्ये' मुह्यतीति मुग्धस्तस्मै । अह्ने दिवसाय । विनश्यन्तीति विनंशिनः विनाशशीलाः पदार्थाः । 'मस्जिनशोर्झलि' (पा० ७।१।६० ) इति छान्दसत्वादझल्यपि नुमागमः । विनंशिषु भवो वैनंशिनस्तस्मै । मुग्धाय मोहकाय स्वाहा । अन्ते भवमन्त्यमन्त्यं च तदयनं च अन्त्यायनमन्त्यस्थानं तत्र भव आन्त्यायनस्तस्मै विनंशिने विनाशशीलाय स्वाहा । अन्ते भवोऽन्त्यः भुवने भवो भौवनस्तदुभयविशिष्टाय स्वाहा । भुवनस्य पतये जगतः पालयित्रे । अधिपतये सर्वलोकानां स्वामिने स्वाहा सुहुतमस्तु ॥ २० ॥

एकविंशी।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पतां॒ᳪ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां॒ य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॒र्देवा अगन्मा॒मृता॑ अभूम ।। २१ ।।
उ० षट् क्लृप्तीः। आयुर्यज्ञेन कल्पताम्। मदीयमायुरनेन यज्ञेन क्लृतं भवतु । एवमुपरितनानि व्याख्येयानि । मुखनासिकाप्रभवो वायुः प्राणः । चक्षुः श्रोत्रं च प्रकटार्थम् । पृष्ठं रथन्तरादि । शरीरस्य वा पृष्ठम् । अयं चास्मदीयो यज्ञो वाजपेयाख्येन यज्ञेन क्लृप्तो भवतु । यूपं यजमान आरोहति । प्रजापतेः प्रजा अभूम । कृतमिदमस्माभिः कर्म अतो वयं प्रजापतेः अपत्यभूताः संजाताः । गोधूमानुपस्पृशति । स्वर्देवाः । हे देवाः, स्वः स्वर्लोकमगन्म गताः । शिरसा यूपमत्युज्जिहीते । अमृता अभूम अमृताश्च संजाताः ॥२१॥ ।
म० षट् चोत्तराः षट् आयुर्यज्ञेनेत्याद्याश्चशब्दाज्जुहोति वाचयति वा' ( का० १४।५।२) प्राजापत्यानि षड्यजूंषि । | मदीयमायुर्यज्ञेन वाजपेयाख्येन कल्पतां क्लृप्तं भवतु । मुखनासिकाप्रभवः पञ्चवृत्तिकः प्राणवायुरप्यनेन यज्ञेन क्लृप्तो भवतु । चक्षुरिन्द्रियं यज्ञेन क्लृप्तं भवतु । श्रोत्रेन्द्रियं यज्ञेन क्लृप्तमस्तु । पृष्ठं रथन्तरादिकं शरीरस्य पृष्टं वा यज्ञेन कल्पताम्। यज्ञेन मदीयेन वाजपेयाख्येन यज्ञो यज्ञाधिष्ठाता विष्णुः कल्पताम् । 'प्रजापतेरित्यारोहत इति' ( का० १४ । | ५। ६) पत्नीयजमानौ निश्रेण्या यूपमारोहतः । यजमानदेवत्यानि त्रीणि यजूंषि । वयं प्रजापतेः संबन्धिन्यः प्रजा अभूम अपत्यानि जातानि । 'स्वरिति गोधूममालभत इति' 1(१४ । ५ । ७)। स्वरिति गोधूमपिष्टनिर्मितं चषालं यजमानः स्पृशेत् । हे देवाः, वयं स्वः स्वर्गमगन्म प्राप्ताः । 'शिरसा यूपमुज्जिहीतेऽमृता इति' ( १४ । ५ । ८ )। यूपादूर्ध्वं शिरः करोति । वयममृता मरणधर्मरहिता अभूम संभूताः ॥ २१ ॥

द्वाविंशी।
अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चा॑ᳪसि सन्तु वः । नमो॑ मा॒त्रे पृ॑थि॒व्यै॒ नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड् य॒न्ताऽसि॒ यम॑नो ध्रु॒वो॒ऽसि ध॒रुण॑: । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा ।। २२ ।।
उ० दिशोऽनुवीक्षते । अस्मे वो अस्त्विन्द्रियम् । अस्मे अस्मासु वः युष्मत्संबन्धि अस्तु भवतु इन्द्रियं वीर्यम् । अस्मे नृम्णम् अस्मासु च धनं युष्मत्संबन्धि भवत्वित्यनुषङ्गः। उत क्रतुः अपिच क्रतुः कर्म युष्मत्संबन्धि भवत्वित्यनुषङ्गः। | अस्मे वर्चाᳪसि सन्तु वः अस्मासु च तेजांसि भवन्तु युष्मत्संबन्धीनि । पृथिवीमवेक्षते यजमानः नमो मात्रे पृथिव्यै । पृथिवीं मातरं ब्रवीमीति नमस्करोति च । अभ्यासे भूयांसमर्थं मन्यन्त इति द्विर्वचनम् । औदुम्बरीमासन्दीं बस्तचर्मणा स्तृणाति । इयं ते राट् । इयमिति लिङ्गव्यत्ययः। इदं ते तव राट् राज्यम् । अभिषिक्तोसि त्वमित्येतत्कथयति । सुन्वतमस्यामुपवेशयति । यन्तासि नियन्ता त्वमसि । तवानवच्छिन्नं यमनं कालान्तरेऽपि। ध्रुवोऽसि स्थिरोसि। धरुणः धार